श्रीगर्गसंहिता

द्वारकाखण्डः - एकोनविंशोऽध्यायः

लीलासरोवरादि-तीर्थमाहात्म्यम् -


श्रीनारद उवाच -
द्वारावतीमंडलं तु शतयोजनविस्तृतम् ।
तस्य प्रदक्षिणा सर्वा योजनानां चतुःशतम् ॥ १ ॥
तन्मध्ये कृष्णरचितं दुर्गं द्वादशयोजनम् ।
द्वितीयं च बहिर्दुर्गं नवतिं च तदुत्तरैः ।
क्रोशैः संघट्टितं राजञ्छ्रीकृष्णेन महात्मना ॥ २ ॥
तृतीयं च तथा दुर्गं द्व्यूनैश्च द्विशतैर्नृप ।
क्रोशैः संघट्टितं राजन् रत्‍नप्रासादसंयुतम् ॥ ३ ॥
तेषामन्तरदुर्गोऽपि श्रीकृष्णस्य महात्मनः ।
मंदिराणि विचित्राणि नव लक्षाणि संति हि ॥ ४ ॥
तत्र राधामंदिरस्य द्वारे लीलासरोवरम् ।
सर्वतीर्थोत्तमं राजन् गोलोकाच्च समागतम् ॥ ५ ॥
यस्मिन्स्नात्वा नरःपापी व्रती भूत्वा समाहितः ।
अष्टम्यां हेमदानं च दत्वा नत्वा विधानतः ॥ ६ ॥
कोटिजन्मकृतैः पापैः मुच्यते नात्र संशयः ।
प्राणांते तं नरं नेतुं गोलोकाच्च महारथाः ॥ ७ ॥
सहस्रादित्यसंकाश आगच्छति न संशयः ।
दशकंदर्पलावण्यो रत्‍नकुण्डलमंडितः ॥ ८ ॥
स्रग्वी पीतांबरः श्यामः सहस्रार्कस्फुरद्द्युतिः ।
सहस्रपार्षदैर्युक्तश्चामरांदोलराजितः ॥ ९ ॥
जयध्वनिसमायुक्तो वेणुदुंदुभिनादितः ।
भूत्वैवं रथमास्थाय गोलोकं यात्यसंशयम् ॥ १० ॥
अथ तीर्थानि चान्यानि श्रृणू राजन्महामते ।
शतोत्तराणि तत्रैव सहस्राणि च षोडश ॥ ११ ॥
अष्टभिः सहितान्येव पत्‍नीनां भवनानि च ।
तानि प्रदक्षिणीकृत्य नत्वा नत्वा पृथक् पृथक् ॥ १२ ॥
ज्ञानतीर्थं समाप्लुत्य स्पृशेद्यः पारिजातकम् ।
तस्य ज्ञानं च वैराग्यं भक्तिर्भवति तत्क्षणम् ॥ १३ ॥
श्रीकृष्णो हृदये तस्य वसेद्‍धृष्टमनाः सदा ।
समृद्धिसिद्धयः सर्वास्तं भजंति निसर्गतः ॥ १४ ॥
स मुक्तः स कृतार्थः स्याद्‌यः पश्येद्धरिमंदिरम् ।
तत्समो वैष्णवो नास्ति तीर्थं च तत्समं न हि ॥ १५ ॥
पञ्चयोजनविस्तीर्णाद्‌‌भगवन्मंदिरात्ततः ।
धनुःशते कृष्णकुण्डः कृष्णतेजःसमुद्‌भवः ॥ १६ ॥
यं स्नात्वा कुष्ठतो मुक्तः सांबो जांबवतीसुतः ।
तस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥ १७ ॥
तस्मादष्टादशपदे पूर्वस्यां दिशि मैथिल ।
सर्वतीर्थोत्तमं पुण्यं बलभद्रसरो महत् ॥ १८ ॥
पृथ्वीप्रदक्षिणां कृत्वा बलदेवो महाबलः ।
यज्ञं यत्र विनिर्माय रेवत्या विरराज ह ॥ १९ ॥
तत्र स्नात्वा नरः सद्यो मुच्यते सर्वपातकात् ।
पृथ्वीप्रदक्षिणायाश्च फलं तस्य न दुर्लभम् ॥ २० ॥
भगवान्मन्दिराद्‌राजन् सहस्रधनुरग्रतः ।
दक्षिणस्यां महातीर्थं गणनाथस्य वर्तते ॥ २१ ॥
अनिर्दशे गते राजन् प्रद्युम्ने स्वसुते तदा ।
गणेश सुमना यत्र पूजयामास रुक्मिणी ॥ २२ ॥
तत्र स्नात्वा हेमदानं यो ददाति नृपेश्वर ।
पुत्रप्राप्तिर्भवेत्तस्य वंशस्तस्य विवर्द्धते ॥ २३ ॥
भगवन्मन्दिराद्‌राजन् दिग्विभागे च पश्चिमे ।
धनुषि द्विशते चास्ते दानतीर्थं परं शुभम् ॥ २४ ॥
तत्र श्रीकृष्णचंद्रस्य नित्यं दानं करोति यः ।
तत्र स्नात्वा नरो राजन् द्विपलं कांचनं तथा ॥ २५ ॥
चतुर्गुणं तु रजतं पट्टांबरशतं तथा ।
तथा सहस्रमौल्यानि नवरत्‍नानि यानि च ॥ २६ ॥
यो ददाति नरश्रेष्ठस्तस्य पुण्यफलं श्रृणु ।
अश्वमेधसहस्राणि राजसूयशतानि च ॥ २७ ॥
दानतीर्थस्य पुण्यस्य कलां नार्हंति षोडशीम् ।
बद्रिकाश्रमयात्रायां यत्फलं लभते नरः ॥ २८ ॥
सैंधवारण्ययात्रायां मेषस्थे च दिवाकरे ॥ २९ ॥
उत्पलावर्तयात्रायां वृषस्थे भास्करे सति ।
स्नानं दानं लक्षगुणं भवतीह न संशयः ॥ ३० ॥
तस्मात्कोटिगुणं पुण्यं दानतीर्थे विदेहराट् ।
मासमेकं च यत्स्नानं दानं तीर्थे करोति हि ॥ ३१ ॥
तस्य जातं च यत्पुण्यं चित्रगुप्तो न वेत्ति तम् ।
तस्य तीर्थस्य माहात्म्यं वक्तुं नालं चतुर्मुखः ॥ ३२ ॥
सर्वेषां चैव दानानामश्वदानं परं स्मृतम् ।
अश्वदानाद्‌गजस्यापि गजदानाद्‌रथस्य च ॥ ३३ ॥
रथदानात्परं राजन्भूमिदानं विशिष्यते ।
भूमिदानादन्नदानं महादानं प्रकथ्यते ॥ ३४ ॥
अन्नदानसमं दानं न भूतं न भविष्यति ।
देवर्षि पितृभूतानां तृप्तिरन्नेन जायते ॥ ३५ ॥
दानतीर्थे ह्यन्नदानं यः करोति महामनाः ।
ऋणत्रयं विमुच्याथ याति विष्णोः परं पदम् ॥ ३६ ॥
दशैव मातृके पक्षे राजेन्द्र दश पैतृके ।
प्रियया दश पक्षे तु पुरुषानुद्धरेन्नरः ॥ ३७ ॥
चतुर्भुजा दिव्यरूपा नागारिकृतकेतनाः ।
स्रग्विणः पीतवस्त्रास्ते प्रयांति हरिमंदिरम् ॥ ३८ ॥
भगवान्मन्दिराद्‌राजन्नुत्तरस्यां दिशि श्रुतम् ।
क्रोशार्द्धे नृपशार्दूल मायातीर्थं मनोहरम् ॥ ३९ ॥
विराजते यत्र नित्यं दुर्गा दुर्गतिनाशिनी ।
सिंहरूढा भद्रकाली चंडमुंडविनाशिनी ॥ ४० ॥
स्यमंतकं समाहर्तुमृक्षराजबिलं गते ।
पुत्रे च देवकी देवीं पूजयामास सत्फलैः ॥ ४१ ॥
तदाऽऽजगाम प्रियया समणिर्भगवान्हरिः ।
तद्‌बिलात्तत्प्रसिद्धं स्यान्मायातीर्थं फलप्रदम् ॥ ४२ ॥
मायातीर्थे च यः स्नात्वा मायां संपूज्य मानवः ।
सर्वां मनोरथप्राप्तिं प्राप्नुयान्नात्र संशयः ॥ ४३ ॥

इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे
द्वारकायाः प्रथमदुर्गे लीलासरोवर हरिमन्दिर ज्ञानतीर्थ कृष्णकुंड
बलभद्रसरोगणेशतीर्थदानस्थल मायातीर्थमाहात्म्यं नामैकोनविंशोऽध्यायः ॥ १९ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP