श्रीगर्गसंहिता

बलभद्रखण्डः - प्रथमोऽध्यायः

बलदेवस्य अवतारकारणम् -


बहुलाश्व उवाच -
श्रुतं तव मुखाद्ब्रह्मन् मंगलं परमाद्‌भुतम् ॥
सुधाखंडात्परं मिष्टं खण्डं विश्वजितं परम् ॥१॥
परिपूर्णतमस्यापि श्रीकृष्णस्य महात्मनः ॥
षोडशस्त्रीसहस्राणां पुत्रा दशदशाभवन् ॥२॥
तेषां पुत्राश्च पौत्राश्च बभूवुः कोटिशो मुने ॥
रजांसि भूमेर्गणयेन्न कविश्चेद्धरेः कुलम् ॥३॥
रेवत्यां बलदेवस्य रामस्यापि महात्मनः ॥
पुत्रोदयः कथं नु स्यादेतन्मे ब्रूहि तत्वतः ॥४॥
श्रीनारद उवाच -
बाढमुक्तं भगवतः संकर्षणस्याच्युताग्रजस्य बलभद्रस्य
रामस्य कामपालस्य कथां सर्वथा तवाग्रे कथयिष्यामि ॥५॥
अथ कदाचित्प्राड्‌विपाको नाम मुनींद्रो
योगीन्द्रो दुर्योधनगुरुर्गजाह्वयं नाम पुरमाजगाम ॥६॥
सुयोधनेन संपूजितः परमादरेण
सोपचारेण महार्हसिंहासने स्थितोऽभूत् ॥७॥
तं प्रदक्षिणीकृत्य प्रणिपत्य कृतांजलिः पुरः स्थितो
मनःसन्देहं स्मृत्वा धार्तराष्ट्र इति होवाच ॥८॥
संकर्षणः साक्षाद्बलभद्रः किं कारणात्कस्माल्लोकात्केन
प्रार्थितो भूलोकानाजगाम येनेदं पुरं तिर्यग्भूतमभवत्तस्य
मम गुरोर्गदाशिक्षाकरस्याहो तत्रप्रभावं नितरां वदतात् ॥९॥
प्राड्‌विपाक उवाच -
युवराज कुरूद्वह यदुवरस्य प्रभावं शृणु
यच्छ्रवणे पापहानिः परं भूयात् ॥१०॥
अस्मिन्द्वापरांते नृपव्याजदैत्यानीककोटिभि-
र्भूरिभाराक्रान्ता भुर्गौर्भूत्वा स्वयंभुवं शरणं जगाम ॥११॥
तदुपचारी सुरश्रेष्ठः सर्वसुरगणैः समृडो वैकुण्ठनाथं
पुरस्कृत्य श्रीवामनवामपादांगुष्ठनखनिर्भिन्नोर्ध्वांड-
कटाहविवरमार्गेण बर्हिर्निगत्य कोटिशोंडनिचयं
ब्रह्मद्रवे संप्रेक्षन् विरजातीरं प्राप्तवान् ॥१२॥
अथाग्रेऽसंख्यकोटिमार्तंडज्योतिषां मण्डलमवेक्ष्य
धाता नत्वा ध्यात्वा तत्रानंतं सहस्रवदनं
संकर्षणं गुणलक्षणलक्षितं देवैः सह ददर्श ॥१३॥
तद्‌भोगकुण्डलीभूतोत्संगेवृन्दारण्यकालिंदीगोवर्धनाद्रि-
कुञ्जनिकुञ्जलतातरुपुञ्जगोपालगोपीगोकुलसंकुलं
ललितं गोलोकं सर्वलोकनमस्कृतं समेत्य तत्र निजकुंजे
निजाज्ञां नीत्वांतःप्राप्य साक्षात्परिपूर्णतमं स्वयं
श्रीकृष्णचंद्रमसंख्यब्रह्मांडपतिं श्रीराधापतिं श्यामलच्छविं
पीतांबरवनमालावंशीधरं क्वणत्कनकनूपुरकिंकिणी-
कटकांगदहारस्फुरत्कौस्तुभांगुलीयकैः सर्वतः
परिस्फुरत्कोटिबालमार्तंडमण्डलं किरीटकुण्डलमण्डित-
गंडस्थलमलकालिभिर्विभ्राजमानमुखारविंदं नमस्कृत्य
विधिः सर्वैः सर्वं भूभारवृत्तांतं कथयांबभूव ॥१४॥
तेषां विज्ञप्तिं विज्ञाय भूमिभारहरणार्थं भगवान्स्वजनान्
सर्वदेवान् यथातथमाज्ञां दत्वानन्तं सहस्रवदनमिति होवाच ॥१५॥
अंग पुरा त्वमपि वसुदेवस्य देवक्यां भूत्वा रोहिण्युदरादाविर्भव
पश्चाद्‍देवक्याः पुत्रतामहं प्राप्स्यामि ॥१६॥

इति श्रीगर्गसंहितायां बलभद्रखण्डे दुर्योधनप्राड्‌विपाकसंवादे
बलदेवावतारकारणं नाम प्रथमोऽध्यायः ॥१॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP