श्रीगर्गसंहिता

अश्वमेधखण्डः - चतुर्थोऽध्यायः

कृष्णकृतं पारिजातहरणम् -


गर्ग उवाच -
गत्वा स्वर्गं तु शक्राय दत्वा छत्रं मणिं तथा ॥
अदित्यै कुण्डले कृष्णो दत्वाभिप्रायमब्रवीत् ॥१॥
आभिप्रायं हरेर्ज्ञात्वा वासवो न ददौ द्रुमम् ॥
देवाञ्जित्वा तदा पारिजातं जग्राह माधवः ॥२॥
सूत उवाच -
इति श्रुत्वा कथां राजा यादवो विस्मयान्वितः ॥
पप्रच्छ स्वगुरुं भूयः श्रद्दधानो हरेर्गुणे ॥३॥
ब्रह्मञ्शक्रस्तु देवेंद्रो जानन्कृष्णं हरिं परम् ॥
अपराधं तु कृतवान्स कथं ब्रूहि तत्त्वतः ॥४॥
कृष्णाग्रे कथितं सत्यभामया शक्रचेष्टितम् ॥
तस्मान्मे विस्तराद्युद्धमिन्द्रमाधवयोर्वद ॥५॥
गर्ग उवाच -
अदित्या संस्तुतः कृष्णः शक्रवाक्याच्च नन्दनम् ॥
वनं गत्वा पारिजातान्संददर्श बहून्द्रुमान् ॥६॥
तेषां मध्ये महावृक्षं मंजरीपुञ्जधारिणम् ॥
क्षीरोदमथनाज्जातं पद्मगंधसमन्वितम् ॥७॥
सुराणां सुखदं ताम्रपल्लवैः परिवेष्टितम् ॥
वने विभूषणं दिव्यं वरं स्वर्णसमत्वचम् ॥८॥
तं दृष्ट्वा माधवं प्राह सत्यभामा च मानिनी ॥
एनं गृह्णाम्यहं कृष्ण श्रेष्ठं सर्वं वने द्रुमम् ॥९॥
इत्युक्तः प्रिययोत्पाट्य पारिजातं गरुत्मति ॥
लीलयाऽऽरोपयामास प्रहसञ्जगदीश्वरः ॥१०॥
तदैव कुपिताः सर्वे वनपालाः समुत्थिताः ॥
धनुर्बाणधराः कृष्णमूचुः प्रस्फुरिताधराः ॥११॥
इन्द्रप्रियाया वृक्षश्च हृतः कस्मात्त्वया नर ॥
यदृच्छया किलास्माकं तृणीकृत्य क्व यास्यसि ॥१२॥
इन्द्राणीप्रीतये देवैः पुरा ह्युदधिमंथने ॥
उत्पादितोऽयं न क्षेमी गृहीत्वैनं भविष्यसि ॥१३॥
गिरीणां येन सर्वेषां पक्षाः पूर्वं निपातिताः ॥
तं किं वृत्रहणं वीरं जित्वा वृक्षं नयिष्यसि ॥१४॥
तस्माद्‌गच्छ महावीर पारिजातं विहाय च ॥
न दास्यामो द्रुमं तुभ्यं शक्रस्यानुचरा वयम् ॥१५॥
यदा दास्यति तुभ्यं वै पारिजातं पुरंदरः ॥
न निषेधं करिष्यामो वनपाला वयं तदा ॥१६॥
तेषां भाषितमाकर्ण्य सत्यभामा रुषान्विता ॥
तूष्णींभूते सति हरावभीता प्राह तान्नृप ॥१७॥
सत्योवाच -
का शची पारिजातस्य कः शक्रो वा सुरेश्वरः ॥
सामान्यः सर्वलोकानां यदीशोऽमृतमंथने ॥१८॥
समुत्पन्नः सुरः कस्मादेको गृह्णाति वासवः ॥
यथा सुधा यथैवेंदुर्यथा श्रीर्वनचारिणः ॥१९॥
सामान्यः सर्वलोकस्य पारिजातस्तथा द्रुमः ॥
भर्तुबाहुमहागर्वा रुणद्ध्येनं मृषा शची ॥२०॥
तत्कथ्यतामलं क्षान्त्या सत्याहारप्रतिद्रुमम् ॥
कथ्यतां च द्रुतं गत्वा पौलोम्यै वचनं मम ॥२१॥
सत्यभामा वदत्येतदतिगर्वोद्धताक्षरम् ॥
यदि त्वं दयिता भर्तुर्यदि वश्यः पतिस्तव ॥२२॥
मद्‌भर्तुर्हरतो वृक्षं तत्कारय निवारणम् ॥
जानामि ते पतिं शक्रं युष्माञ्जानामि तत्वतः ॥२३॥
पारिजातं तथाप्येनं मानुषी हरयामि ते ॥
गर्ग उवाच -
कृष्णप्रियाया वचनं वनपाला निशम्य च ॥२४॥
इन्द्राणीनिकटं गत्वा प्रोचुः सर्वं यथोदितम् ॥
रक्षकाणां वचः श्रुत्वा शची प्राह रुषान्विता ॥२५॥
कृष्णं निवारणार्थाय न यास्यंतं पुरंदरम् ॥
शच्युवाच -
मदीयं पारिजातं वै माधवेन बलीयसा ॥२६॥
गृहीतं स्वप्रियार्थे वै त्वां तृणीकृत्य वज्रिणम् ॥
तस्मान्मोचय वृक्षेशं पाकसूदन वृत्रहन् ॥२७॥
सत्यभामावशं कृष्णं विनिर्जित्य महारणे ॥
त्वया वै पूर्वमद्रीणां पक्षा वज्रेण शातिताः ॥२८॥
भयं विसृज्य युद्धाय गच्छ तस्मात्सुरैर्वृतः ॥
इति श्रुत्वा शचीवाक्यं शक्रो नमुचिसूदनः ॥२९॥
न चकार तु युद्धाय मनो भयसमन्वितः ॥
ततश्च बहुशः पत्‍न्या प्रेरितः कोपयुक्तया ॥३०॥
तदा कोपेन श्रीकृष्णं निन्दन्प्राह मदान्वितः ॥
इन्द्र उवाच -
येन ते परिजातं वै गृहीतं सुन्दरानने ॥३१॥
मृधे तं पातयिष्यामि वज्रेण शतपर्वणा ॥
इत्युक्त्वा वासवो राजन्नारुह्यैरावतं गजम् ॥३२॥
शुण्डादंडैस्त्रिभिर्युक्तं रक्तकंबलमंडितम् ॥
चतुर्भिः शोभितं दन्तैर्हिमाद्रिसदृशं शुभम् ॥३३॥
स्वर्णशृङ्खलया जुष्टं शुशुभे निर्जरैर्वृतः ॥
तथा मरुद्‌गणाः सर्वे यमाग्निवरुणादयः ॥३४॥
रुद्राश्च द्वादशात्मानो वसवो धनदादयः ॥
विद्याधराश्च गंधर्वाः साध्याः पितृगणादयः ॥३५॥
ततस्त्रिंशत्कोटिसंख्याः शक्रस्यानुचराः सुराः ॥
एते समागताः क्रुद्धा योद्धुं श्रीकृष्णसंमुखे ॥३६॥
आहूताः केऽपि शक्रेण सहायार्थं तु स्वात्मनः ॥
तथा तु नारदेनापि केचिद्देवास्तु प्रेषिताः ॥३७॥
ततः परिघनिस्त्रिंशगदाशूलपरश्वधैः ॥
बभूवुस्त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते ॥३८॥

इति श्रीगर्गसंहितायामश्वमेधचरित्रे
सुमेरौ पारिजातहरणं नाम चतुर्थोऽध्यायः ॥४॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP