श्रीगर्ग संहिता - माधुर्यखण्डः - चतुर्दशोऽध्यायः

श्रीगर्गसंहिता

माधुर्यखण्डः - चतुर्दशोऽध्यायः

जालन्धरी-सखीगणोपाख्यानम् -


श्रीनारद उवाच -
जालंधरीणां गोपीनां जन्मानि शृणु मैथिल ।
कर्माणि च महाराज पापघ्नानि नृणां सदा ॥ १ ॥
रजन् सप्तनदीतीरे रंगपत्तनमुत्तमम् ।
सर्वसंपद्युतं दीर्घं योजनद्वयवर्तुलम् ॥ २ ॥
रंगोजिस्तत्र गोपालः पुराधीशो महाबलः ।
पुत्रपौत्रसमायुक्तो धनधान्यसमृद्धिमान् ॥ ३ ॥
हस्तिनापुरनाथाय धृतराष्ट्राय भूभृते ।
हैमानामर्बुदशतं वार्षिकं स ददौ सदा ॥ ४ ॥
एकदा तत्र वर्षांते व्यतीते किल मैथिल ।
वार्षिकं तु करं राज्ञे न ददौ स मदोत्कटः ॥ ५ ॥
मिलनार्थं न चायते रंगोजौ गोपनायके ।
वीरा दश सहस्राणि धृतराष्ट्रप्रणोदिताः ॥ ६ ॥
बद्ध्वा तं दामभिर्गोपमाजग्मुस्ते गजह्वयम् ।
कति वर्षाणि रंगोजिः कारागारे स्थितोऽभवत् ॥ ७ ॥
सन्निरुद्धस्ताडितोऽपि लोभी भीरुर्न चाभवत् ।
न ददौ स धनं किंचिद्धृतराष्ट्राय भूभृते ॥ ८ ॥
कारागारान्महाभीमात्कदाचित्स पलायितः ।
रात्रौ रंगपुरं प्रागाद् रंगोजिर्गोपनायकः ॥ ९ ॥
पुनस्तं हि समाहर्तुं धृतराष्ट्रप्रणोदितम् ।
अक्षौहिणीत्रयं राजन् समर्थबलवाहनम् ॥ १० ॥
तेन सार्द्धं स बाणौघैस्तीक्ष्णधारैः स्फुरत्प्रभैः ।
युयुधे दंशितो युद्धे धनुष्टंकारयन्मुहुः ॥ ११ ॥
शत्रुभिश्छिन्नकवचः छिन्नधन्वा हतस्वकः ।
पुरमेत्य मृधं चक्रे रंगोजिः कतिभिर्दिनैः ॥ १२ ॥
अनाथः शरणं चेच्छन् कंसाय यदूभूभृते ।
दूतं स्वं प्रेषयामास रंगोजिर्भयपीडितः ॥ १३ ॥
दूतस्तु मथुरामेत्य सभां गत्वा नताननः ।
कृताञ्जलिश्चौग्रसेनिं नत्वा प्राह गिराऽऽर्द्रया ॥ १४ ॥
रंगोजिनामा नृप रंगपत्तने
     गोपोऽस्ति नीतिज्ञवरः पुराधिपः ।
स्वशत्रुसंरुद्धपुरो महाधिभृद्
     अलब्धनाथः शरणं गतस्तव ॥ १५ ॥
त्वं दीनदुःखार्तिहरो महीतले
     भौमदिसंगीतगुणो महाबलः ।
सुरासुरानुद्भटभूमिपालकान्
     विजित्य युद्धे सुरराडिव स्थितः ॥ १६ ॥
चन्द्रं चकोरश्च रविं कुशेशयो
     यथा शरच्छीकरमेव चातकः ।
क्षुधातुरोऽन्नं च जलं तृषातुरः
     स्मरत्यसौ शत्रुभये तथा त्वाम् ॥ १७ ॥
इत्थं श्रुत्वा वचस्तस्य कंसो वै दीनवत्सलः ।
दैत्यकोटिसमायुक्तो मनो गंतुं समादधे ॥ १८ ॥
गोमूत्रचयसिन्दूरकस्तूरीपत्रभृन्मुखम् ।
विन्ध्याद्रिसदृशं श्यामं मदनिर्झरसंयुतम् ॥ १९ ॥
पादे च शृङ्खलाजालं नदंतं घनवद्‍भृशम् ।
द्विपं कुवलयापीडं समारुह्य मदोत्कटः ॥ २० ॥
चाणूरमुष्टिकाद्यैश्च केशिव्योमवृषासुरैः ।
सहसा दंशितः कंसः प्रययौ रंगपत्तनम् ॥ २१ ॥
यदूनां च कुरूणां च बलयोस्तु परस्परम् ।
बाणैः खड्गैः त्रिशूलैश्च घोरं युद्धं बभूव ह ॥ २२ ॥
बाणांधकारे संजाते कंसो नीत्वा महागदाम् ।
विवेश कुरुसेनासु वने वैश्वानरो यथा ॥ २३ ॥
कांश्चिद्वीरान् सकवचान् गदया वज्रकल्पया ।
पातयामास भूपृष्ठे वज्रेणेंद्रो यथा गिरिम् ॥ २४ ॥
रथान्ममर्द पादाभ्यां पार्ष्णिघातेन घोटकान् ।
गजे गजं ताडयित्वा गजान्प्रोन्नीय चांघ्रिषु ॥ २५ ॥
स्कन्धयोः कक्षयोर्धृत्वा सनीडान् रत्‍नकंबलान् ।
कांश्चिद्‌बलाद्‌‌भ्रामयित्वा चिक्षेप गगने बली ॥ २६ ॥
गजाञ्छुण्डासु चोन्नीय लोलघंटासमावृतान् ।
चिक्षेप संमुखे राजन् मृधे व्योमासुरो बली ॥ २७ ॥
रथान् गृहीत्वा साश्वांश्च शृङ्गाभं भ्रामयन्मुहुः ।
चिक्षेप दिक्षु बलवान् दैत्यो दुष्टो वृषासुरः ॥ २८ ॥
बलात्पश्चिमपादाभ्यां वीरानश्वानितस्ततः ।
पातयामास राजेंद्र केशी दैत्याधिपो बली ॥ २९ ॥
एवं भयंकरं युद्धं दृष्ट्वा वै कुरुसैनिकाः ।
शेषा भयातुरा वीरा जग्मुस्तेऽपि दिशो दश ॥ ३० ॥
रंगोजिं सकुटुम्बं तं नीत्वा कंसोऽथ दैत्यराट् ।
मथुरां प्रययौ वीरो नादयन् दुंदुभीञ्छनैः ॥ ३१ ॥
श्रुत्वा पराजयं स्वस्य कौरवाः क्रोधमूर्छिताः ।
दैत्यानां समयं दृष्ट्वा सर्वे वै मौनमास्थिताः ॥ ३२ ॥
पुरं बर्हिषदं नाम व्रजसीम्नि मनोहरम् ।
रंगोजये ददौ कंसो दैत्यानामधिपो बली ॥ ३३ ॥
वासं चकार तत्रैव रंगोजिर्गोपनायकः ।
बभूवुस्तस्य भार्यासु जालंधर्यो हरेर्वरात् ॥ ३४ ॥
परिणीता गोपजनै रूपयौवनभूषिताः ।
जारधर्मेण सुस्नेहं श्रीकृष्णे ताः प्रचक्रिरे ॥ ३५ ॥
चैत्रमासे महारासे ताभिः साकं हरिः स्वयम् ।
पुण्ये वृन्दावने रम्ये रेमे वृन्दावनेश्वरः ॥ ३६ ॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
जालंधर्युपाख्यानं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP