श्रीगर्गसंहिता

अश्वमेधखण्डः - त्रयोदशोऽध्यायः

दिग्विजयार्थं यदुसैन्यस्य अभियानम् -


श्रीगर्ग उवाच -
अथ नत्वा गुरून्सोऽपि प्रायात्प्रष्टुं च देवकीम् ॥
रोहिणीं रुक्मिणीं भामामन्याः सर्वा हरिप्रियाः ॥१॥
नत्वा रतिं रुक्मिवतीमहं गच्छाम्युवाच ह ॥
राज्ञाऽऽदिष्टः पालनार्थं हयस्य सह यादवैः ॥२॥
ताश्च गद्‌गदभाषिण्यस्तं परिष्वज्य कर्ष्णिजम् ॥
आशिषं प्रददू राजंस्तस्मै च प्रणताय वै ॥३॥
नत्वा ताश्च ययौ सोऽपि भार्याणां भवनानि च ॥
तमागतं स्वभर्तारं तिस्त्रः पत्‍न्यो विलोक्य च ॥४॥
आदरं तस्य ताश्चक्रुर्विरहात्खिन्नमानसाः ॥
आश्वासयित्वा ताः सोऽपि चाजगाम सभां किल ॥५॥
आथाध्वरार्थे राजेंद्र मुनिभिः कृतमंगलः ॥
सर्वान्नृषीन्गुरूंश‍चैव नृपेन्द्रं शूरमेव च ॥ ६॥
वसुदेवं च हलिनं कृष्णं स्वपितरं तथा ॥
अन्यांश्च यादवान्पूज्याननिरुद्धः प्रणम्य च ॥७॥
पूजितो नागरैः सर्वैर्धनुष्याणिः शरी नृप ॥
बद्धगोधांगुलित्राणः कवची कुण्डलावृतः ॥८॥
उपानद्‍गूढपादश्च पंचास्यसमविक्रमः ॥
करवालधरश्चर्मी किरीटी शक्तिहस्तकः ॥९॥
महावीरः सुवर्णस्य ह्यलंकारैरलंकृतः ॥
पुरंदररथेनापि निर्ययौ स्वपुराद्बहि: ॥१०॥
गीतवादित्रघोषेण ब्रह्मघोषेण कार्ष्णिजम् ॥
यास्यंतं चामरैर्युक्तं ददृशुः पुरवासिनः ॥११॥
ततः श्रीकृष्णचंद्रेण प्रेषिता उद्धवादयः ॥
भोजवृष्ण्यंधकमधुशूरसेनदशार्हकाः ॥१२॥
अथ राजा यदून्प्राहानिरुद्धस्य च यादवाः ॥
सहायार्थं तु प्रधने वदतात्कः प्रयास्यति ॥१३॥
उग्रसेनवचः श्रुत्वा सांबो जांबवतीसुतः ॥
सर्वेषां पश्यतां नत्वा नृपं वचनमब्रवीत् ॥१४॥
सांब उवाच -
अनिरुद्धस्य राजेन्द्र सहायमहमेव च ॥
महारणे च शत्रुभ्यः करिष्ये सर्वदा किल ॥१५॥
यद्यहं तस्य रक्षां वै न करिष्ये रणांगणे ॥
प्रतिज्ञां मम राजेंन्द्र शृणुष्व सत्यवादिनः ॥१६॥
त्याज्यां तु दशमीविद्धां यः कृत्वैकादशीं नरः ॥
प्रयाति यां गतिं राजंस्तामहं प्राप्नुयां ध्रुवम् ॥१७॥
गोहन्तॄणां गतिर्या तु या गतिर्ब्रह्मघातिनाम् ॥
सा गतिर्मम भूयाद्वै न कुर्यां कर्म चेदिदिम् ॥१८॥
गर्ग उवाच -
इत्युक्त्वा वचनं सोऽपि ययौ चांतःपुरं ततः ॥
नत्वा च मातरं सर्वमभिप्रायं न्यवदेयत् ॥१९॥
श्रुत्वा सा तं परिष्वज्य विरहादाशिषं ददौ ॥
ततो मातॄस्तु ताः सर्वा नत्वा पत्‍नीगृहं गतः ॥२०॥
सा तमायांतमालोक्य लक्ष्मणा वरलक्षणा ॥
दत्त्वासनं बाष्पकंठी न तु किंचिदुवाच ह ॥२१॥
आश्वासयित्वा तां सांबो ह्यभिप्रायमवर्णयत् ॥
इति श्रृत्वा पतिं प्राह विरहात्खिन्नमानसा ॥२२॥
लक्ष्मणोवाच -
अनिरुद्धस्य तुरगो रक्षणीयस्त्वया पते ॥
युद्धं हि संमुखं कार्यं विमुखं न कदाचन ॥२३॥
त्वद्‍भ्रातॄणां स्त्रियः संति मानवत्यः सहस्रशः ॥
संग्रामे यदि ते नाथ निशम्य च पराजयम् ॥२४॥
स्मितानना भविष्यंति दृष्ट्वा मां च तव प्रियाम् ॥
तदा दुःखतमेनाथ मरणं तु भविष्यति ॥२५॥
श्रुत्वैतद्वचनं सांबो प्रत्युवाच प्रियां हसन् ॥
सांब उवाच -
प्रधने मम संप्राप्तं त्रैलोक्यं संमुखं किल ॥२६॥
श्रोष्यसे त्वं मया भद्रे सर्वं च विदलीकृतम् ॥
यदि सांबो रणाच्छूरो विमुखो जायते शुभे ॥२७॥
तदा सोऽस्तु स्वपापेन ब्रह्मविप्रविनिंदकः ॥
पुनस्त्वहं न पश्यामि चन्द्राकारं तवाननम् ॥२८॥
गर्ग उवाच -
इत्याश्वास्य प्रियां सांबो द्वितीयां च प्रयत्‍नतः ॥
अभिमन्युं सुभद्रां च मिलित्वा निर्ययौ गृहात् ॥२९॥
चापी नैस्त्रिंशकः सज्जो स्यंदनी यादवैर्वृतः ॥
प्राप्तश्चोपवने सांबोऽनिरुद्धो यत्र वर्तते ॥३०॥
ततः स्वभ्रातरः सर्वे श्रीकृष्णेन गदादयः ॥
प्रेषिता आत्मजाश्चैव भानुदीप्तिमदादयः ॥३१॥
सर्वे हि धन्विनः शूरा दंशिता युद्धकोविदाः ॥
चतुरंगबलोपेता निर्जग्मुः कोटिशः पुरात् ॥३२॥
तालहंसमीनबर्हिमृगराजध्वजै रथैः ॥
दिव्यैश्च कनकांगैश्च चतुर्वाजिसमन्वितैः ॥३३॥
महोच्चैर्देवधिष्ण्याभैश्छत्रचामरसंयुतैः ॥
सूर्याभैश्च सुवर्णस्य कुम्भैर्जालकतोरणैः ॥३४॥
रेजुः सर्वे कृष्णसुताः कुशस्थल्या विनिर्गताः ॥
ततश्च निर्ययू राजन्हेमनीडाश्च हस्तिनः ॥३५॥
गोमूत्रचयसिंदूरकस्तूरीपत्रभृन्मुखाः ॥
अंजनाभा कज्जलाभा घनश्यामा मदच्युताः ॥३६॥
राजीवमूलसदृशाः शुक्लदंता मृगद्विपाः ॥
महोच्चाः पर्वताकारा रणद्‍घंटा महोद्‌भटाः ॥३७॥
ऐरावतकुलेभाश्च तिस्रः शुण्डाश्च पाण्डुराः ॥
चतुर्दंतास्तु कृष्णेन भौमान्नीताश्च निर्ययुः ॥३८॥
ध्वजयुक्ता लक्षगजा लक्षदुंदुभिसंयुताः ॥
लक्षाः शून्या महामात्यैः स्वर्णकंबलमंडिताः ॥३९॥
ततः शूरैश्च संयुक्ता गजेंद्रा एककोटयः ॥
इतस्ततो विरेजुस्ते बलेऽब्धौ मकरा यथा ॥४०॥
उत्पाट्य गुल्माञ्छुंडैश्च क्षेपयंतो नभस्तले ॥
महीं पादैः कपयंत आर्द्रीकृत्य मदैरपि ॥४१॥
प्रासाददुर्गशैलांगान्पातयंतः शिरःस्थलैः ॥
रिपूणां च बलं सर्वं खण्डयंतो महबलाः ॥४२॥
श्यामपीतकृष्णशुक्लरक्तवर्णैश्च कंबलैः ॥
सुवर्णशृङ्खलैर्युक्ता रेजुरेतादृशा गजाः ॥४३॥
ततस्तुरंगमा ये वै नारदेन विलोकिताः ॥
ते सर्वे निर्गता राजन्स्वर्णहारैश्च संयुताः ॥४४॥
केचिद्वै चंचलांगाश्च धूम्रवर्णा मनोहराः ॥
श्यामवर्णाः पद्मवर्णाः कृष्णवर्णाः सुकंधराः ॥४५॥
दुग्धाभा घोटकाः केचित्तथा कीलालसन्निभाः ॥
हरिद्राभाः कुंकुमाभाः पालाशकुसुमप्रभाः ॥४६॥
केचिच्चित्रविचित्रांगाः स्फटिकांगा मनोजवाः ॥
हरिद्वर्णास्ताम्रवर्णाः कौसुंभाभाः शुकप्रभाः ॥४७॥
इन्द्रगोपनिभा गौरा दिव्याः पूर्णेंदुसन्निभाः ॥
सिन्दूरांगाश्चाग्निवर्णा रविबालसमप्रभाः ॥४८॥
एते तुरंगमा राजन्सर्वदेशात्समागताः ॥
पुर्यां कृष्णप्रतापेन ते तु सर्वे विनिर्गताः ॥४९॥
कृष्णस्य वाजिशालासु ये वर्तंते च ते हयाः ॥
वैकुण्ठवासिनश्चैव श्वेतद्वीपनिवासिनः ॥५०॥
केचिन्मयूरवर्णाश्च नीलकण्ठनिभास्तथा ॥
विद्युद्वर्णास्तार्क्ष्यवर्णाः सर्वे पक्षैरलंकृताः ॥५१॥
शिखामणिधराः शुक्लचामरैः समलंकृताः ॥
स्रग्भिर्मुक्ताफलानां च रक्तवस्त्रैर्विभूषिताः ॥५२॥
स्वर्णेन मंडिताः पुच्छमुखपट्टस्फुरत्प्रभाः ॥
सर्वांगसुन्दरा दिव्या निर्गतास्ते सहस्रशः ॥५३॥
न स्पृशन्तः पदैर्भूमिं ह्येते कृष्णहया नृप ॥
चंचला वायुवेगाश्च मनोवेगा मनोहराः ॥५४॥
बुद्‍बुदेष्वतिगाश्चैव पक्वसूत्रेषु भूपते ॥
लूताजालेषु केचिद्वै चलंतः पारदं ह्यनु ॥५५॥
स्फारा वारिषु दृश्यंते निराधारा नृपेश्वर ॥
अन्येऽपि निर्गता राजन्म्लेच्छदेशभवा हयाः ॥५६॥
शतयोजनगाश्चैव कोटिशः कोटिशो नृप ॥
गर्तदुर्गनदीसौधशैलादींश्च हरेर्हयाः ॥
उल्लंघयंतो नृपते सवीरास्ते तुरंगमाः ॥५७॥
ततश्च निर्ययुः सर्वे द्वारकायाः पदातिनः ॥
धन्विनो दंशिताः शूरा महाबलपराक्रमाः ॥५८॥
खड्गचर्मधरा उच्चा लौहकंचुकमंडिताः ॥
संग्रामे बहुशत्रूणां जेतारो गजसन्निभाः ॥५९॥
इत्थं विनिर्गतं सैन्यं यादवानां निरीक्ष्य च ॥
देवदैत्यनराः सर्वे विस्मयं परमं गताः ॥६०॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
यदुसैन्यनिर्गमनं नाम त्रयोदशोऽध्यायः ॥१३॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP