श्रीगर्गसंहिता

मथुराखण्डः - सप्तमोऽध्यायः

कृष्णकृतं कुवलयापीडवधं तथा कंस-मल्लगण-युद्धम् -


श्रीनारद उवाच -
रजकस्य शिरश्छेदं कंसो वै रक्षिणां वधम् ।
धनुर्भंगं ततः श्रुत्वा परं त्रासमुपागमत् ॥ १ ॥
तत्क्षणाद्‍दुर्निमित्तानि वामाङ्गस्फुरणानि च ।
प्रपश्यन्नङ्गभङ्गानि न निद्रां प्राप दैत्यराट् ॥ २ ॥
स्वप्ने प्रेतैः समायुक्तस्तैलाभ्यक्तो दिगंबरः ।
जपास्रङ्‌महिषारुढो दक्षिणाशां जगाम सः ॥ ३ ॥
प्रातःकाले समुत्थाय कार्यभारकराञ्जनान् ।
आहूय कारयामास मल्लक्रीडामहोत्सवम् ॥ ४ ॥
विशालाजिरसंयुक्ते हेमस्तंभसमन्विते ।
सभामण्डपदेशाग्रे रंगभूमिर्बभूव ह ॥ ५ ॥
वितानैर्हेमसंकाशैर्मुक्तादामविलंबिभिः ।
सोपानैर्हेममञ्चैश्च रंगभूमिर्बभौ नृप ॥ ६ ॥
राजमञ्चे रत्‍नमये मकरन्दार्चिते शुभे ।
शक्रसिंहासनं तत्र सोपबर्हणमण्डलम् ॥ ७ ॥
आतपत्रेण दिव्येन चंद्रमण्डलचारुणा ।
हंसाभैर्व्यजनैर्युक्तश्चामरैर्वज्रमुष्टिभिः ॥ ८ ॥
दशहस्तोच्छ्रितं शश्वद्‌विश्वकर्मविनिर्मितम् ।
तदारुह्य बभौ कंसोऽद्रिशृङ्गे मृगराडिव ॥ ९ ॥
गायकाः प्रजगुस्तत्र ननृतुर्वारयोषितः ।
नेदुर्मृदंगपटहतालभेर्यानकादयः ॥ १० ॥
राजानो मंडलेशाश्च पौरा जानपदा नृप ।
ददृशुर्मल्लयुद्धं ते मञ्चे मञ्चे समास्थिताः ॥ ११ ॥
चाणूरो मुष्टिकः कूटः शलस्तोशल एव च ।
व्यायाममुद्‌गरैर्युक्ता युयुधुस्ते परस्परम् ॥ १२ ॥
नन्दराजादयो गोपाः कंसाहूता नताननाः ।
दत्वा बलिं परं तस्मा एकस्मिन्मञ्च आश्रिताः ॥ १३ ॥
बाणासुरजरासन्धनरकाणां पुरान्नृप ।
अन्येषां शंबरादीनां सकाशाद्‍भूभुजां तथा ॥ १४ ॥
बलयश्चाययू राजन् यदुराजाय तत्र वै ।
अथ तौ रामकृष्णौ द्वौ मायाबालकविग्रहौ ॥ १५ ॥
मल्ललीलादर्शनार्थं ययतू रंगमंडपम् ।
गोमूत्रचयसिंदूरकस्तूरीपत्रभृन्मुखम् ।
स्रवन्मदमहामत्तं रत्‍नकुण्डलमंडितम् ॥ १६ ॥
गजं कुवलयापीडं रंगद्वारमवस्थितम् ।
वीक्ष्य कृष्णो महामात्रं प्राह गंभीरया गिरा ॥ १७ ॥
आकर्षयांग नागेन्द्रं मार्गं कुरु ममेच्छया ।
नोचेत्वां पातयिष्यामि सनागं भूमिमंडले ॥ १८ ॥
महामात्रस्तदा क्रुद्धो नोदयामास तं गजम् ।
चीत्कारमुत्कटं दिक्षु कुर्वन्तं नन्दसूनवे ॥ १९ ॥
गृहीत्वा तं हरिं सद्यः शुंडादण्डेन नागराट् ।
उज्जहार ततस्तस्मान्निर्गतो भारभृद्धरिः ॥ २० ॥
तत्पादेषु विलीनोऽभूत्प्रभ्रन्सन्नितस्ततः ।
वृन्दावननिकुञ्जेषु वृक्षेषु च यथा हरिः ॥ २१ ॥
करे जग्राह तं नागः शुण्डादण्डेन चांघ्रिषु ।
निष्पीड्य शुण्डां हस्तभ्यां हरिः पश्चाद्‌विनिर्गतः ॥ २२ ॥
तिर्यग्भूतश्च तं नागो गृहीतुमुपचक्रमे ।
मुष्टिना तं घातयित्वा पुरो दुद्राव माधवः ॥ २३ ॥
तमन्वधावन्नागेन्द्रो मथुरायां विदेहराट् ।
कोलाहले तदा जाते हरिस्तस्मादितो ययौ ॥ २४ ॥
पुच्छे गृहीत्वा तं नागं बलदेवो महाबलः ।
चकर्ष भुजदंडाभ्यां फणिनं गरुडो यथा ॥ २५ ॥
प्रहसन्भगवान्कृष्णो गृहीत्वा तं करे बलात् ।
चकर्ष भुजदण्डाभ्यां कूपरज्जुं यथा नरः ॥ २६ ॥
द्वयोराकर्षणान्नागो विह्वलोऽभून्नृपेश्वर ।
महामात्रास्तदा सप्त रुरुहुस्तं गजं बलात् ॥ २७ ॥
नीता गजास्तथा चान्यैः कृष्णं हंतुं शतत्रयम् ।
अंकुशास्फालनात्क्रुद्धं मत्तेभं पुनरागतम् ॥ २८ ॥
श्रीकृष्णो भगवान्साक्षाद्‌बलदेवस्य पश्यतः ॥ २९ ॥
शुंडादंडे संगृहीत्वा भ्रामयित्वा त्वितस्ततः ।
पातयामास भूपृष्ठे कमंडलुमिवार्भकः ॥ ३० ॥
दूरे प्रपतितास्तस्य महामात्रा इतस्ततः ।
सतां प्रपश्यतां नागः सद्यो वै निधनं गतः ॥ ३१ ॥
तज्ज्योतिः श्रीघनश्यामे लीनं जातं विदेहराट् ।
दंतावुत्पाट्य तस्यापि रामकृष्णौ महाबलौ ।
निजघ्नतुर्महामात्रान् मृगान्केसरिणो यथा ॥ ३२ ॥
द्विपे हतेऽपि ये चान्ये महामात्रा इतस्ततः ।
विदुद्रुवुर्यथा मेघा वर्षाकाले गते सति ॥ ३३ ॥
एवं हत्वा द्विपं गोपैः शेषैस्तैः प्रेक्षणोत्सुकैः ।
जयारावै रामकृष्णौ श्रमवारिमदांकितौ ॥ ३४ ॥
परिश्रमारुणमुखौ रंगं विविशतुस्त्वरम् ।
दंतपाणी महावेगौ यथाशामनिलानलौ ॥ ३५ ॥
मल्लाश्च मल्लं च नरा नरेंद्रं
     स्त्रियः स्मरं गोपगणा व्रजेशम् ।
पिता सुतं दंडधरं ह्यसंतो
     मृत्यं च कंसो विवुधा विराजम् ॥ ३६ ॥
तत्त्वं परं योगिवराश्च भोजा
     देवं तदा रंगगतं बलेन ।
पृथक् पृथग्भावनया ह्यपश्य-
     न्सर्वे जनास्तं परिपूर्णदेवम् ॥ ३७ ॥
हतं द्विपं वीक्ष्य च तौ महाबलौ
     कंसो मनस्वी भयमाप चेतसि ।
मंचस्थिता हर्षितमानसाश्च
     चंद्रं चकोरा इव ते सुखं ययुः ॥ ३८ ॥
कर्णे च कर्णं विनिधाय नागरा
     महोत्सुकास्ते ह्यवदन्परस्परम् ।
एतौ हि साक्षात्परमेश्वरौ परौ
     बभूवतुर्वै वसुदेवनंदनौ ॥ ३९ ॥
अहोऽतिरम्यं व्रजमंडलं परं
     यत्रैष साक्षाद्‌विचचार माधवः ।
कृत्वा हि यद्दर्शनमद्य दुर्लभं
     वयं कृतार्थास्तु भवेम सर्वतः ॥ ४० ॥
श्रीनारद उवाच -
वदत्सु पौरलोकेषु नदत्तूर्येषु मैथिल ।
चाणुरस्तावुपव्रज्य रामकृष्णावुवाच ह ॥ ४१ ॥
चाणूर उवाच -
हे राम हे कृष्ण युवां महाबलौ
     राज्ञः पुरो वै कुरुतं मृधं बलात् ।
प्रहर्षिते राजनि चेद्‌यदूत्तमे
     किं कीं न भद्रं भवतीह वश्च नः ॥ ४२ ॥
श्रीभगवानुवाच -
पुरैव भद्रं नृपतेः प्रसादतो
     बाला वयं तुल्यबलैश्च बालकैः ।
भूयान्मृधो नो बलवान् यथोचित-
     मधर्मयुद्धं किल मा भवेदिह ॥ ४३ ॥
चाणूर उवाच -
भवान्न बालो न च वा किशोरो
     बलश्च साक्षाद्‌बलिनां बलीयान् ।
सहस्रमत्तेभबलं दधानो
     द्विपो भवद्‌भ्यां निहतः सलीलम् ॥ ४४ ॥
श्रीनारद उवाच -
एवं तस्य वचः श्रुत्वा भगवान्वृजिनार्दनः ।
चाणूरेणापि युयुधे मुष्टिकेन बलो बली ॥ ४५ ॥
आकर्षणं नोदनं च भुजाभ्यां भुजदण्डयोः ।
चक्रतुः पश्यतां नॄणां गजाविव जिगीषया ॥ ४६ ॥
हस्ताभ्यां वपुरुत्थाप्य चाणूरस्य हरिः स्वयम् ।
अतोलयद्‌देहभारं पुण्यभारं यथा विधिः ॥ ४७ ॥
चाणूरस्तं हरिं देवं करणैकेन लीलया ।
उज्जहार महावीरो भूखंडं नागराडिव ॥ ४८ ॥
ग्रीवायां किल चाणूरं भुजवेगेन माधवः ।
कट्यां चोद्‍धृत्य सहसा पातयामास भूतले ॥ ४९ ॥
हस्तैश्च जानुभिः पादैर्भुजोरोऽङ्गुलिमुष्टिभिः ।
जघ्नतुः कृष्णचाणूरौ तथैव बलमुष्टिकौ ॥ ५० ॥
श्रमवारियुते दृष्ट्वा श्रीमुखे रामकृष्णयोः ।
सानुकंपास्तदा प्राहुर्गवाक्षस्था नृपस्त्रियाः ॥ ५१ ॥
स्त्रिय उचुः -
अहो अधर्मः सुमहत्सभायां
     जातः पुरो राजनि वर्तमाने ।
क्व वज्रतुल्यांगवृतौ हि मल्लौ
     क्व पुष्पतुल्यौ बत रामकृष्णौ ॥ ५२ ॥
अहो ह्यभाग्यं हि पुरौकसां नो
     युद्धे तयोर्दर्शनमद्य जातम् ।
अहोऽतिधन्यं बत भूरि भाग्यं
     वनौकसां रासरसेन जातम् ॥ ५३ ॥
अहो स्थिते राजनि दुष्टचित्ते
     न कोऽपि वक्तुं क्षम एव सख्यः ।
तस्माद्धि नः पुण्यबलेन चेत्तौ
     त्वरं मृधे वै जयतामरीन्स्वान् ॥ ५४ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
कुवलयापीडवधो नाम सप्तमोऽध्यायः ॥ ७ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP