श्रीगर्गसंहिता

बलभद्रखण्डः - एकादशोऽध्यायः

बलरामस्तोत्रम् -


दुर्योधन उवाच -
स्तोत्रं श्रीबलदेवस्य प्राड्‌विपाक महामुने ॥
वद मां कृपया साक्षात्सर्वसिद्धिप्रदायकम् ॥१॥
प्राड्‌विपाक उवाच -
स्तवराजं तु रामस्य वेदव्यासकृतं शुभम् ॥
सर्वसिद्धिप्रदं राजञ्छृणु कैवल्यदं नृणाम् ॥२॥
देवादिदेव भगवन् कामपाल नमोऽस्तु ते ॥
नमोऽनन्ताय शेषाय साक्षाद्रामाय ते नमः ॥३॥
धराधराय पूर्णाय स्वधाम्ने सीरपाणये ॥
सहस्रशिरसे नित्यं नमः संकर्षणाय ते ॥४॥
रेवतीरमण त्वं वै बलदेवाच्युताग्रजः ॥
हलायुध प्रलंबघ्न पाहि मां पुरुषोत्तम ॥५॥
बलाय बलभद्राय तालांकाय नमो नमः ॥
नीलांबराय गौराय रौहणेयाय ते नमः ॥६॥
धेनुकारिर्मुष्टिकारिः कूटारिर्बल्वलांतकः ॥
रुक्म्यरिः कूपकर्णारिः कुम्भांडारिस्त्वमेव हि ॥७॥
कालिंदीभेदनोऽसि त्वं हस्तिनापुरकर्षकः ॥
द्विविदारिर्यादवेंद्रो व्रजमंडलमंडनः ॥८॥
कंसभातृप्रहन्तसि तीर्थयात्राकरः प्रभुः ॥
दुर्योधनगुरुः साक्षात्पाहि पाहि प्रभो त्वतः ॥९॥
जय जयाच्युतदेव परात्पर
     स्वयमनन्तदिगंतगतश्रुत ॥
सुरमुनींद्रफणीन्द्रवराय ते
     मुसलिने बलिने हलिने नमः ॥१०॥
यः पठेत्सततं स्तवनं नरः
     स तु हरेः परमं पदमाव्रजेत् ॥
जगति सर्वबलं त्वरिमर्दनं
     भवति तस्य धनं स्वजनं धनम् ॥११॥

इति श्रीगर्गसंहितायां बलभद्रखण्डे
बलभद्रस्तवराजवर्णनं नामैकादशोऽध्यायः ॥११॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP