श्रीगर्गसंहिता

गिरिराजखण्ड - अष्टमोऽध्यायः

गिरिराजविभूतिवर्णनम् -


श्रीबहुलाश्व उवाच -
केषु केषु तदङ्गेषु किं किं तीर्थं समाश्रितम् ॥
वद देव महादेव त्वं परावरवित्तमः ॥१॥
श्रीनारद उवाच -
यत्र यस्य प्रसिद्धिः स्यात्तदंगं परमं विदुः ॥
क्रमतो नास्त्यंगचयो गिरिराजस्य मैथिल ॥२॥
यथा सर्वगतं ब्रह्म सर्वांगानि च तस्य वै ॥
विभूतेर्भावतः शश्वत्तथा वक्ष्यामि मानद ॥३॥
शृङ्गारमण्डलस्याधो मुखं गोवर्धनस्य च ॥
यत्रान्नकूटं कृतवान् भगवान् व्रजवासिभिः ॥४॥
नेत्रे वै मानसी गंगा नासा चन्द्रसरोवरः ॥
गोविन्दकुण्डो ह्यधरश्चिबुकं कृष्णकुण्डकः ॥५॥
राधाकुण्डं तस्य जिह्वा कपोलौ ललितासरः ॥
गोपालकुण्डः कर्णश्च कर्णान्तः कुसुमाकरः ॥६॥
मौलिचिह्ना शीला तस्य ललाटं विद्धि मैथिल ॥
शिरश्चित्रशिला तस्य ग्रीवा वै वादनी शिला ॥७॥
कांदुकं पार्श्वदेशञ्च औष्णिषं कटिरुच्यते ॥
द्रोणतीर्थं पृष्ठदेशे लौकिकं चोदरे स्मृतम् ॥८॥
कदम्बखण्डमुरसि जीवः शृङ्गारमण्डलम् ॥
श्रीकृष्णपादचिह्नं तु मनस्तस्य महात्मनः ॥९॥
हस्तचिह्नं तथा बुद्धिरैरावतपदं पदम् ॥
सुरभेः पादचिह्नेषु पक्षौ तस्य महात्मनः ॥१०॥
पुच्छकुण्डे तथा पुच्छं वत्सकुंडे बलं स्मृतम् ॥
रुद्रकुण्डे तथा क्रोधं कामं शक्रसरोवरे ॥११॥
कुबेरतीर्थे चोद्योगं ब्रह्मतीर्थे प्रसन्नताम् ॥
यमतीर्थे ह्यहंकारं वदन्तीत्थं पुराविदः ॥१२॥
एवमंगानि सर्वत्र गिरिराजस्य मैथिल ॥
कथितानि मया तुभ्यं सर्वपापहराणि च ॥१३॥
गिरिराजविभूतिं च यः शृणोति नरोत्तमः ॥
स गच्छेद्धाम परमं गोलोकं योगिदुर्लभम् ॥१४॥
समुत्थितोऽसौ हरिवक्षसो गिरि-
     र्गोवर्धनो नाम गिरीन्द्रराजराट् ॥
समागतो ह्यत्र पुलस्त्यतेजसा
     यद्दर्शनाज्जन्म पुनर्न विद्यते ॥१५॥

इति श्रीगर्गसंहितायां गिरिराजखण्डे श्रीनारदबहुलाश्वसंवादे
गिरिराजविभूतीवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP