श्रीगर्ग संहिता - विश्वजित्खण्डः - एकादशोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - एकादशोऽध्यायः

दन्तवक्त्र-करूषविजयम् -


तदा श्रीकृष्णपुत्राणामष्टादश महारथाः ॥
सक्षतं कारयामासुर्दन्तवक्त्रं महाबलम् ॥१॥
दंतवक्त्रोऽतिशुशुभे स क्षतो रक्तधारया ॥
लाक्षयेव यथा सौधं प्रहारं नानुचिंतयन् ॥२॥
कृतवर्मा च बाणौघैस्तं जघान रणांगणे ॥
युयुधानश्च खड्गेन शक्त्याक्रूरो महाबलम् ॥३॥
सारणस्तं कुठारेणाहनत्तं रोहिणीसुतः ॥
दंतवक्त्रोऽपि गदया युयुधानं तताड ह ॥४॥
करेण कृतवर्माणमक्रूरं स्वांघ्रिणाहनत् ॥
सारणं भुजवेगेन कारूषो रणदुर्मदः ॥५॥
अक्रूरः कृतवर्मा च युयुधानोऽथ सारणः ॥
निपेतुर्मूर्छिता भूमौ मरुता पादपा इव ॥६॥
ततो गदां समादाय सांबो जांबवतीसुतः ॥
गदोपरि गदां नीत्वा गदया तं तताड ह ॥७॥
दंतवक्रो गदां त्यक्त्वा सांबं जांबवतीसुतम् ॥
गृहीत्वा पातयामास भुजाभ्यां रणमंडले ॥८॥
सांबस्तदा समुत्थाय गृहीत्वा पादयोश्च तम् ॥
अपोथयद्‍भूमिपृष्ठे तदद्‌भुतमिवाभवत् ॥९॥
दंतवक्रः समुत्थाय साट्टहासं तदाकरोत् ॥
ननाद तेन ब्रह्मांडं सप्तलोकैर्बिलैः सह ॥१०॥
पताकाढ्येन दिव्येन सहस्रादित्यवर्चसा ॥
सहस्रहययुक्तेन प्रद्युम्नं धन्विनां वरम् ॥
दंतवक्त्रोऽपि तं वीक्ष्य प्राहेदं परुषं वचः ॥११॥
दन्तवक्त्र उवाच -
यूयं च यादवाः सर्वे वृष्णयो ह्यंधकादयः ॥
अल्पसत्वा जनास्तुच्छा विद्रुता युद्धभीरवः ॥१२॥
ययातिशापसंभ्रष्टा भ्रष्टराज्या गतत्रपाः ॥
एकोऽहं बहवो युयं युष्माभिश्च कृतं मृधम् ॥१३॥
अधर्मवर्तिभिस्तुच्छैर्धर्मशास्त्रविलोपिभिः ॥
पूर्वं पिता ते श्रीकृष्णो नन्दस्य पशुरक्षकः ॥१४॥
गोपालोच्छिष्टभोजी च सोऽद्य वै यादवेश्वरः ॥
हय्यंगवीनदध्याज्यदुग्धतक्रादिकं रसम् ॥१५॥
चोरयामास गोपीनां रसिको रासमंडले ॥
जरासंधभयात्सोऽपि समुद्रं शरणं गतः ॥१६॥
सोऽद्यैव यदुनाथोऽभूद्यो भीरुः कालसंमुखे ॥
तेन दत्तं स्वल्पराज्यमुग्रसेनः समेत्य सः ॥१७॥
करिष्यत्यल्पसारार्थे राजसूयं क्रतूत्तमम् ॥
दुरत्यया कालगतिर्जातं चित्रमहो जगत् ॥
अध्यास्ते सिंहशार्दूलं शृगालो ह्यतिदुर्बलः ॥१८॥
श्रीप्रद्युम्न उवाच -
पुरा वै कुंडिनपुरे यदूनां बलमूर्जितम् ॥
त्वया दृष्टं न किं त्वत्र पश्याद्यैव विनिंदक ॥१९॥
युष्मान्संबंधिनो ज्ञात्वा नेच्छे युद्धम् करूषप ॥
बलात्त्वं युद्धमाकार्षीर्धर्मशास्त्रं त्वया कृतम् ॥२०॥
नंदो द्रोणो वसुः साक्षाज्जातो गोपकुलेऽपि सः ॥
गोपाला ये च गोलोके कृष्णरोमसमुद्‌भवाः ॥२१॥
राधारोमोद्‌भवा गोप्यस्ताश्च सर्वा इहागताः ॥
काश्चित्पुण्यैः कृतैः पूर्वैः प्राप्ताः कृष्णं वरैः परैः ॥२२॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥
असंख्यब्रह्मांडपतिर्गोलोकेशः परात्परः ॥२३॥
यस्मिन्सर्वाणि तेजांसि विलीयंते स्वतेजसि ॥
तं वदंति परे साक्षात्परिपूर्णतमः स्वयम् ॥२४॥
उग्रसेनोऽथ राजेंद्रो मरुतो नाम यः पुरा ॥
श्रीकृष्णस्य वरेणासौ यादवेंद्रो बभूव ह ॥२५॥
निरंकुशो महामूर्खो विनिन्दसि महद्‍गुणम् ॥
स न प्रार्थयते किंचिद्यथा सिंहः शिवारुतम् ॥२६।
श्रीनारद उवाच -
एवं वचस्तदा श्रुत्वा दंतवक्त्रो मदोत्कटः ॥
गदां गुर्वीं समादाय प्राद्रवत्तद्‌रथोपरि ॥२७॥
गदया पातयामास सहस्रं घोटकान्नदन् ॥
घोटका दुद्रुवुः सर्वे दृष्ट्वा रूपं भयंकरम् ॥२८॥
प्रद्युम्नोऽपि गदां नीत्वा तं तताड दृढं हृदि ॥
तत्प्रहारेण दैत्येद्रः किंचिद्व्याकुलमानसः ॥२९॥
तयोश्च गदया युद्धं घोररूपं बभूव ह ॥
गदाभ्यां प्रहरंतौ द्वौ मर्दयंतौ परस्परम् ॥३०॥
दंतवक्त्रो भुजाभ्यां तं गृहीत्वा श्रीहरेः सुतम् ॥
भूमौ निपातयामास सिंहः सिंहमिवौजसा ॥३१॥
प्रद्युम्नोऽपि समुत्थाय गृहीत्वा भुजयोर्बलात् ॥
भ्रामयित्वा भुजाभ्यां तं पातयामास भूतले ॥३२॥
प्रद्युम्नस्य प्रहारेण सोऽपतद्रुधिरं वमन् ॥
चूर्णितास्थिः खिन्नगात्रो मूर्छितो विह्वलाकृतिः ॥
गिरिन्द्र इव भूपृष्ठे रेजे शक्रायुधाहतः ॥
तत्प्रहारेण वसुधा चचाल सजलाभवत् ॥३४॥
विचेलुर्दिग्गजास्ताराः समुद्राश्च चकंपिरे ॥
पातशब्देन राजेन्द्र त्रिलोकी बधिरीकृता ॥३५॥
तदैव कारूषापतिर्महात्मा
     श्रीवृद्धशर्मा श्रुतदेवया च ॥
राज्ञ्या महारंगपुराद्यदूनां
     समाययौ सुंदरसंधिकारी ॥३६॥
दत्वा बलिं मैथिल शंबरारये
     सुतं गृहीत्वा कृतसंधिरग्रतः ॥
तथा यदूनां प्रवरैः प्रपूजितः
     पुनर्महारंगपुरं समाययौ ॥३७॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
दंतवक्त्रयुद्धे करुषदेशविजयो नामैकादशोऽध्यायः ॥११॥


GO TOP