श्रीगर्गसंहिता

विश्वजित्खण्डः - चतुस्त्रिंशोऽध्यायः

वृकदैत्यवधम् -


श्रीनारद उवाच -
संग्रामजिन्महायुद्धे भूतसन्तापने मृते ॥
हाहाकारो महानासीद्दैत्यसेनासु मैथिल ॥१॥
शकुनिर्वृकः कालनाभो महानाभस्तथैव च ॥
हरिश्मश्रुश्च पञ्चैते सम्प्राप्ता रणमंडले ॥२॥
कार्ष्णिः शकुनिनायुद्ध्यदनिरुद्धो वृकेण वै ॥
कालनाभेन सांबस्तु महानाभेन दीप्तिमान् ॥३॥
हरिश्मश्र्वसुरेणापि भानुः कृष्णसुतो बली ॥
सर्वेषामग्रतः प्राप्तोऽनिरुद्धो धन्विनां वरः ॥४॥
विभेद बाणैर्दैत्यांश्च वज्रेणेंद्रो यथा गिरीन् ॥
अनिरुद्धशरैर्दैत्याश्छिन्नपादांसजानवः ॥५॥
निपेतुर्मूर्च्छिता भूमौ वृक्षा वातहता इव ॥
अनिरुद्धशरैस्तीक्ष्णैः संछिन्ना मेघडंबराः ॥६॥
छिन्नकुम्भा भिन्नशुंडाः पतिता रणमंडले ॥
रुग्णदन्ताश्छिन्नकक्षाः शैला वज्रहता इव ॥७॥
द्विधाभूता गजाः पेतुः स्फुरत्काश्मीरकंबलाः ॥
करिणां भिन्नकुम्भानां मुक्ता रेजुः स्फुरत्प्रभाः ॥८॥
बाणांधकारे राजेन्द्र रात्रौ तारागणा इव ॥
प्रधर्षिताः केऽपि वीरा अनिरुद्धशरान्विता ॥९॥
निपेतुर्मूर्छिता भूमौ तदद्‌भुतमिवाभवत् ॥
केचित्कौ रथिनः पेतुस्तेषां शून्या रथाः स्थिताः ॥१०॥
कपित्थस्य फलानीव हस्तकोष्ठगतानि च ॥
क्षणमात्रेण राजेन्द्र दैत्यानां वाहिनीषु च ॥११॥
नदी बभूव संग्रामे भीषणा क्षतजस्रवात् ॥
द्विपग्राहा चोष्ट्रखरकबंधास्यादिकच्छपा ॥१२॥
शिशुमाररथा केशशैवाला भुजसर्पिणी ॥
करमीना मौलिरत्‍नहारकुण्डलशर्करा ॥१३॥
शस्त्रशक्तिच्छत्रशंखा चामरध्वजसैकता ॥
रथांगवर्तसंयुक्ता सेनाद्वयतटावृता ॥१४॥
शतयोजनविस्तीर्णा बभौ वैतरणी यथा ॥
प्रमथा भैरवा भूता वेताला योगिनीगणाः ॥१५॥
अट्टहासं प्रकृर्वंतो नृत्यंतो रणमण्डले ॥
पिबन्तो रुधिरं शश्वत्कपालेन नृपेश्वर ॥१६॥
हरस्य मुण्डमालार्थं जगृहुस्ते शिरांसि च ॥
सिंहारूढा भद्रकाली डाकिनीशतसंवृता ॥१७॥
भक्ष्ययन्ती रणे दैत्यानट्टहासं चकार ह ॥
विद्याधर्यस्त्वंबरस्था गंधर्व्योऽप्सरसस्तथा ॥१८॥
क्षात्रधर्मस्थितान् वीरान् वव्रिरे देवरूपिणः ॥
परस्परं कलिर्भूत्वा तासां पत्यर्थमंबरे ॥१९॥
ममानुरुपो नायं व इति विह्वलचेतसाम् ॥
केचिद्वीरा धर्मपरा रणरङ्गान्न चालिताः ॥२०॥
ययुर्विष्णुपदं दिव्यं भित्वा मार्तंडमण्डलम् ॥
अनिरुद्धं रिपुं दृष्ट्वा केचिद्दैत्याः पलायिताः ॥२१॥
केचित्स्वं स्वं रणं त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥
तदा वृको महादैत्यः खरारूढो भयंकरः ॥२२॥
आजगाम नदन् युद्धे धनुष्टंकारयन्मुहुः ॥
अनिरुद्धस्यापि चायं सिंजिनीसहितं धनुः ॥२३॥
चिच्छेद दशभिर्बाणैर्वृकोऽपि रणदुर्मदः ॥
छिन्नधन्वानिरुद्धस्तु द्वितीयं धनुराददे ॥२४॥
चिच्छेद दशभिर्बाणैर्वृकचापं महाबलः ॥
वृकस्त्रिशूलमुद्यम्य रुषा प्रस्फुरिताधरः ॥
ललज्जिह्वः प्रत्युवाचानिरुद्धं धन्विनां वरम् ॥२५॥
वृकदैत्य उवाच -
अद्यैव त्वां हनिष्यामि क्षत्रियं स्वस्थविक्रमम् ॥
त्वया सेना हता मेऽद्य पश्य विक्रममद्‌भुतम् ॥२६॥
अनिरुद्ध उवाच -
ये वदन्ति मुखेनेह ते कुर्वंति न किंचन ॥
अद्यैव त्वां हनिष्यामि पश्य मे विक्रमं परम् ॥२७॥
न चेत्त्वां घातयिष्यामि शृणुताच्छपथं मम ॥
विप्रगोभ्रूणबालानां हत्या मे स्यात्सदैव हि ॥२८॥
श्रीनारद उवाच -
वृकोऽपि शपथं कृत्वा खरारूढो महाबलः ॥
जघान तं त्रिशूलेनानिरुद्धं धन्विनां वरम् ॥२९॥
तच्छूलं वामहस्तेन गृहीत्वा कार्ष्णिनन्दनः ॥
तताड सहसा राजन् वृकदैत्यं महाबलम् ॥३०॥
तदासुरः कोपपूर्णो मुक्त्वाथ महतीं गदाम् ॥
चूर्णयामास सहसा चानिरुद्धरथं बलात् ॥३१॥
प्राद्युम्निः शितधारेण खड्गेनारिभुजद्वयम् ॥
चिच्छेद भिदुरेणाशु शैलपक्षौ यथा वृषा ॥३२॥
तदाभिन्नभुजो दैत्यः पद्‌भ्यामाकंपयन्भुवम् ॥३३॥
विस्तीर्णं वदनं कृत्वा ललज्जिह्वं भयंकरम् ॥
करालदंष्ट्रः प्रपिबन्नाकाशं दैत्यपुंगवः ॥३४॥
तिमिं तिमिंगिल इव प्राग्रसत्कार्ष्णिनन्दनम् ॥
दैत्योदरे कृष्णपौत्रः श्रीकृष्णस्यानुकंपया ॥३५॥
न ममार महाराज कार्ष्णिर्मीनोदरे यथा ॥
वृकोदरे यथा कृष्णो यथा गोपा ह्यघोदरे ॥३६॥
बकोदरे यथा कृष्णो यथा वृत्रोदरे वृषा ॥
हाहाकारे तदा जाते यदुसैन्ये विदेहराट् ॥३७॥
गदो गदां समादाय बलदेवानुजो बली ॥
तताड मस्तके दैत्यं वृकं नाम महाबलम् ॥३८॥
तदा हतशिरा दैत्यो रेजे क्षतजबिंदुभिः ॥
गरिकैर्जलधाराभिर्यथा विंध्याचलो नृप ॥३९॥
फाल्गुनः स्वमसिं नीत्वा तत्पादौ चाञ्जसाहरत् ॥
छिन्नांघ्रिः स पपातोर्व्यां छिन्नपक्षो यथा गिरिः ॥४०॥
अनिरुद्धस्तदुदरं भीत्वा खड्गेन निर्गतः ॥
जहार तच्छिरश्चायं यथा वज्रेण वृत्रहा ॥४१॥
तदा जयजयारावो यदुसैन्ये बभूव ह ॥
देवदुन्दुभयो नेदुर्नरदुन्दुभयस्तथा ॥४२॥
अनिरुद्धोपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥
कथितं ह्यद्‍भुतं चैतत्किं भूयः श्रोतुमिच्छसि ॥४३॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
वृकदैत्यवधो नाम चतुस्त्रिंशोऽध्यायः ॥३४॥


GO TOP