श्रीगर्गसंहिता

बलभद्रखण्डः - पञ्चमोऽध्यायः

कृष्ण-बलरामजन्मोत्सवम् -


दुर्योधन उवाच -
मुनीन्द्राहो अहं धन्योऽस्मि पुरा संकर्षणस्य
भक्तोऽस्मि त्वया स्मारितो भगवतो वासुदेवस्य
सप्रभावं माहात्म्यं परमाद्‌भुतं श्रुतमत्रावतारौ
भूत्वा भूम्यां रामकृष्णौ पितुः पुरात्कथं व्रजे
गतवंतौ व्रजवासिभिर्न ज्ञातौ कथमभूतां च तदुच्यताम् ॥१॥
प्राड्‌विपाक उवाच -
अथैकदा मथुरायां यदुपुर्य्यामुग्रसेनाग्रजो देवको
देवकीं सुतां वसुदेवाय ददावथ वरवध्वोः प्रयाणकाले
कंस उग्रसेनात्मजस्तयोः स्यंदनं नोदयामास ॥२॥
तदैव देववाणी कंसमाह ॥ रे यां वहसेऽस्याश्चाष्टमो
गर्भो हि त्वां हनिष्यतीति श्रुत्वा स महासुरः
कालनेमिसुतः कंसः खड्गपाणिर्भगिनीं हंतुं प्रवृत्तः ॥३॥
तदैव वसुदेवस्तं बोधयित्वा प्राहैनां मा मारयास्याः
पुत्रान्समर्पयिष्ये यतस्ते भयं जातं ममापि ॥
इति श्रुत्वा तद्वाक्यसारवित्कंसस्तौ
कारागारे कारयित्वा निश्चिन्तोऽप्यभवत् ॥४॥
अथ देवक्याः प्रथमं जातं पुत्र कंसाय वसुदेवः प्रददौ ॥
तं सत्यवादिनं ज्ञात्वा कंसोऽर्भकं न जघान ॥५॥
अंकानां वामतो गतिस्तथा देवानां तस्मादयं वा शत्रुः
सर्वे यादवा देवाः संति तव वधमिच्छंतीति
नारदवाक्यात्पुनर्जांतं जातमपि निर्जघान ॥६॥
अथ कंसभयात्पलायितानां यदूनां महान्कष्टो
बभूव ॥ अथ सप्तमो गर्भो देवक्या भगवाननंतो
ह्यभवत् ॥ तत्तेजः श्रीकृष्णाज्ञया योगमाया
देवक्युदरात्संनिकृष्य वसुदेवस्य भार्यायां कंसभयाद्‌-
गोकुलस्थितायां रोहिण्यामर्पयितुमाजगाम ॥७॥
तत्रैते श्लोकाः -
देवक्या सप्तमे गर्भे हर्षशोकविवर्द्धने ॥
व्रजं प्रणीते रोहिण्यामनंते योगमायया ॥
अहो गर्भः क्व विगत इत्यूचुर्माथुरा जनाः ॥८॥
अथ व्रजे पंचदिनेषु भाद्रे
     स्वातौ च षष्ठ्यां च सिते बुधे च ॥
उच्चैर्ग्रहैः पंचभिरावृते च
     लग्ने तुलाऽऽख्ये दिनमध्यदेशे ॥९॥
सुरेषु वर्षत्सु च पुष्पवर्षं
     धनेषु मुंचत्सु च वारिबिंदून् ॥
बभूव देवो वसुदेवपत्‍न्यां
     विभासयन्नंदगृहं स्वभासा ॥१०॥
नंदोऽपि कुर्वञ्छिशुजातकर्म
     ददौ द्विजेभ्यो नियुतं गवां च ॥
गोपान्समाहूय सुगायकानां
     रावैर्महामंगलमाततान ॥११॥
अथाष्टमो देवक्याः परिपूर्णतमो भगवान्
श्रीकृष्णचन्द्रोऽवततार ॥ तदैव तदाज्ञया
निशीथे प्रेंखे निधाय नंदपत्‍न्यां जातायां
योगनिद्रायां संसुप्ते जगति सति यमुनामुत्तीर्य
महावनमेत्य यशोदाशयने सुतं निधाय तां
सुतामादाय पुनर्वसुदेवो गृहानाययौ ॥१२॥
अथ कारागारे बालध्वनिं श्रुत्वा शत्रुभीतः कंसः
समागत्य जातमात्रां कन्यां गृहीत्वा शिलापृष्ठे पातयामस ॥१३॥
तदैव तद्धस्तात्समुत्पत्त्यांबरे योगनिद्रा भूत्वा
सिद्धचारणगंधर्वमुनिगणैः स्तूयमाना कंसमिदमाह -
हे खल तव पूर्वशत्रुर्यत्र क्व वा जातो वृथा देवकीवसुदेवौ
दीनौ दुनोषीत्युक्त्वा सा विंध्याचलं जगाम ॥१४॥
इत्युक्तो विस्मितः कंसो देवकीं वसुदेवं च
विमुच्य पूतनादीन् दैत्यान्समाहूय चानिर्दशान्निर्दशा
न्बालान्हंतुमाज्ञां चकार तेऽपि तथा चक्रुः ॥१५॥
अथ नंदोऽपि पुत्रजन्मोत्सवं श्रुत्वा महोत्सवं
चकारैवं कंसभयमिषेण व्रजं प्राप्तौ रामकृष्णौ
स्वमाययालक्षितौ व्रजवासिनां कृपां कर्तुं
जातमात्रावद्‌भुतां बाललीलां चक्रतुः ॥
कौरवेन्द्र भूयः श्रोतुमिच्छसि किम् ॥१६॥

इति श्रीगर्गसंहितायां बलभद्रखण्डे
श्रीबलभद्रश्रीकृष्णजन्मोत्सवो नाम पंचमोऽध्यायः ॥५॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP