॥ अमृतबिन्दुपनिषद ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ ॥

मन एव बन्धमोक्षयोः कारणम् -
मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च ।
अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् ॥ १ ॥
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ २ ॥

मनोनिरोधो मोक्षोपायः -
यतो निर्विष्यस्यास्य मनसो मुक्तिरिष्यते ।
अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा ॥ ३ ॥
निरस्तनिषयासङ्‌गं संनिरुद्धं मनो हृदि ।
यदायात्युन्मनोऽभावं तदा तत्परमं पदम् ॥ ४ ॥
तावदेव निरोद्धव्यं यावद्‌धृति गतं क्षयम् ।
एतज्ज्ञानं च मोक्षं च शेषो न्यायश्च विस्तरः ॥ ५ ॥

्रह्मज्ञानेन ब्रह्मभावप्राप्तिः -
नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च ।
पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा ॥ ६॥

सविशेषब्रह्मानुसन्धानेन निर्विशेषब्रह्मादिगमः -
स्वरेण संधयेद्योगमस्वरं भावयेत्परम् ।
अस्वरेणानुभावेन नाभावो भाव इष्यते ॥ ७ ॥
तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् ।
तद्‌ब्रह्माहं इति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् ॥ ८ ॥
निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् ।
अप्रमेयमनाद्यं च यत् ज्ञात्वा मुच्यते बुधः ॥ ९ ॥
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्तः इत्येषा परमार्थता ॥ १० ॥

आत्मनः एकत्वम् -
एक एवाऽऽत्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु ।
स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते ॥ ११ ॥
एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृष्यते जलचन्द्रवत् ॥ १२ ॥

आत्मनो जन्मनाशराहित्यम् -
घटसंवृतमाकाशं नीयमानो घटे यथा ।
घटो लीयेत नाऽकाशः तद्‌वज्जीवो नभोपमः ॥ १३ ॥
घटवद्‌विविधाकारं भिद्यमानं पुनः पुनः ।
तद्‌‌भेदे न च जानाति स जानाति च नित्यशः ॥ १४ ॥

निरुपाधिकात्मदर्शनम् -
शब्दमायावृतो नैव तमसा याति पुष्करे ।
भिन्ने तमसि चैकत्वमेएक एवानुपश्यति ॥ १५ ॥
शब्दब्रह्मध्यानेन परब्रह्माधिगमः -
शब्दाक्षरं परं ब्रह्म तस्मिन्क्षीणे यदक्षरम् ।
तद्विद्वानक्षरं ध्यायेद्यदिच्छेच्छान्तिमात्मनः ॥ १६ ॥
द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् ।
शब्दब्रह्माणि निष्णातः परं ब्रह्माधिगच्छति ॥ १७ ॥
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।
पलालमिव धान्यार्यी त्यजेद्ग्रन्थमशेषतः ॥ १८ ॥

सर्वभूतप्रत्यगात्मनः एकत्वम् -
गवामनेकवर्णानां क्षीरस्याप्येकवर्णता ।
क्षीरवत्पश्यते ज्ञानं लिङ्‌गिनस्तु गवां यथा ॥ १९ ॥
घृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् ।
सततं मनसि मन्थयितव्यं मनु मन्थानभूतेन ॥ २० ॥

तत्साक्षात्कारसाधनं ध्यानम् -
ज्ञाननेत्रं समाधाय चोद्धरेद्‌वह्निवत् परम् ।
निष्कलं निश्चलं शान्तं तद्‌ब्रह्माहमिति स्मृतम् ॥ २१ ॥
सर्वभूताधिवासं यद्‌भूतेषु च वसत्यपि ।
सर्वानुग्राहकत्वेन तदस्म्यहं वासुदेवः तद्स्म्यहं वासुदेवः ॥ २२ ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ ॥
॥ इत्यथर्ववेदे अमृत्बिन्दूपनिषत्समाप्ता ॥