॥ अद्वयतारक उपनिषत् ॥


हे उपनिषद् गद्यात्मक असून शेवटची गुरुस्तुती मात्र पद्यात्मक छंदात आहे. शुक्ल यजुर्वेदात याचा समावेश असून ब्रह्मप्राप्ती हा याचा प्रतिपाद्य विषय आहे. या उपनिषदात राजयोगाची तत्त्वे विशद केली असून शमदमादी षड्‌गुणयुक्त योगी हा याचा अधिकारी मानलेला आहे. जेव्हा योगी 'मी चित् स्वरूप' आहे अशी कल्पना करून भ्रूमध्यात अंतर्दृष्टीने सच्चिदानंद तेजसमूहरूप ब्रह्माचे अवलोकन करतो तेव्हा तो परब्रह्मरूप होतो. जे गर्भावास, जन्म, जरा, मरण, संहार यापासून तारून नेते त्याला तारक ब्रह्म म्हणतात. जीव व ईश्वर मायाधीन समजून अन्य सर्व नेति नेति म्हणूनही जे काही शिल्लक उरते ते अद्वय ब्रह्म आहे. ब्रह्मप्राप्तीसाठी तीन लक्ष्ये सांगितली आहेत. पहिल्या पाच भागात अंतर्लक्ष्यलक्षण आले आहे. देहात सुषुम्ना नावाची ब्रह्मनाडी असते. तिचे तेज चंद्रासारखे असते. ही नाडी मूलाधारापासून निघून ब्रह्मरंध्रात जाते. तिच्यामध्ये अतिशय बारीक पण कोटी विजांप्रमाणे लखलखीत अशी कुंडलिनी असते. मनाच्या योगे तिचे दर्शन झाले की पुरुषाच्या सर्व पापांचा नाश होतो आणि तो मुक्त होतो. ललाटभागी तारक ब्रह्माच्या योगाने तेजस्विनी कुंडलिनीचे जो दर्शन घेतो, तो सिद्ध होतो. त्याच्या कर्णरंध्रात फुत्कार ध्वनी उत्पन्न होतो. तर्जनीच्या अग्रांनी दाबल्याने आवाज बंद होतो. नेत्रांच्या मध्यभागी अंतर्दृष्टीने निळा तेजस्वी प्रदेश दिसतो व निरतिशय सुख लाभते. पुढे आठ भागापर्यंत बहिर्लक्ष्यलक्षण आणि मध्यलक्ष्यलक्षण प्रतिपादिले आहे. जेव्हा पुरुष नासिकाग्राच्या पुढे क्रमाने चार, सहा, आठ, दहा व बारा अंगुळांवर निळ्या रंगाचे व लाल रंगाने मिश्रित परंतु वास्तविक नारिंगी असलेले आकाश पाहतो तेव्हा तो योगी होतो. प्रातःकाळी त्याला सूर्याप्रमाणे मोठे बिंब दिसते. ते अग्नीप्रमाणे तेजस्वी व चित्रविचित्र रंगांचे असते. नंतर तो पुरुष तदाकार होतो व तेच दृष्य सतत पाहिल्याने त्याला आकाश गुणरहित (निर्गुण) दिसू लागते. त्यानंतर चमकणार्‍या तार्‍यांनी प्रकाशित आणि प्रातःकालच्या अंधाराप्रमाणे 'परमाकाश' दिसते. 'महाकाश' उत्कृष्ट प्रकाश व प्रखर ज्योतीसमान दिसते. 'सूर्याकाश' कोटी सूर्यप्रकाशाने झळाळल्यासारखे दिसते. अंतर्बाह्य स्थित हे पाच प्रकारचे आकाश तारक योग्याचे लक्ष्य आहे. या आकाशाप्रमाणेच तो बंधमुक्त होतो. यानंतर तारकयोगसिद्धी, तारकयोगाचे स्वरूप, शांभवी मुद्रा व आचार्यलक्षण हे विषय आले आहेत. भ्रूमध्यात ऊर्ध्वभागातील तेजाचे दर्शन हे तारकयोगाचे लक्ष्य आहे. जेव्हा साधकाची अंतर-बाह्य लक्ष्यदर्शनाची दृष्टी स्थिर होते तेव्हा शांभवी मुद्रा होते. अशा परमयोग्याची पूजा करणारा मुक्तीचा अधिकारी होतो. 'गु' या शब्दाचा अर्थ अंधकार व 'रु' या शब्दाचा अर्थ अडविणारा. अंधकार दूर करणारा हा गुरूच परब्रह्म, परमगती, पराविद्या, परायणयोग्य, पराकाष्ठा, परमधन आहे. गुरुस्तुती करताना हे उपनिषद् म्हणते, 'गुरुरेव परं ब्रह्म गुरुरेव परा गतिः । गुरुरेव परा विद्या गुरुरेव परायणम् । गुरुरेव परा काष्ठा गुरुरेव परं धनम् ॥'


उपनिषद प्रारंभ


ॐ पूर्णमदः पूणमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

अथातोऽद्वयतारकोपनिषदं व्याख्यास्यामो यतये
जितेन्द्रियाय शमदमादिषड्‌गुणपूर्णाय ॥ १ ॥
चित्स्वरूपोऽहमिति सदा भावयन् सम्यक् निमीलिताक्षः
किंचिद् उन्मीलिताक्षो वाऽन्तर्दृष्ट्या भ्रूदहरादुपरि
सचिदानन्दतेजःकूटरूपं परं ब्रह्मावलोकयन् तद्‌रूपो भवति ॥ २ ॥
गर्भजन्मजरामरणसंसारमहद्‌भयात् संतारयति तस्मात्तारकमिति ।
जीवेश्वरौ मायिकाविति विज्ञाय सर्वविशेषं नेति
नेतीति विहाय यदवशिष्यते तदद्वयं ब्रह्म ॥ ३ ॥
तत्सिद्ध्यैः लक्ष्यत्रयानुसंधानं कर्तव्यः ॥ ४ ॥

अन्तर्लक्ष्यलक्षणम् -
देहामध्ये ब्रह्मनाडी सुषुम्ना सूर्यरूपिणी पूर्णचन्द्राभा वर्तते । सा तु मूलाधारादारभ्य ब्रह्मरन्ध्रगामिनी भवति । तन्मध्ये तडित्कोटिसमानकान्त्या मृणालसूत्रवत् सूक्ष्माङ्‌गी कुण्डलिनीति प्रसिद्धाऽस्ति । तां दृष्ट्वा मनसैव नरः सर्वपापविनाशद्वारा मुक्तो भवति । फालोर्ध्वगललाटविशेषमंडले निरन्तरं तेजस्तारकयोगविस्फारणेन पश्यति चेत् सिद्धो भवति । तर्जन्यग्रोन्मीलितकर्णरन्धद्वये तत्र फूत्कारशब्दो जायते । तत्र स्थिते मनसि चक्षुर्मध्यगतनीलज्योतिस्स्थलं विलोक्य अन्तर्दृष्ट्या निरतिशयसुखं प्राप्नोति । एवं हृदये पश्यति । एवं अन्तर्लक्ष्यलक्षणं मुमुक्षुभिरुपास्यम् ॥ ५ ॥

बहिर्लक्ष्यलक्षणम् -
अथ बहिर्लक्ष्यलक्षणम् । नासिकाग्रे चतुर्भिः षड्‌भिरष्टभिः दशभिः द्वादशभिः क्रमाद् अङ्‌गुलान्ते नीलद्युतिश्यामत्वसदृग्रक्तभङ्‌गीस्फुरत् पीतशुक्लवर्णद्वयोपेतं व्योम यदि पश्यति स तु योगी भवति । चलदृष्ट्या व्योमभागवीक्षितुः पुरुषस्य दृष्ट्यग्रे ज्योतिर्मयूखा वर्तन्ते । तद्दर्शनेन योगी भवति । तप्तकाञ्चनसंकाशज्योतिर्मयूखा अपाङ्‌गन्ते भूमौ वा पश्यति तद्‍दृष्टिः स्थिरा भवति । शीर्षोपरि द्वादशाङ्‍गुलसमीक्षितुः अमृतत्वं भवति । यत्र कुत्र स्थितस्य शिरसि व्योमज्योतिर्दृष्टं चेत् स तु योगी भवति ॥ ६ ॥

मध्यलक्ष्यलक्षणम् -
अथ मध्यलक्ष्यलक्षणं प्रातश्चित्रादिर्णाखण्डसूर्यचक्रवत् वह्निज्वालावलीवत् तद्विहीनान्तरिक्षवत् पश्यति । तदाकाराकारितया अवतिष्ठति । तद्‌भूयोदर्शनेन गुणरहिताकाशं भवति । विस्फुरत् तारकाकारदीप्यमानागाढतमोपमं परमाकाशं भवति । कालानलसमद्योतमानं महाकाशं भवति । सर्वोत्कृष्टपरमद्युतिप्रद्योतमानं तत्त्वाकाशं भवति । कोटिसूर्यप्रकाशवैभवसंकाशं सूर्याकाशं भवति । एवं बाह्याभ्यन्तरस्थ-व्योमपञ्चकं तारकलक्ष्यम् । तद्दर्शी विमुक्तफलः तादृग् व्योमसमानो भवति । तस्मात् तारक एव लक्ष्यं अनमस्कफलप्रदं भवति ॥ ७ ॥

द्विविधं तारकम् -
तत्तारकं द्विविधं पूर्वार्धं तारकं उत्तरार्धं अमनस्कं चेति । तदेष श्लोको भवति । तद्योगं च द्विधा विद्धि पूर्वोत्तरविधानतः । पूर्वं तु तारकं विद्यात् अमनस्कं तदुत्तरमिति ॥ ८ ॥

तारकयोगसिद्धिः -
अक्ष्यन्तस्तारयोः चन्द्रसूर्यप्रतिफलनं भवति । तारकाभ्यां सूर्यचंद्रमण्डलदर्शनं ब्रह्माण्डमिव पिण्डाण्डशिरोमध्यस्थाकाशे रवीन्दुमण्डलद्वितयमस्तीति निश्चित्य तारकाभ्यां तद्दर्शनम् । अत्रापि उभयैक्यदृष्ट्या मनोयुक्तं ध्यायेत् । तद्योगाभावे इंद्रियप्रवृत्तेरनवकाशात् । तस्माद अन्तर्दृष्ट्या तारक एवानुसंधेयः ॥ ९ ॥

मूर्तामूरभेदेन द्विविधमनुसन्धेयम् -
तत्तारकं द्विविधं, मूर्तितारकं अमूर्तितारकं चेति । यद् इंद्रियान्तं तत् मूर्तिमत् । यद् भ्रूयुगातीतं तत् अमूर्तिमत् । सर्वत्र अन्तःपदार्थ- विवेचने मनोयुक्ताभ्यास इष्यते । तारकाभ्यां तदूर्ध्वस्थसत्त्वदर्शनात् मनोयुक्तेन अन्तरीक्षणेन सच्चिदानन्दस्वरूपं ब्रह्मैव । तस्मात् शुक्लतेजोमयं ब्रह्मेति सिद्धम् । तद्‌ब्रह्म मनःसहकारिचक्षुषा अन्तर्दृष्ट्या वेद्यं भवति । एवं अमूर्तितारकमपि । मनोयुक्तेन चक्षुषैव दहरादिकं वेद्यं भवति । रूपग्रहणप्रयोजनस्य मनश्चक्षुरधीनत्वात् बाह्यवदान्तरेऽपि आत्ममनश्चक्षुःसंयोगेनैव रूपग्रहणकार्योदयात् । तस्मात् मनोमयुक्ता अन्तर्दृष्टितारकप्रकाशाय भवति ॥ १० ॥

तारकयागस्वरूपम् -
भूयुगमध्यबिले दृष्टिं तद्‍द्वारा ऊर्ध्वस्थितजेज आविर्भूतं तारकयोगो भवति । तेन सह मनोयुक्तं तारकं सुसंयोज्य प्रयत्‍नेन भ्रूयुग्मं सावधानतया किंचित् ऊर्ध्वं उत्क्षेपयेत् । इति पूर्वतारकयोगः । उत्तरं तु अमूर्तिमत् अमनस्कं इत्युच्यते । तालुमूलोर्ध्वभागे महान् ज्योतिर्मयूखो वर्तते । तद्योगिभिर्ध्येयम् । तस्मात् अणिमादि सिद्धिर्भवति ॥ ११ ॥

शाम्भवीमुद्रा -
अन्तर्बाह्यलक्ष्ये दृष्टौ निमेषोन्मेषवर्जितायां सत्यां शांभवी मुद्रा भवति । तन्मुद्रारूढज्ञानिनिवासात् भूमिः पवित्रा भवति । तद्‍दृष्ट्वा सर्वे लोकाः पवित्रा भवन्ति । तादृशपरमयोगिपूजा यस्य लभ्यते सोऽपि मुक्तो भवति ॥ १२ ॥

अन्तर्लक्ष्यविकल्पाः -
अन्तर्लक्ष्यज्वलज्योतिःस्वरूपं भवति । परमगुरूपदेशेन सहस्रारे जलज्ज्योतिर्वा बुद्धिगुहानिहितचिज्ज्योतिर्वा षोडशान्तस्थ तुरीयचैतन्यं वा अन्तर्लक्ष्यं भवति । तद्दर्शनं सदाचार्यमूलम् ॥ १३ ॥

आचार्यलक्षणम् -
आचार्यो वेदसम्पन्नो विष्णुभक्तो विमत्सरः ।
योगज्ञो योगनिष्ठश्च सदा योगात्मकः शुचिः ॥ १४ ॥
गुरुभक्तिसमायुक्तः पुरुषज्ञो विशेषतः ।
एवं लक्षणसंपन्नो गुरुरित्यभिधीयते ॥ १५ ॥
गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः ।
अंधकारनिरोधित्वात् गुरुरित्यभिधीयते ॥ १६ ॥
गुरुरेव परं ब्रह्म गुरुरेव परा गतिः ।
गुरुरेव परा विद्या गुरुरेव परायणम् ॥ १७ ॥
गुरुरेव पराकाष्ठा गुरुरेव परं धनम् ।
यस्मात्तदुपदेष्टासौ तस्मात्-गुरुतरो गुरुरिति ॥ १८ ॥
ग्रन्थाभ्यासफलम् -
यः सकृदुच्चारयति तस्य संसारमोचनं भवति । सर्वजन्मकृतं पापं तत्क्षणादेव नश्यति । सर्वान् कामानवाप्नोति । सर्वपुरुषार्थ सिद्धिर्भवति । य एवं वेद । इति उपनिषत् ॥



GO TOP