श्रीगर्गसंहिता

अश्वमेधखण्डः - द्विषष्टितमोऽध्यायः

सुमेरुसंपूर्ति -


गर्ग उवाच -
तपः कृतं पुरा येन दुर्ज्जरं पूर्वजन्मनि ।
इह लोके च तस्याशु गुरोर्भक्तिर्हि जायते ॥ १ ॥
गुरोः सेवां न कुरुते स्वगुरुं यो न मन्यते ।
यः समर्थश्च पतति कुंभीपाके च सर्वदा ॥ २ ॥
गुरोरभक्तं प्रगतं दृष्ट्वा गोघ्नो भवेन्नरः ।
स्नात्वा गंगां च यमुनां तदा भवति निर्मलः ॥ ३ ॥
द्रव्यलाभस्तु शिष्यस्य भवेद्वै यत्र यत्र च ।
दशांशं च गुरोस्तस्मिन्गृहद्रव्ये तथा हि नः ॥ ४ ॥
तं भुंजति बलाच्छिष्यो न दास्यति गुरुं पृथक् ।
स महारौरवं याति हीनः सर्वसुखैरिह ॥ ५ ॥
हरौ कुर्वन्ति ये नित्यं भक्तिं च नवलक्षणम् ।
संसारसागरं राजंस्ते तरंति सुखेन वै ॥ ६ ॥
ज्ञातिं विद्यां महत्त्वं च रूपं यौवनमेव च ।
यत्‍नेन परिवर्जेत पंचैते भक्तिकंटकाः ॥ ७ ॥
भक्त्या कृष्णस्य राजेन्द्र प्रसादं चरणोदकम् ।
ये गृह्णन्ति भवेयुर्भूपावना नात्र संशयः ॥ ८ ॥
गंगा पापं शशी तापं दैन्यं कल्पतरुर्हरेत् ।
पापं तापं तथा दैन्यं सद्यः साधुसमागमः ॥ ९ ॥
तावद्‌भ्रमन्ति संसारे पितरः पिंडतत्पराः ।
यावद्‌वंशे सुतः कृष्णभक्तियुक्तो न जायते ॥ १० ॥
स किं गुरुः स किं तातः स किं पुत्र स किं सखा ।
स किं राजा स किं बंधुर्न दद्याद्यो हरौ मतिम् ॥ ११ ॥
विद्याधनागारकलाभिमानिनो
     रूपादिदारासुतनित्यबुद्धयः ।
दृष्ट्वान्यदेवान्फलकामिनश्च
     जीवन्मृतास्ते न भजन्ति केशवम् ॥ १२ ॥
हयमेधचरित्रस्य सुमेरुः कथितो मया ।
व्यासः कृष्णचरित्रैश्च तवाग्रे नृपसत्तम ॥ १३ ॥
यस्य श्रवणमात्रेण कृष्णभक्तिर्भविष्यति ।
नराणां नृपशार्दूल शोकमोहभयापहा ॥ १४ ॥
अनेन चरितेनापि लभते वांछितं फलम् ।
धनं धान्यं सुतं भक्तिं तथा शत्रुक्षयं नरः ॥ १५ ॥
तस्माद्‌भजाशु राजेन्द्र श्रीकृष्णं जगदीश्वरम् ।
भक्त्या गृहे वा विपिने ज्ञात्वा विश्वं मनोमयम् ॥ १६ ॥
आयुस्ते नरवीर वर्धतु सदा हेमंतरात्रिर्यथा
लोकानां प्रियदर्शनो भव सदा हेमंतसूर्यो यथा ।
शत्रूणामतिदुःसहो भव सदा हेमंततोयं यथा
नाशं यांतु तवारयोऽपि सततं हेमंतपद्मं यथा ॥ १७ ॥
सूत उवाच -
इति श्रुत्वा वज्रनाभिर्हर्षितः प्रेमविह्वलः ।
स्मरन्कृष्णस्य माहात्म्यं नत्वा गुरुमथाब्रवीत् ॥ १८ ॥
धन्योऽहं च कृतार्थोऽहं भवता करुणात्मना ।
श्रुत्वा कृष्णस्य माहात्म्यं लग्नं कृष्णे च नो मनः ॥ १९ ॥
सूत उवाच -
इत्युक्त्वा पूजयामास गर्गाचार्यं नृपोत्तमः ।
गन्धाक्षतैः पुष्पहारैस्तथा जालकमालया ॥ २० ॥
गजै रथैस्तुरंगैश्च शिबिकाभिश्च मंदिरैः ।
रौप्याणां चैव भारैश्च स्वर्णभारैश्च शौनक ॥ २१ ॥
तथा रत्‍नैश्च ग्रामैश्च ह्यात्मना हर्षपूरितः ।
प्रदक्षिणाप्रणामैश्च तथा नीराजनादिभिः ॥ २२ ॥
ततश्च गर्ग उत्थाय दत्त्वा वज्राय चाशिषम् ।
भूपेन वंदितः सोऽपि ययौ दक्षिणया युतः ॥ २३ ॥
स गत्वा यमुनातीरे तीर्थे विश्रांतिसंज्ञके ।
माथुरेभ्यश्च विप्रेभ्यो मुनिः सर्वं धनं ददौ ॥ २४ ॥
गर्गवाक्यात्ततो वज्रो मथुरायां मुनीश्वरैः ।
चकार हयमेधं वै यथा नागपुरेश्वरः ॥ २५ ॥
ततः स मथुरायां च दीर्घविष्णुं च केशवम् ।
वृन्दावने च गोविंदं हरिदेवं गिरीश्वरे ॥ २६ ॥
गोकुले गोकुलेशं च गोकुलाद्योजने बलम् ।
स्थापयामास वज्रस्तु हरेश्च प्रतिमाश्च षट् ॥ २७ ॥
बलस्य प्रतिमाश्चान्याः पञ्च वै व्रजमण्डले ।
नृणां शुभाय वज्रस्तु स्थापयामास हर्षितः ॥ २८ ॥
अब्दाश्चतुःसहस्राणि कलौ पञ्च शतानि च ।
गते गिरिवरे हि श्रीनाथः प्रादुर्भविष्यति ॥ २९ ॥
तं पूजयिष्यति व्रजे विष्णुस्वामी रवेस्तनुः ।
वल्लभाद्याश्च तच्छिष्याश्चान्ये गोकुलस्वामिनः ॥ ३० ॥
श्रीमद्‌भागवतान्मुक्तिं दृष्ट्वा वज्रः परीक्षितः ।
वैराग्येणापि मुनयो राज्यं त्यक्तुं मनो दधे ॥ ३१ ॥
तदाययौ चौपगविर्नरनारायणाश्रमात् ।
पादुकां मस्तके बिभ्रत्कृष्णचन्द्रस्य वैष्णवः ॥ ३२ ॥
भूपेन वंदितः सोऽपि प्रत्युत्थानासनादिभिः ।
कथयामास वज्राग्रे श्रीमद्‌भागवतं मुदा ॥ ३३ ॥
श्रुत्वोद्धवाद्‌भागवतं वज्रः प्रोवाच हर्षितः ।
श्रुता मया पुरा तात सुसभायां परीक्षितः ॥ ३४ ॥
समाधिभाषा व्यासस्य शुकदेवेन वर्णिता ।
पुनस्त्वयापि कथिता कृतार्थोऽहं बभूव ह ॥ ३५ ॥
इत्युक्त्वा वज्रनाभिस्तु स्वराज्यं प्रतिबाहवे ।
दत्त्वा जगाम गोलोकं विमानेनापि चोद्धवः ॥ ३६ ॥
चकार राज्यं धर्मेण मथुरायां च दक्षिणे ।
प्रतिबाहुः सुतस्तस्य चोत्तरे जनमेजयः ॥ ३७ ॥
अग्रे कलियुगो ब्रह्मन्नागमिष्यति दारुणः ।
परंतु चैकं निर्वाहं दृश्यते पापनाशनम् ॥ ३८ ॥
यावद्‌भागवतं शास्त्रं यावद्‌गोकुलस्वामिनः ।
यावद्‌गोवर्धनो गंगा तावत्कलियुगं न हि ॥ ३९ ॥
भारतानां च खण्डानां जंबूद्वीपे यथा मुने ।
मध्ये संराजते मेरुः सौवर्णः पद्मपुष्पवत् ॥ ४० ॥
तथा गोलोकखण्डानां संहितायां महामुने ।
हयमेधचरित्रस्य मध्ये मेरुर्विराजते ॥ ४१ ॥
अस्य श्रवणमात्रेण विप्रहा गुरुतल्पगः ।
स्त्रीराजपितृगोहन्ता मुच्यते सर्वपातकैः ॥ ४२ ॥
विप्रस्तु लभते विद्यां राज्यं राजन्य एव च ।
श्रवणाच्च धनं वैश्यो धर्मं शूद्रस्तथैव च ॥ ४३ ॥
नदीषु च यथा गंगा देवेषु भगवान्यथा ।
तीर्थेषु वै रीर्थराज इयं वै संहितासु च ॥ ४४ ॥
अस्याः श्रवणमात्रेण तृप्तिं याति नरोतमः ।
न सज्जेतान्यशास्त्रेषु यथा भागवतान्मुने ॥ ४५ ॥
तस्माद्‌भजत पादाब्जं श्रीकृष्णस्य महात्मनः ।
कल्याणार्थं च मुनयो भक्तदुःखहरस्य च ॥ ४६ ॥
श्रीगर्ग उवाच -
इति श्रुत्वा शौनकाद्या मुनयश्चरितं हरेः ।
श्लाघां वै सूतपुत्रस्य चक्रुर्हर्षितमानसाः ॥ ४७ ॥
संसारसागरे मग्नं दीनं मां करुणानिधे ।
कालग्रहगृहीतांगं त्राहि विष्णो नमोऽस्तु ते ॥ ४८ ॥
अनुगृह्णीष्व नः साधो त्वं ह्यनाथस्य वल्लभः ।
त्रैलोक्यस्याभयं दद्याद्यथा स्वामी तथा कुरु ॥ ४९ ॥
श्रीगुरोः कृपया हि श्रीमदनमोहनसेवया ।
बभूव वाङ्‌मम हरेस्तस्या चरितमीरितम् ॥ ५० ॥
वाल्मीक्याद्याश्च व्यासाद्या लघूक्तां कवितां मम ।
पश्यन्तु दृष्ट्वा यूयं चापराधं क्षंतुमर्हथ ॥ ५१ ॥
श्रीमाधवं व्रजपतिं नवमेघगात्रं
     राधापतिं सुरपतिं मुरलीधरञ्च ।
भक्तार्तिहञ्च परमार्थमनन्तदेवं
     कृष्णं नमामि शिरसा मनसा च भक्त्या ॥ ५२ ॥
षड्‌विंशच्च शता रामा त्रिसप्ताशीतिसुप्रियाः ।
श्लोकाश्चरित्रमेरोर्वै श्रीकृष्णस्य महात्मनः ॥ ५३ ॥

इति श्रीमद्‌गर्गसंहितायामश्वमेधखण्डे
सुमेरुसंपूर्तिर्नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥
अश्वमेधखण्डः समाप्तः
समाप्तोऽयं ग्रंथः

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP