श्रीगर्गसंहिता
विश्वजित्खण्डः - षष्ठोऽध्यायः
मरुधन्वा-मानस-माहिष्मती-जयम् -
श्रीनारद उवाच -
इत्थं जित्वाथ कालिंगं प्रद्युम्नो यादवेश्वरः ॥
जगाम मरुधन्वानं जलं वैश्वानरो यथा ॥१॥
गिरिदुर्गसमायुक्तं धन्वदेशाधिपं गयम् ॥
उद्धवं प्रेषयामास ज्ञात्वा तं यादवेश्वरः ॥२॥
गिरिदुर्गे गतः साक्षादुद्धवो बुद्धिसत्तमः ॥
सभामेत्य गयं प्राह शृणु राजन्महामते ॥३॥
उग्रसेनो यादवेन्द्रो राजराजेश्वरो महान् ॥
जंबूद्वीपनृपाञ्जित्वा राजसूयं करिष्यति ॥४॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥
असंख्यब्रह्मांडपतिर्मंत्री तस्याभवद्धरिः ॥५॥
तेन वै प्रेषितः साक्षात्प्रद्युम्नो धन्विनां वरः ॥
शीघ्रं तस्मै बलिं नीत्वा कुलकौशलहेतवे ॥६॥
श्रीनारद उवाच -
श्रुत्वा किंचित्प्रकुपितो वीर्यशौर्यमदोद्धतः ॥
उद्धवं प्राह नृपतिर्गयो नाम महाबलः ॥७॥
गय उवाच -
बलिं तस्मै न दास्यामि विना युद्धं महामते ॥
अल्पकालेन यदवो गता वृद्धिं भवादृशाः ॥८॥
इत्युक्त उद्धवो राजञ्च्छंबरारिं समेत्य सः ॥
सर्वेषां यादवानां च शृण्वतां प्रशशंस ह ॥९॥
तदैव रुक्मिणीपुत्रो गिरिदुर्गं समाययौ ॥
तत्सैन्यैर्यादवैः सार्द्धं घोरं युद्धं बभूव ह ॥१०॥
चूर्णयन् गजपादैश्च नागरान् भूजनान्द्रुमान् ॥
अक्षौहिणीभ्यां संयुक्तो गयो योद्धुं विनिर्ययौ ॥११॥
रथिनो रथिभिस्तत्र गजवाहा गजैः सह ॥
आश्ववाहैरश्ववाहा वीरा वीरैः परस्परम् ॥१२॥
युयुधुस्तीक्ष्णबाणौघैश्चर्मखड्गगदर्ष्टिभिः ॥
पाशैः परश्वधै राजञ्छतघ्नीभिर्भुशुंडिभिः ॥१३॥
मन्यमानाश्च यदुभिर्गयवीरा भयातुराः ॥
सर्वे स्वं स्वं रथं त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥१४॥
पलायमाने स्वबले गयो नाम महाबलः ॥
एकाकी प्रययौ योद्धुं धनुष्टंकारयन्मुहुः ॥१५॥
दीप्तिमान् कृष्णपुत्रस्तु धनुर्बाणै रिपोर्हयान् ॥
एकेन सारथिं जघ्ने द्वाभ्यां केतुं समुच्छ्रितम् ॥१६॥
रथं च बाणविंशत्या कवचं पंचभिः पुनः ॥
धनुस्तस्यापि चिच्छेद शतबाणैर्महाबलः ॥१७॥
गयोऽन्यद्धनुरादाय दीप्तिमन्तं हरेः सुतम् ॥
जघान बाणविंशत्या जगर्ज घनवद्बली ॥१८॥
तत्प्रहारेण समरे किंचिद्व्याकुलमानसः ॥
दीप्तिमानथ जग्राह शक्तिं ज्योतिर्मयीं दृढाम् ॥१९॥
चिक्षेप भ्रामयित्वा तां गयाख्याय महात्मने ॥
साऽपि तद्धृदयं भित्वा पपौ च रुधिरं महत् ॥२०॥
गयोऽपि पतितो राजन्मूर्छितोऽभूद्रणांगणे ॥
दीप्तिमांश्च धनुष्कोट्या कर्षयंस्तद्गले रिपुम् ॥२१॥
प्रद्युम्नस्य पुरः प्रागात्कद्रुजं गरुडो यथा ॥
नरदुंदुभयो नेदुर्देवदुन्दुभयस्तदा ॥
आकाशाद्ववृषुर्देवाः पुष्पवर्षाणि पार्थिवाः ॥२२॥
तदैव तेनापि समर्पितांघ्रिः
श्रीकृष्णपुत्रो नृप शंबरारिः ॥
अवन्तिकां संप्रययौ महात्मा
श्रीकर्णिकां स्वर्णमयीमिवालिः ॥२३॥
श्रुत्वाऽऽगतं तं जयसेनराजः
समर्चयामास स मालवाधिपः ॥
आनीय वृद्धान्सुबलिं महात्मने
प्रधर्षितो मैथिल तत्प्रभाववित् ॥२४॥
राजाधिदेवीं स्वपितुः पितुः स्वसां
प्रणम्य तां कृष्णसुतो महामनाः ॥
विंदानुविंदौ परिरभ्य तत्सुतौ
बभौ वृतो मालवदेशसंभवैः ॥२५॥
प्रद्युम्नो धन्विनां श्रेष्ठः पुरीं माहिष्मतीं ययौ ॥
यादवैः स्वबलैः सार्द्धं नर्मदां स ददर्श ह ॥२६॥
राजितामंबुकल्लोलैः शृङ्गारतिलकामिव ॥
वहंती पुष्पनिचयमुष्णीषं मुद्रिकामिव ॥२७॥
वेतसीवेणुतरुभिः पुष्पितैर्माधवैर्वृतैः ॥
स्फुरद्भिर्मूर्तिमद्भिश्च देवैः स्वर्गनदीमिव ॥२८॥
तत्तीरे शिबिरैर्युक्तः प्रद्युम्नो यादवेश्वरः ॥
स्थितोऽभूद्यादवैः साकं देवैरिंद्र इव प्रभुः ॥२९॥
इन्द्रनीलो महाराज ज्ञानी माहिष्मतीपतिः ॥
स्वदूतं प्रेषयामास प्रद्युम्नाय महात्मने ॥३०॥
प्रद्युम्नराजशिबिरे दूतो गत्वा कृतांजलिः ॥
उवाच वचनं तत्र सर्वेषां शृण्वतां नृप ॥३१॥
दूत उवाच -
हस्तिनापुरनाथेन धार्तराष्ट्रेण धीमता ॥
स्थापितोऽतिबलो वीरो बलिं कस्मै न दास्यति ॥३२॥
सुयोधनाय चेच्छाभिर्द्रव्यं यच्छति नो बलात् ॥
योद्धव्यं च भवद्भिश्च विफलो हि रणोऽत्र वै ॥३३॥
श्रीप्रद्युम्न उवाच -
यथा गयो दूत कलिंगराड् यथा
तथाभिभूतोऽपि बलिं प्रदास्यति ॥
नृपं न जानाति महोग्रसेनकं
माहिष्मतीशोऽयमतीव राजराट् ॥३४॥
श्रीनारद उवाच -
उक्तो दूतस्तदैवाशु गत्वा माहिष्मतीपतिम् ॥
सभायां कथयामास प्रद्युम्नकथितं वचः ॥३५॥
यदूनामुद्भटं सैन्यं वीक्ष्य माहिष्मतीपतिः ॥
गजानां पंचसाहस्रं हयानां नियुतं शुभम् ॥३६॥
रथानामयुतं जैत्रं नीत्वा राजा विनिर्गतः ॥
बलिं ददौ समेत्याशु प्रद्युम्नाय महात्मने ॥३७॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
मरुधन्वमालवमाहिष्मतीदेशविजयो नाम षष्ठोऽध्यायः ॥६॥
GO TOP
|