श्रीगर्गसंहिता

द्वारकाखण्डः - सप्तदशोऽध्यायः

राधा-प्रेम-प्रकाशम् -


श्रीनारद उवाच -
श्रीकृष्णमागतं वीक्ष्य पट्टराज्ञीसमन्वितम् ।
तदा जयजयारावं चक्रुर्गोप्योऽतिहर्षिताः ॥ १ ॥
सहसा श्रीहरिं राधा परिक्रम्य कृतांजलिः ।
पद्माभाभ्यां तु नेत्राभ्यां आनंदाश्रूणि मुंचती ॥ २ ॥
स्यमन्तकखचित्पादं चिंतामणीखचित्तटम् ।
पद्मरागलसन्मध्यं चन्द्रमण्डलवर्तुलम् ॥ ३ ॥
कौस्तुभैः प्रखचित्पृष्ठं कुम्भमण्डलमण्डितम् ।
पारिजातकपुष्पाढ्यं पीयूषस्राविछत्रमत् ॥ ४ ॥
दत्त्वा सिंहासनं तस्मै प्राह प्रहसितानना ।
अद्य मे सफलं जन्म चाद्य मे सफलं तपः ॥ ५ ॥
अद्य मे सफलो धर्मो हरे त्वय्यागते सति ।
धन्यं सिद्धाश्रमस्नानं सफलीभूतमद्‌भुतम् ।
मयाऽपि न कृता भक्तिस्तव भक्तसहायिनः ॥ ६ ॥
बहवश्च सहाया मे त्वया देव कृता भुवि ।
कंसोऽपि लोकविजयी येन भीतो बभूव ह ॥ ७ ॥
स मारितो मद्वचनाच्छंखचूडस्त्वया हरे ।
मत्प्रेम्णाऽपि त्वया देव वैभवं दर्शितं व्रजे ॥ ८ ॥
शक्रस्य मानभंगोपि कृतो देव त्वया बलात् ।
मत्कारणाद्व्रजं रक्षन् धृत्वा गोवर्धनाचलम् ॥ ९ ॥
यथेच्छालिंगितो रासे गोपीभिस्त्वं वशीकृतः ।
इदं ते चरितं देव नरलोकविडंबनम् ॥ १० ॥
एवं वदन्ती सा राधा त्वरं चन्द्राननाज्ञया ।
सादरेण हरेः पत्‍नीर्वीक्ष्य ता गौरवं ददौ ॥ ११ ॥
भैष्मीं जांबवतीं भामां सत्यां भद्रां च लक्ष्मणाम् ।
कालिंदीं मित्रविंदां च मिलित्वा सा परस्परम् ॥ १२ ॥
षोडशस्त्रीसहस्रं च रोहिणीमुखमेव च ।
प्रेमानंदमयी दोर्भ्यां परिरेभे मुदान्विता ॥ १३ ॥
राधोवाच -
चन्द्रो यथैको बहवश्चकोराः
     सूर्यो यथैको बहवो दृशः स्युः ।
श्रीकृष्णचन्द्रो भगवांस्तथैको
     भक्ता भगिन्यो बहवो वयं च ॥ १४ ॥
पद्मप्रभावं मधुपो यथा हि
     रत्‍नप्रभावं किल तत्परीक्षित् ।
विद्याप्रभावं च यथा हि विद्वान्
     काव्यप्रभावं च यथा कवींद्रः ॥ १५ ॥
यथा सहस्रेषु जनेषु सत्सु
     रसप्रभावं रसिकस्तथा हि ।
जानाति तत्त्वेन नरेन्द्रपुत्र्यः
     कृष्णप्रभावं भुवि कृष्णभक्तः ॥ १६ ॥
श्रीनारद उवाच -
राधावाक्यं तदा श्रुत्वा रुक्मिणी भीष्मनन्दिनी ।
सपत्‍नीसहिता प्राह राधां कमललोचनाम् ॥ १७ ॥
रुक्मिण्युवाच -
धन्याऽसि राधे वृषभानुपुत्रि
     त्वद्‌भक्तिभावेन वशीकृतोऽयम् ।
वदत्यलं यस्य कथां त्रिलोकी
     स एव वार्तां वदति त्वदीयाम् ॥ १८ ॥
श्रुतं यथा ते हरिभावलक्षणं
     तथा हि दृष्टं न हि चित्रमेव हि ।
गच्छाशु चास्मच्छिबिराणी यत्र हि
     त्वां नेतुमत्रागतवत्य आदृताः ॥ १९ ॥
श्रीनारद उवाच -
एवमुक्त्वा भीष्मसुता राधां कीर्तिसुतां सदा ।
समानीय स्वशिबिरे सादरेण महात्मना ॥ २० ॥
शिबिरे सर्वतोभद्रे पद्माकिंजल्कवासिते ।
हैमे शिरीषमृदुले पर्यंके सोपबर्हणे ॥ २१ ॥
सुखं निवासयामास वासः स्रङ्‍मंडनादिभिः ।
संपूज्य विधिवद्‌रात्रौ सपत्‍नीसहिता सती ॥ २२ ॥
गोपीनां शतयूथं च संपूज्य च पृथक्पृथक् ।
वार्तालापान्बहुविधान्कृत्वा कृष्णप्रियास्ततः ।
स्थापयित्वाऽथ तां जग्मुः स्वं स्वं वै शिबिरं मुदा ॥ २३ ॥
कृष्णपार्श्वं गता भैष्मी दृष्ट्वा जाग्रदुपस्थितम् ।
कथं न शेषे भो स्वामिन्निति कृष्णमुवाच ह ॥ २४ ॥
श्रीभगवानुवाच -
प्रत्युद्‌गमप्रस्रवणैराश्वासेन व्रजेश्वरि ।
अर्चिता हि त्वया सुभ्रुः प्रसन्ना साऽभवत्परम् ॥ २५ ॥
सा च नित्यं हि पिबति शयनादौ पयः शुभम् ।
पयःपानं तु न कृतमद्य सुभ्रुः तया किल ॥ २६ ॥
तेन निद्रा नयनयोर्न जाताऽस्या महामते ।
तस्मान्ममापि प्रस्वापो न जातो भीष्मकन्यके ॥ २७ ॥
श्रीनारद उवाच -
इति श्रुत्वा परं भैष्मी सपत्‍नीभिः समन्विता ।
नीत्वा दुग्धं तत्समीपं प्रययौ परमादरात् ॥ २८ ॥
उष्णं दुग्धं सितायुक्तम् कचोले हैमने कृतम् ।
अपाययत्परं प्रीत्या राधां भीष्मकनंन्दिनी ॥ २९ ॥
एवमभ्यर्च्य विधिवत् दत्वा ताम्बूलबीटिकाम् ।
सत्यभामादिभिः शश्वत्सपत्‍नीभिः समन्विता ॥ ३० ॥
आगत्य कृष्णसामीप्यं वदंती स्वकृतं शुभा ।
भेजे श्रीरुक्मिणी साक्षाच्छ्रीकृष्णपदपंकजम् ॥ ३१ ॥
संलालयंती सततं कोमलैः करपल्लवैः ।
कृष्णपादतले छालान्वीक्ष्य सा विस्मिताऽभवत् ॥ ३२ ॥
उच्छालकाः कथं जाताः तव पादतले प्रभो ।
अद्यैव भूता भगवन्न वेद्म्यत्र हि कारणम् ॥ ३३ ॥
षोडशस्त्रीसहस्राणां शृण्वंतीनां हरिः स्वयम् ।
राधाभक्तिप्रकाशार्थं प्रसन्नः प्राह रुक्मिणीम् ॥ ३४ ॥
श्रीभगवानुवाच -
श्रीराधिकाया हृदयारविंदे
     पादारविन्दं हि विराजते मे ।
अहर्निशं प्रश्रयपाशबद्धं
     लवं लवार्द्धं न चलत्यतीव ॥ ३५ ॥
अद्योष्णदुग्धप्रतिपानतोंऽघ्रा-
     वुच्छालकास्ते मम प्रोच्छलंति ।
मंदोष्णमेव हि न दत्तमस्मै
     युष्माभिरुष्णं तु पयः प्रदत्तम् ॥ ३६ ॥
श्रीनारद उवाच -
श्रीकृष्णस्य वचः श्रुत्वा रुक्मिण्याद्या स्त्रियो वराः ।
प्रेम्णा पादं विमृज्याथ विसिस्मुः सर्वतो नृप ॥ ३७ ॥
श्रीराधायाः परा प्रीतिः माधवे मधुसूदने ।
तत्समाना न चैकैषा अद्वितीया महीतले ॥ ३८ ॥

इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे
सिद्धाश्रमे श्रीराधाकृष्णसमागमे राधाप्रेमप्रकाशो नाम सप्तदशोऽध्यायः ॥ १७ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP