श्रीगर्गसंहिता

अश्वमेधखण्डः - षष्टितमोऽध्यायः

राधा कृष्णस्य गोलोकारोहण -


श्रीगर्ग उवाच -
इति श्रुत्वा व्यासमुखात्कृष्णनाम्नां सहस्रकम् ।
संपूज्य तं यादवेन्द्रो भक्त्या कृष्णे मनो दधे ॥ १ ॥
ततः स मिथिलायां च बहुलाश्वश्रुतदेवयोः ।
दत्त्वा स्वदर्शनं कृष्ण आययौ द्वारकां पुरीम् ॥ २ ॥
ततश्च पांडवाः सर्वे द्रौपद्या सह भार्यया ।
द्वारकाया विनिर्गत्य विचेरुस्ते वने वने ॥ ३ ॥
भुक्त्वा च वनवासं तेऽज्ञातवासं तथैव च ।
विराटनगरे सर्वे ससैन्यास्तेऽभवन्नृप ॥ ४ ॥
ततश्च कौरवाः सर्वे श्रीकृष्णेनापि प्रार्थिताः ।
न तेषां प्रददू राज्यमर्धार्धं च तदर्धकम् ॥ ५ ॥
पांडवानां कौरवाणां ज्ञात्वा युद्धं जनार्दनः ।
निरायुधोऽभूद्‌यात्रायां बलोऽहन्सूतबल्वलौ ॥ ६ ॥
ततः सर्वे कुरुक्षेत्रे धर्मक्षेत्रे प्रविश्य च ।
कौरवाः पांडवाश्चैव युद्धं चक्रुः परस्परम् ॥ ७ ॥
जयः कृष्णस्य कृपया पांडवानां बभूव ह ।
भारते च मृताः सर्वे कौरवाः कृतकिल्बिषाः ॥ ८ ॥
ततश्च नव वर्षाणि धर्मो राज्यं चकार ह ।
हयमेधत्रयं चक्रे तेन शुद्धोऽभवन्नृपः ॥ ९ ॥
ततः कृष्णेच्छया राजन्द्वारकायां किलैकदा ।
यादवेभ्यश्च सर्वेभ्यो विप्रशापोऽभवन्महान् ॥ १० ॥
ततः कृष्णस्तु भगवान्प्रपन्नायोद्धवाय च ।
अश्वत्थे कथयामास श्रीमद्‌भागवतं परम् ॥ ११ ॥
ततो बभूव संग्रामो यादवानां परस्परम् ।
निहतास्ते प्रभासे वै शस्त्रैर्नानाविधैरपि ॥ १२ ॥
बलः शरीरं मानुष्यं त्यक्त्वा धाम जगाम ह ।
देवाँस्तत्रागतान्दृष्ट्वा हरिरंतरधीयत ॥ १३ ॥
व्रजे गत्वा हरिर्नंदं यशोदां राधिकां तथा ।
गोपान्गोपीर्मिलित्वाऽऽह प्रेम्णा प्रेमी प्रियान्स्वकान् ॥ १४ ॥
श्रीकृष्ण उवाच -
गच्छ नंद यशोदे त्वं पुत्रबुद्धिं विहाय च ।
गोलोकं परमं धाम सार्धं गोकुलवासिभिः ॥ १५ ॥
अग्रे कलियुगो घोरश्चागमिष्यति दुःखदः ।
यस्मिन्वै पापिनो मर्त्या भविष्यंति न संशयः ॥ १६ ॥
स्त्रीपुंसोर्नियमो नास्ति वर्णानां च तथैव च ।
तस्माद्‌गच्छाशु मद्धाम जरामृत्युहरं परम् ॥ १७ ॥
इति ब्रुवति श्रीकृष्णे रथं च परमाद्‌भुतम् ।
पञ्चयोजनविस्तीर्णं पञ्चयोजनमूर्ध्वगम् ॥ १८ ॥
वज्रनिर्मलसंकाशं मुक्तारत्‍नविभूषितम् ।
मन्दिरैर्नवलक्षैश्च दीपैर्मणिमयैर्युतम् ॥ १९ ॥
सहस्रद्वयचक्रं च सहस्रद्वयघोटकम् ।
सूक्ष्मवस्त्राच्छादितं च सखीकोटिभिरावृतम् ॥ २० ॥
गोलोकादागतं गोपा ददृशुस्ते मुदान्विताः ।
एतस्मिन्नंतरे तत्र कृष्णदेहाद्विनिर्गतः ॥ २१ ॥
देवश्चतुर्भुजो राजन्कोटिमन्मथसन्निभः ।
शंखचक्रधरः श्रीमाँल्लक्ष्म्या सार्धं जगत्पतिः ॥ २२ ॥
क्षीरोदं प्रययौ शीघ्रं रथमारुह्य सुंदरम् ।
तथा च विष्णुरूपेण श्रीकृष्णो भगवान् हरिः ॥ २३ ॥
लक्ष्म्या गरुडमारुह्य वैकुण्ठं प्रययौ नृप ।
ततो भूत्वा हरिः कृष्णो नरनारायणावृषी ॥ २४ ॥
कल्याणार्थं नराणां च प्रययौ बद्रिकाश्रमम् ।
परिपूर्णतमः साक्षाच्छ्रीकृष्णो राधया युतः ॥ २५ ॥
गोलोकादागतं यानमारुरोह जगत्पतिः ।
सर्वे गोपाश्च नन्दाद्या यशोदाद्या व्रजस्त्रियः ॥ २६ ॥
त्यक्त्वा तत्र शरीराणि दिव्यदेहाश्च तेऽभवन् ।
स्थापयित्वा रथे दिव्ये नंदादीन्भगवान्हरिः ॥ २७ ॥
गोलोकं प्रययौ शीघ्रं गोपालो गोकुलान्वितः ।
ब्रह्मांडेभ्यो बहिर्गत्वा ददर्श विरजां नदीम् ॥ २८ ॥
शेषोत्संगे महालोकं सुखदं दुःखनाशनम् ।
दृष्ट्वा रथात्समुत्तीर्य सार्धं गोकुलवासिभिः ॥ २९ ॥
विवेश राधया कृष्णः पश्यन्न्यग्रोधमक्षयम् ।
शतशृङ्गं गिरिवरं तथा श्रीरासमण्डलम् ॥ ३० ॥
ततो ययौ कियद्‌दूरं श्रीमद्‌वृन्दावनं वनम् ।
वनैर्द्वादशभिर्युक्तं द्रुमैः कामदुघैर्वृतम् ॥ ३१ ॥
नद्या यमुनया युक्तं वसंतानिलमंडितम् ।
पुष्पकुञ्जनिकुञ्जं च गोपीगोपजनैर्वृतम् ॥ ३२ ॥
तदा जयजयारावः श्रीगोलोके बभूव ह ।
शून्यीभूते पुरा धाम्नि श्रीकृष्णे च समागते ॥ ३३ ॥
ततश्च यदुपत्‍न्यश्च चितामारुह्य दुःखतः ।
पतिलोकं ययुः सर्वा देवक्याद्याश्च योषितः ॥ ३४ ॥
बंधूनां नष्टगोत्राणां चकार सांपरायिकम् ।
गीताज्ञानेन स्वात्मानं शांतयित्वा स दुःखतः ॥ ३५ ॥
अर्जुनः स्वपुरं गत्वा तमुवाच युधिष्ठिरम् ।
स राजा भ्रातृभिः सार्धं ययौ स्वर्गं च भार्यया ॥ ३६ ॥
प्लावयद्‌द्वारकां सिन्धू रैवतेन समन्विताम् ।
विहाय नृपशार्दूल गेहं श्रीरुक्मणीपतेः ॥ ३७ ॥
अद्यापि श्रूयते घोषो द्वार्वत्यामर्णवे हरेः ।
अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनुः ॥ ३८ ॥
विष्णुस्वामी रवेरंशः कलेरादौ महार्णवे ।
गत्वा नीत्वा हरेरर्चां द्वार्वत्यां स्थापयिष्यति ॥ ३९ ॥
तं द्वारकेशं पश्यंति मनुजा ये कलौ युगे ।
सर्वे कृतार्थतां यांति तत्र गत्वा नृपेश्वरः ॥ ४० ॥
यः शृणोति चरित्रं वै गोलोकारोहणं हरेः ।
मुक्तिं यदूनां गोपानां सर्वपापैः प्रमुच्यते ॥ ४१ ॥

इति श्रीमद्‌गर्गसंहितायामश्वमेधखण्डे
राधाकृष्णयोर्गोलोकारोहणं नाम षष्टितमोऽध्यायः ॥ ६० ॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP