श्रीगर्गसंहिता
बलभद्रखण्डः - नवमोऽध्यायः
रासक्रीडाकथनम् -
दुर्योधन उवाच -
मुनिशार्दूल भगवान्बलभद्रो नागकन्याभि-
र्गोपीभिः कदा कालिंदीकूले विजहार ॥१॥
प्राड्विपाक उवाच -
एकदा द्वारकानगराद्धितालांकं रथमास्थाय सुरान्दिदृक्षुः
परमुत्कंठो नन्दराजगोकुलगोगोपालगोपीगणसंकुलः
संकर्षण आगतश्चिरोत्कंठाभ्यां नन्दराजयशोदाभ्यां
परिष्वक्तो गोपीगोपालगोभिर्मिलित्वा
तत्र द्वौ मासौ वासन्तिकौ चावात्सीत् ॥२॥
अथ च या नागकन्याः पूर्वोक्तास्ता गोपकन्या भूत्वा
बलभद्रप्राप्त्यर्थं गर्गाचार्याद्बलभद्रपञ्चांगं गृहीत्वा तेनैव
सिद्धा बभूवुः ॥ ताभिर्बलदेव एकदा प्रसन्नः कालिन्दीकूले
रासमण्डलं समारेभे ॥ तदैव चैत्रपूर्णिमायां
पूर्णचन्द्रोऽरुणवर्णः सम्पूर्णं वनं रञ्जयन् विरेजे ॥३॥
शीतला मन्दयानाः कमलमकरंदरेणुवृंदसंवृताः
सर्वतो वायवः परिववुः ॥ कलिंदगिरिनन्दिनी-
चलल्लहरीभिरानन्ददायिनी पुलिनं विमलं ह्याचितं
चकार ॥ तथा च कुञ्जप्रांगणनिकुञ्जपुञ्जैः
स्फुरल्ललितपल्लवपुष्पपरागैर्मयूरकोकिलपुंस्कोकिल-
कूजितैर्मधुपमधुरध्वनिभिर्व्रजभूमिर्विभ्राजमाना बभूव ॥४॥
तत्र क्वणद्घण्टिकनूपुरः स्फुरन्मणिमयकटककटिसूत्र-
केयूरहारकिरीटकुंडलयोरुपरि कमलपत्रैर्नीलांबरो
विमलकमलपत्राक्षो यक्षीभिर्यक्षराडिव
गोपीभिर्गोपराड्रासमण्डले रेजे ॥५॥
अथ वरुणप्रेषिता वारुणी देवी पुष्पभारगंधलोभि-
मिलिंदनादितवृक्षकोटरेभ्यः पतंती सर्वतो वनं
सुरभीचकार ॥ तत्पानमदविह्वलः कमलविशालताम्राक्षो
मकरध्वजावेशचलद्धुर्य्याङ्गभङ्गो विहारखेदप्रस्वेदांबुकणै-
र्गलद्गंडस्थलपत्रभङ्गो गजेंद्रगतिर्गजेन्द्रशुण्डादंडसम-
दोर्दंडमण्डितो गजीभिर्गजराजेन्द्र इवोन्मत्तः सिंहासने
न्यस्तहलो मुसलपाणिः कोटींदुपूर्णमण्डलसंकाशः
प्रोद्गमद्रत्नमञ्जीरप्रचलनूपुरप्रक्वणत्कनककिंकिणीभिः
कंकणस्फुरत्ताटंकपुरटहारश्रीकंठांगुलीयशिरोमणिभिः
प्रविडंबिनीकृतसर्पिणीश्यामवेणीकुन्तलललित-
गंडस्थलपत्रावलिभिः सुन्दरीभिर्भगवान् भुवनेश्वरो
विभ्राजमानो विरराज अथ च रेमे ॥६॥
अथ ह वाव कालिन्दीकूलकांतारपर्यटनविहार-
परिश्रमोद्यत्स्वेदबिंदुव्याप्तमुखारविंदः स्नानार्थं
जलक्रीडार्थं यमुनां दूरात्स आजुहाव ॥
ततस्त्वनागतां तटिनीं हलाग्रेण कुपितो
विचकर्ष इति होवाच ॥७॥
अद्य मामवज्ञाय नायासि मयाहूतापि मुसलेन
त्वां कामचारिणीं शतधा नेष्य एवं निर्भर्त्सिता सा
भूरिभीता यमुना चकिता तत्पादयोः पतितोवाच ॥८॥
राम राम संकर्षण बलभद्र महाबाहो तव परं विक्रमं
न जाने ॥ यस्यैकस्मिन्मूर्ध्नि सर्षपवत्सर्वं भूखण्डमण्डलं
दृश्यते ॥ तस्य तव परमनुभावमजानंती प्रपन्नां
मां भोक्तुं योग्योऽसि ॥ त्वं भक्तवत्सलोऽसि ॥९॥
इत्येव याचितो बलभद्रो यमुनां ततो व्यमुञ्चत्पुनः
करेणुभिः करीव गोपीभिर्गोपराड् जले विजगाह ॥
पुनर्जलाद्विनिर्गत्य तटस्थाय बलभद्राय सहसा यमुना
चोपायनं नीलांबराणि हेमरत्नमयभूषणानि दिव्यानि
च ददौ ह वाव तानि गोपीयूथाय पृथक् पृथक् विभज्य
स्वयं नीलांबरे वसित्वा कांचनीं मालां नवरत्नमयीं
धृत्वा महेंद्रो वारणेंद्र इव बलभद्रो विरेजे ॥१०॥
इत्थं कौरवेन्द्र यादवेन्द्रस्य रमतः सर्वा वासन्तिकीर्निशा
व्यतीता बभूवुः ॥ भगवतो बलभद्रस्य हस्तिनापुरमिव
वीर्यं सूचयतीव ह्यद्यापि च कृष्टवर्त्मना यमुना वहति ॥
इमां रामस्य रासकथां यः श्रृणोति श्रावयति च स
सर्वपापपटलं छित्वा तस्य परस्परमानन्दपदं प्रतियाति ॥
किं भूय श्रोतुमिच्छसि ॥११॥
इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्विपाकदुर्योधनसंवादे रामरासक्रीडावर्णनं नाम नवमोऽध्यायः ॥९॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|