॥ मण्डलब्राह्मणोपनिषद ॥




बाह्यान्तस्तारकाकारं व्योमपञ्चकविग्रहम् ।
राजयोगैकसंसिद्धं रामचन्द्रमुपास्महे ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ याज्ञवल्क्यो ह वै महामुनिरादित्यलोकं जगाम । तमादित्यं नत्वा भो भगवन्नादित्यात्मतत्त्वमनुब्रूहीति ॥ १ ॥

सूक्ष्माष्टाङ्गयोगप्रतिज्ञा -
सहोवाच नारायणः । ज्ञानयुक्तयमाद्यष्टाङ्गयोग उच्यते ॥ २ ॥

चतुर्विधयमः -
शीतोष्णाहारनिद्राविजयः सर्वदा शान्तिर्निश्चलत्वं विषयेन्द्रियनिग्रहश्चैते यमाः ॥ ३ ॥

नवविधनियमः -
गुरुभक्तिः सत्यमार्गानुरक्तिः सुखागतवस्त्वनुभवश्च तद्वस्त्वनुभवेन तुष्टिर्निःसङ्गता एकान्तवासो मनोनिवृत्तिः फलानभिलाषो वैराग्यभावश्च नियमाः ॥ ४ ॥

आसनादिषडङ्गविवरणम् -
सुखासनवृत्तिश्चीरवासाश्चैवमासननियमो भवति ॥ ५ ॥ पूरककुम्भकरेचकैः षोडशचतुष्षष्टिद्वात्रिऽन्शत्सङ्ख्यया यथाक्रमं प्राणायामः ॥ ६ ॥ विषयेभ्य इन्द्रियार्थेभ्यो मनोनिरोधनं प्रत्याहारः ॥ ७ ॥ विषयव्यावर्तनपूर्वकं चैतन्ये चेतःस्थापनं धारणं भवति ॥ ८ ॥ सर्वशरीरेषु चैतन्यैकतानता ध्यानम् ॥ ९ ॥ ध्यानविस्मृतिः समाधिः ॥ १० ॥ एवं सूक्ष्माङ्गानि । य एवं वेद स मुक्तिभाग्भवति ॥ ११ ॥
इति प्रथमः खण्डः

देहपञ्चदोषनिरसनम् -
देहस्य पञ्चदोषा भवन्ति कामक्रोधनिःश्वासभयनिद्राः ॥ १ ॥ तन्निरासस्तु निःसङ्कल्प क्षमा लघ्वाहार प्रमादता तत्त्वसेवनम् ॥ २ ॥

तारकावलोकनं तत्फलं च -
निद्राभयसरीसृपं हिंसादितरङ्गं तृष्णावर्तं दारपङ्कं संसारवार्धिं तर्तुं सूक्ष्ममार्गमवलम्ब्य सत्त्वादिगुणानतिक्रम्य तारकमवलोकयेत् ॥ ३ ॥ भ्रूमध्ये सच्चिदानन्दतेजःकूटरूपं तारकं ब्रह्म ॥ ४ ॥

लक्ष्यत्रयावलोकनेन तारकप्राप्तिः -
तदास्युपायं लक्ष्यत्रयावलोकनम् ॥ ५ ॥

अन्तर्लक्ष्यदर्शनम् -
मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं सुषुम्ना सूर्याभा । तन्मध्ये मृणालतन्तुसूक्ष्मा कुण्डलिनी । ततो तमोनिवृत्तिः । तद्दर्शनात्सर्वपापनिवृत्तिः ॥ ६ ॥ तर्जन्यग्रोन्मीलितकर्णरन्ध्रद्वये फूत्कारशब्दो जायते । तत्र स्थिते मनसि चक्षुर्मध्य नीलज्योतिः पश्यति । एवं हृदयेऽपि ॥ ७ ॥

बहिर्लक्ष्यदर्शनम् -
बहिर्लक्ष्यं तु नासाग्रे चतुःषडाष्टदशद्वादशाङ्गुलीभिः क्रमान्नीलद्युतिश्यामत्व सदृग्रक्तभङ्गीस्फुरत्पीतवर्णद्वयोपेतं व्योमत्वं पश्यति स तु योगी ॥ ८ ॥ चलदृष्ट्या व्योमभागवीक्षितुः पुरुषस्य दृष्ट्यग्रे ज्योतिर्मयूखा वर्तन्ते । तद्दृष्टिः स्थिरा भवति ॥ ९ ॥ शीर्षोपरि द्वादशाङ्गुलिमानज्योतिः पश्यति तदाऽमृतत्वमेति ॥ १० ॥

मध्यलक्ष्यदर्शनम् -
मध्यलक्ष्यं तु प्रातश्चित्रादिवर्ण सूर्यचन्द्रवह्निज्वालावलीवत् तद्विहीनान्तरिक्षवत्पश्यति ॥ ११ ॥ तदाकाराकारी भवति ॥ १२ ॥
अभ्यासान्निर्विकारं गुणरहिताकाशं भवति । विस्फुरत्तारकाकार गाढच्छ तमोपमं पराकाशं भवति । कालानलसमद्योतमानै महाकाशं भवति । सर्वोत्कृष्टच्छ परमाद्वितीयप्रद्योतमानं तत्त्वाकाशं भवति । कोटिसूर्यप्रकाश संकाशं सूर्याकाशं भवति ॥ १३ ॥ एवमभ्यासात्तन्मयो भवति । य एवं वेद ॥ १४ ॥
इति द्वितीयः खण्डः

तारकामनस्कभेदेन द्विविधो योगः -
तद्योगं च द्विधा विद्धि पूर्वोत्तरविधानतः ।
पूर्वं तु तारकं विद्यादमनस्कं तदुत्तरमिति ॥
तारकं द्विविधम् । मूर्तितारकममूर्तितारकमिति । यदिन्द्रियान्तं तन्मूर्तितारकम् । यद्‌भ्रूयुगातीतं तदमूर्तितारकमिति ॥ १ ॥

मनोयोगविधिः -
उभयमपि मनोयुक्तमभ्यसेत् । मनोयुक्तान्तरदृष्टिस्तारकप्रकाशाय भवति ॥ २ ॥

पूर्वतारकम् -
भ्रूयुगमध्यबिले तेजस आविर्भावः । एतत्पूर्वतारकम् ॥ ३ ॥

उत्तरतारकम् -
उत्तरं त्वमनस्कम् । तालुमूलोर्ध्वभागे महाज्योतिर्विद्यते । तद्दर्शनादणिमादिसिद्धिः ॥ ४ ॥

उत्तरतारकस्य शाम्भवीपर्यवसानम् -
लक्ष्येऽन्तर्बाह्यायां दृष्टौ निमेषोन्मेषवर्जितायां च इयं शाम्भवी मुद्रा भवति । सर्वतन्त्रेषु गोप्यमहाविद्या भवति । तज्ज्ञानेन संसारनिवृत्तिः । तत्पूजनं मोक्षफलदम् ॥ ५ ॥

अन्तर्लक्ष्यलक्षणम् -
अन्तर्लक्ष्यं जलज्योतिस्स्वरूपं भवति । महर्षिवेद्यं अन्तर्बाह्येन्द्रियैरदृश्यम् ॥ ६ ॥
इति तृतीयः खण्डः

अन्तर्लक्ष्ये वादिविप्रतिपत्तिः -
सहस्रारे जलज्योतिरन्तर्लक्ष्यम् । बुद्धिगुहायां सर्वाङ्गसुन्दरं पुरुषरूपमन्तर्लक्ष्यमित्यपरे । शीर्षान्तर्गतमण्डलमध्यगं पञ्चवक्त्रमुमासहायं नीलकण्ठं प्रशान्तमन्तर्लक्ष्यमिति केचित् । अङ्गुष्ठमात्रः पुरुषोऽन्तर्लक्ष्यमित्येके ॥ १ ॥

सर्वलक्ष्यानुस्यूतात्मदर्शनविधिः -
उक्तविकल्पं सर्वमात्मैव । तल्लक्ष्यं शुद्धात्मदृष्ट्या वा यः पश्यति स एव ब्रह्मनिष्ठो भवति ॥ २ ॥

आत्मनिष्ठस्य ब्रह्मभावप्राप्तिः -
जीवः पञ्चविंशकः स्वकल्पितचतुर्विंशतितत्त्वं परित्यज्य षड्‌विंशकः परमात्माऽहमिति निश्चयाज्जीवन्मुक्तो भवति ॥ ३ ॥ एवमन्तर्लक्ष्यदर्शनेन जीवन्मुक्तिदशायां स्वयमन्तर्लक्ष्यो भूत्वा परमाकाशाखण्डमण्डलो भवति ॥ ४ ॥
इति चतुर्थः खण्डः
इति प्रथमं ब्राह्मणम् ॥



द्वितीयं ब्राह्मणम्



सर्वाधारज्योतिरात्मनः अन्तर्लक्ष्यत्वम् -
अथ ह याज्ञवल्क्य आदित्यमण्डलपुरुषं पप्रच्छ । भगवन्नन्तर्लक्ष्यादिकं बहुधोक्तम् । मया तन्न ज्ञातम् । तद्‌ब्रूहि मह्यम् ॥ १ ॥ तदुहोवाच पञ्चभूतकारणं तडित्कूटाभं तद्वच्चतुःपीठम् । तन्मध्ये तत्त्वप्रकाशो भवति । सोऽतिगूढ अव्यक्तश्च ॥ २ ॥

ज्योतिरात्मज्ञानफलम -
तज्ज्ञानप्लवाधिरूढेन ज्ञेयम् । तद्‌बाह्याभ्यन्तर्लक्ष्यम् ॥ ३ ॥ तन्मध्ये जगल्लीनम् । तन्नादबिन्दुकलाऽतीतमखण्डमण्डलम् । तत्सगुणनिर्गुणस्वरूपम् । तद्वेत्ता विमुक्तः ॥ ४ ॥

शाम्भव्या तदधिगमः -
आदावग्निमण्डलम् । तदुपरि सूर्यमण्डलम् । तन्मध्ये सुधाचन्द्रमण्डलम् । तन्मध्येऽखण्डब्रह्मतेजोमण्डलम् । तद्विद्युल्लेखावच्छुक्लभास्वरम् । तदेव शाम्भवीलक्षणम् ॥ ५ ॥

पूर्णिमादृष्टिविधिः -
तद्दर्शने त्रयो दृष्टय अमा प्रतिपत्पूर्णिमा चेति । निमीलितदर्शनममादृष्टिः । अर्धोन्मीलितं प्रतिपत् । सर्वोन्मीलनं पूर्णिमा भवति । तासु पूर्णिमाऽभ्यासः कर्तव्यः ॥ ६ ॥ तल्लक्ष्यं नासाग्रम् । तदा तालुमूले गाढतमो दृश्यते । तदभ्यासादखण्डमण्डलाकार ज्योतिर्दृश्यते । तदेव सच्चिदानन्दं ब्रह्म भवति ॥ ७ ॥

पूर्णिमादृष्टेः शाम्भवीपर्यवसानम् -
एवं सहजानन्दे यदा मनो लीयते तदा शान्तो भवी भवति । तामेव खेचरीमाहुः ॥ ८ ॥

मुद्रासिद्धिः तच्चिह्नानि च -
तदभ्यासान्मनःस्थैर्यम् । ततो बुद्धिस्थैर्यम् ॥ ९ ॥ तच्चिह्नानि । आदौ तारकवद्दृश्यते । ततो वज्रदर्पणम् । ततः परिपूर्णचन्द्रमण्डलम् । ततो रत्‍नप्रभामण्डलम् । ततो मध्याह्नार्कमण्डलम् । ततो वह्निशिखामण्डलं क्रमाद्दृश्यते ॥ १० ॥
इति प्रथमः खण्डः

प्रणवस्वरूपप्रतत्यक्प्रकाशानुभवः, तच्चिह्नानि च -
तदा पश्चिमाभिमुखप्रकाशः स्फटिकधूम्र बिन्दुनाद कलानक्षत्र खद्योतदीपनेत्र सवर्णनवरत्‍नादिप्रभा दृश्यन्ते । तदेव प्रणवस्वरूपम् ॥ १ ॥

षण्मुख्या प्रणवधिगमः -
प्राणापानयोरैक्यं कृत्वा धृतकुम्भको नासाग्रदर्शन दृढभावनया द्विकराङ्गुलिभिः षण्मुखीकरणेन प्रणवादिध्वनिं निशम्य मनस्तत्र लीनं भवति ॥ २ ॥

प्रणवविदः कर्मलेपाभावः -
तस्य न कर्मलेपः । रवेरुदयास्तमययोः किल कर्म कर्तव्यम् । एवंविदश्चिदादित्यस्योदयास्तमयाभावात् सर्वकर्माभावः ॥ ३ ॥

उन्मन्यवस्थाद्वारा अमनस्कसिद्धिः -
शब्दकाललयेन दिवारात्र्यतीतो भूत्वा सर्वपरिपूर्ण ज्ञानेनोन्यान्यवस्थावशेन ब्रह्मैक्यं भवति । उन्मन्या अमनस्कं भवति ॥ ४ ॥

अमनस्कपूजाप्रकारः -
तस्य निश्चिन्ता ध्यानम् । सर्वकर्मनिराकरणं आवाहनम् । निश्चयज्ञानमासनम् । उन्मनीभावः पाद्यम् । सदाऽमनस्कमर्घ्यम् । सदादीप्तिरपारामृतवृत्तिः स्नानम् । सर्वत्र भावना गन्धः । दृक्स्वरूपावस्थानमक्षताः । चिदाप्तिः पुष्पम् । चिदग्निस्वरूपं धूपः । चिदादित्यस्वरूपं दीपः । परिपूर्णचन्द्रामृतरसस्यैकीकरणं नैवेद्यम् । निश्चलत्वं प्रदक्षिणम् । सोहंभावो नमस्कारः । मौनं स्तुतिः । सर्वसन्तोषो विसर्जनमिति य एवं वेद । ॥ ५ ॥
इति द्वितीयः खण्डः

ब्रह्मानुसन्धानेन कैवल्यप्राप्तिः -
एवं त्रिपुट्यां निरस्तायां निस्तरङ्गसमुद्रवन्निवातस्थित-दीपवद् अचलसंपूर्णभावाभावविहीन कैवल्यज्योतिर्भवति ॥ १ ॥

ब्रह्मवित्स्वरूपम् -
जाग्रन्निद्राऽन्तःपरिज्ञानेन ब्रह्मविद्‌भवति ॥ २ ॥

सुषुप्तिसमाध्योः भेदः -
सुषुप्तिसमाध्योर्मनोलयाविशेषेऽपि महदस्त्युभयोर्भेदस्तमसि लीनत्वान्मुक्तिहेतुत्वाभावाच्च ॥ ३ ॥ समाधौ मृदिततमोविकारस्य तदाकाराकारिताखण्डाकार वृत्त्यात्मकसाक्षिचैतन्ये प्रपञ्चलयः संपद्यते प्रपञ्चस्य मनःकल्पितत्वात् ॥ ४ ॥

ब्रह्मविदः ब्रह्मभावः -
ततो भेदाभावात्कदाचिद्‌बहिर्गतेऽपि मिथ्यात्वभानात् । सकृद्विभातसदानन्दानुभवैकगोचरो ब्रह्मवित्तदेव भवति ॥ ५ ॥

सङ्कल्पत्यागपूर्वकपरमात्मध्यानेन मुक्तिसिद्धिः -
यस्य सङ्कल्पनाशः स्यात्तस्य मुक्तिः करे स्थिता । तस्माद्भावाभावौ परित्यज्य परमात्मध्यानेन मुक्तो भवति ॥ ६ ॥ पुनःपुनः सर्वावस्थासु ज्ञानज्ञेयौ ध्यानध्येयौ लक्ष्यालक्ष्ये दृश्यादृश्ये चोहापोहादि परित्यज्य जीवन्मुक्तो भवेत् । य एवं वेद ॥ ७ ॥
इति तृतीयः खण्डः

जाग्रदादिपञ्चावस्थाः -
पञ्चावस्थाः जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीताः ॥ १ ॥

प्रवृत्तिसङ्कल्पः -
जाग्रति प्रवृत्तो जीवः प्रवृत्तिमार्गासक्तः पापफलनरकादिमास्तु शुभकर्मफलस्वर्गमस्त्विति काङ्क्षते ॥ २ ॥

निववृत्तिसङ्कल्पः -
एवं स एव स्वीकृतवैराग्यात्कर्मफलजन्माऽलं संसारबन्धनमलमिति विमुक्त्यभिमुखो निवृत्तिमार्गप्रवृत्तो भवति ॥ ३ ॥

संसारतरणमार्गः -
स एव संसारतारणाय गुरुमाश्रित्य कामादि त्यक्त्वा विहितकर्माचरन् साधनचतुष्टयसंपन्नो हृदयकमलमध्ये भगवत्सत्तामात्रान्तर्लक्ष्य रूपमासाद्य सुषुप्त्यवस्थाया मुक्तब्रह्मानन्दस्मृतिं लब्ध्वा एवाहं अद्वितीयः कञ्चित्कालं अज्ञानवृत्त्या विस्मृतजाग्रद्वासनानुफलेन तैजसोऽस्मीति तदुभयनिवृत्त्या प्राज्ञ इदानीमस्म्यहमेक एव स्थानभेदादवस्थाभेदस्य परंतु तु न हि मदन्यदिति जातविवेकः शुद्धाद्वैतब्रह्माहमिति भिदागन्धं निरस्य स्वान्तर्विजृम्भित भानुमण्डलध्यान तदाकाराकारित परंब्रह्माकारित मुक्तिमार्गमारूढः परिपक्वो भवति ॥ ४ ॥

मनसो बन्धमोक्षहेतुत्वनिरूपणम् -
सङ्कल्पादिकं मनो बन्धहेतुः । तद्वियुक्तं मनो मोक्षाय भवति ॥ ५ ॥ तद्वांश्चक्षुरादि बाह्यप्रपञ्चरतो विगतप्रपञ्चगन्धः सर्वजगदात्मत्वेन पश्यंस्त्यक्ताहङ्कारो ब्रह्माहमस्मीति चिन्तयन्निदं सर्वं यदयमात्मेति भावयन् कृतकृत्यो भवति ॥ ६ ॥
इति चतुर्थः खण्डः

निर्विकल्पसमाध्यभ्यासेन ब्रह्माविद्वरत्वप्राप्तिः -
सर्वपरिपूर्णतुरीयातीतब्रह्मभूतो योगी भवति । तं ब्रह्मेति स्तुवन्ति ॥ १ ॥ सर्वलोकस्तुतिपात्रं सर्वलोकसंचारशीलः परमात्मगगने बिन्दुं निक्षिप्य शुद्धाद्वैताजाड्यसहजामनस्क योगनिद्राखण्डानन्दपदानुवृत्त्या जीवन्मुक्तो भवति ॥ २ ॥

अपरिच्छिन्नानन्दरूपब्रह्मावाप्तिः -
तच्चानन्दसमुद्रमग्ना योगिनो भवन्ति ॥ ३ ॥
तदपेक्षया इन्द्रादयः स्वल्पानन्दाः । एवं प्राप्तानन्दः परमयोगी भवतीत्युपनिषत् ॥ ५ ॥
इति पञ्चमः खण्डः
इति द्वितीयं ब्राह्मणम् ॥ २ ॥



तृतीयं ब्राह्मणम्



शाम्भवीमुद्राऽन्वितं अमनस्कम् -
याज्ञवल्क्यो महामुनिर्मण्डलपुरुषं पप्रच्छ स्वामिन्नमनस्क लक्षणमुक्तमपि विस्मृतं पुनस्तल्लक्षणं ब्रूहीति ॥ १ ॥ तथेति मण्डलपुरुषोऽब्रवीत् । इदं अमनस्कं अतिरहस्यम् । यज्ज्ञानेन कृतार्थो भवति तन्नित्यं शांभवीमुद्राऽन्वितम् ॥ २ ॥

परमात्मप्रत्ययलक्ष्यदर्शनेन अमनस्कप्राप्तिः -
परमात्मदृष्ट्या तत्प्रत्ययलक्ष्याणि दृष्ट्वा तदनु सर्वेशमप्रमेयमजं शिवं परमाकाशं निरालम्बमद्वयं ब्रह्मविष्णुरुद्रादीनामेकलक्ष्यं सर्वकारणं परंब्रह्मात्मन्येव पश्यमानो गुहाविहरणमेवं निश्चयेन ज्ञात्वा भावाभावादिद्वन्द्वातीतः संविदितमनोन्मन्यनुभवस्तदनन्तरं अखिलेन्द्रियक्षयवशाद् अमनस्कसुखब्रह्मानन्दसमुद्रे मनःप्रवाहयोगरूप निवातस्थितदीपवदचलं परंब्रह्म प्राप्नोति ॥ ३ ॥

ततः संसारनिवृत्तिः -
ततः शुष्कवृक्षवन्मूर्च्छानिद्रामय निःश्वासोच्छ्वासाभावान्नष्टद्वन्द्वः सदाचञ्चलगात्रः परमशान्तिं स्वीकृत्य मनः प्रचारशून्यं परमात्मनि लीनं भवति ॥ ४ ॥

तारकमार्गेण करणविलयद्वारा मनोनाशः -
पयस्रावानन्तरं धेनुस्तनक्षीरमिव सर्वेन्द्रियवर्गे परिनष्टे मनोनाशं भवति तदेवामनस्कम् ॥ ५ ॥ तदनु नित्यशुद्धः परमात्माऽहमेवेति तत्त्वमसीत्युपदेशेन त्वमेवाहमहमेव त्वमिति तारकयोगमार्गेण अखण्डानन्दपूर्णः कृतार्थो भवति ॥ ६ ॥
इति प्रथमः खण्डः

उन्मनीप्राप्त्या योगिनो ब्रह्मात्मभवनम् -
परिपूर्णपराकाशमग्नमनाः प्राप्तोन्मन्यवस्थः संन्यस्त सर्वेन्द्रियवर्गः अनेकजन्मार्जित पुण्यपुञ्जपक्वच्छ कैवल्यफलो अखण्डानन्दनिरस्त सर्वक्लेशकश्मलो ब्रह्माहमस्मीति कृतकृत्यो भवति ॥ १ ॥
त्वमेवाहं न भेदोऽस्ति पूर्णत्वात्परमात्मनः ।
इत्युच्चरन्त्समालिङ्ग्य शिष्यं ज्ञप्तिमनीनयत् ॥ २ ॥
इति द्वितीयः खण्डः
इति तृतीयं ब्राह्मणम् ॥ ३ ॥



चतुर्थं ब्राह्मणम्



व्योमपञ्चकज्ञानं तत्फलं च -
अथ ह याज्ञवल्क्यो मण्डलपुरुषं पप्रच्छ व्योमपञ्चकलक्षणं विस्तरेणानुब्रूहीति ॥ १ ॥ स होवाचाकाशं पराकाशं महाकाशं सूर्याकाशं परमाकाशमिति पञ्च भवन्ति ॥ २ ॥ सबाह्याभ्यन्तरं अन्धकारमयमाकाशम् । सबाह्यस्याभ्यन्तरे कालानलसदृशं पराकाशम् । सबाह्याभ्यन्तरे अपरिमितद्युतिनिभं तत्त्वं महाकाशम् । सबाह्याभ्यन्तरे सूर्यनिभं सूर्याकाशम् । अनिर्वचनीयज्योतिः सर्वव्यापकं निरतिशयानन्दलक्षणं परमाकाशम् ॥ ३ ॥ एवमन्तर्ल्लक्ष्यदर्शनात् तत्तद्‌रूपो भवति ॥ ४ ॥

राजयोगसर्वस्वक्रोडीकरणम् -
नवचक्रं षडाधारं त्रिलक्ष्यं व्योमपञ्चकम् ।
सम्यगेतन्न जानाति स योगी नामतो भवेत् ॥ १ ॥
इति चतुर्थं ब्राह्मणम् ॥ ४ ॥



पञ्चमं ब्राह्मणम्



परमात्मनि मनोलयाभ्यासविधिः -
सविषयं मनो बन्धाय निर्विषयं मुक्तये भवति ॥ १ ॥ अतः सर्वं च्चित्तगोचरम् । तदेव चित्तं निराश्रयं मनोन्मन्यवस्थापरिपक्वं लययोग्यं भवति ॥ २ ॥ तल्लयं परिपूर्णे मयि समभ्यसेत् । मनोलयकारणमहमेव ॥ ३ ॥
अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ।
ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः ॥ ४ ॥
यन्मनस्त्रिजगत्सृष्टि-स्थितिव्यसनकर्मकृत् ।
तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥ ५ ॥

अमनस्काभ्यासेन ब्रह्मावस्थानसिद्धिः -
तल्लयाच्छुद्धाद्वैतसिद्धिर्भेदाभावात् । एतदेव परमतत्त्वम् ॥ ६ ॥ स तज्ज्ञो बालोन्मत्तपिशाचवज्जडवृत्त्या लोकमाचरेत् ॥ ७ ॥ एवममनस्काभ्यासेनैव नित्यतृप्तिः अल्पमूत्रपुरीष मितभोजन दृढाङ्गा जाड्य निद्रादृग्वायुचलनाभावब्रह्मदर्शनात् ज्ञातसुखस्वरूपसिद्धिर्भवति ॥ ८ ॥

अमनस्कसिद्धस्य महिमा -
एवं चिरसमाधिजनित ब्रह्मामृतपानपरायणोऽसौ संन्यासी परमहंस अवधूतो भवति । तद्दर्शनेन सकलं जगत्पवित्रं भवति । तत्सेवापरोऽज्ञोऽपि मुक्तो भवति । तत्कुलमेकोत्तरशतं तारयति । तन्मातृपितृजायापत्यवर्गं च मुक्तं भवति ॥ ९ ॥
इत्युपनिषत् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति मण्डलब्राह्मणोपनिषत्समाप्ता ॥