श्रीगर्ग संहिता - वृंदावनखण्डः - द्वाविंशोऽध्यायः

श्रीगर्गसंहिता

वृंदावनखण्ड - द्वाविंशोऽध्यायः

रासक्रीडा वर्णनम् -


श्रीनारद उवाच -
अथ कृष्णगुणान् रम्यान् समेताः सर्वयोषितः ।
जगुस्तालस्वरैः रम्यैः कृष्णागमनहेतवे ॥ १ ॥
गोप्य ऊचुः -
लोकाभिराम जनभूषण विश्वदीप
     कंदर्पमोहन जगद्‌वृजिनार्तिहारिन् ।
आनंदकंद यदुनंदन नंदसूनो
     स्वच्छन्दपद्ममकरंद नमो नमस्ते ॥ २ ॥
गोविप्रसाधुविजयध्वज देववंद्य
     कंसादिदैत्यवधहेतुकृतावतार ।
श्रीनंदराजकुलपद्मदिनेश देव
     देवादिमुक्तजनदर्पण ते जयोऽस्तु ॥ ३ ॥
गोपालसिंधुपरमौक्तिक रूपधारिन्
     गोपालवंशगिरिनीलमणे परात्मन् ।
गोपालमंडलसरोवरकञ्जमूर्ते
     गोपालचन्दनवने कलहंसमुख्य ॥ ४ ॥
श्रीराधिकावदनपंकज षट्पदस्त्वं
     श्रीराधिकावदनचंद्रचकोररूपः ।
श्रीराधिकाहृदयसुन्दरचन्द्रहार
     श्रीराधिकामधुलताकुसुमाकरोऽसि ॥ ५ ॥
यो रासरंगनिजवैभवभूरिलीला
     यो गोपिकानयनजीवनमूलहारः ।
मानं चकार रहसा किल मानवत्यां
     सोऽयं हरिर्भवतु नो नयनाग्रगामी ॥ ६ ॥
यो गोपिकासकलयूथमलंचकार
     वृंदावनं च निजपादरजोभिरद्रिम् ।
यः सर्वलोकविभवाय बभूव भूमौ
     तं भूरिलीलमुरगेंद्रभुजं भजामः ॥ ७ ॥
चंद्रं प्रतप्तकिरणज्वलनं प्रसन्नं
     सर्वं वनांतमसिपत्रवनप्रवेशम् ।
बाणं प्रभंजनमतीव सुमन्दयानं
     मन्यामहे किल भवन्तमृते व्यथार्ताः ॥ ८ ॥
सौदासराजमहिषीविरहादतीव
     जातं सहस्रगुणितं नलपट्टराज्ञ्याः ।
तस्मात्तु कोटिगुणितं जनकात्मजायाः
     तस्मादनंतमतिदुःखमलं हरे नः ॥ ९ ॥
श्रीउद्धवः सकलभक्तशिरोमणीशः
     त्वत्पादपद्मवरमुख्यधिकारकारी ।
तस्माद्वयं च चरणौ शरणं गताः स्मः
     श्रीमन् कृपां क्रु शण्यपदे शरण्ये ॥ १० ॥
श्रीनारद उवाच -
इत्थं राज रुदन्तीनां गोपीनां कमलेक्षणः ।
आविर्बभूव सहसा स्वयमर्थमिवात्मनः ॥ ११ ॥
स्फुरत्किरीटकेयूर कुंडलांगदभूषणम् ।
स्निग्धामलसुगन्धाढ्यनीलकुंचितकुंतलम् ॥ १२ ॥
आगतं वीक्ष्य युगपत् समुत्तस्थुर्व्रजांगनाः ।
तन्मात्राणि च यं दृष्ट्वा यथा ज्ञानेंद्रियाणि च ॥ १३ ॥
हरिर्ननर्त तन्मध्ये वंशीवादनतत्परः ।
राधया सहितो राजन् यथा रत्या रतीश्वरः ॥ १४ ॥
यावतीर्गोपिकाः सर्वास्तावद्‌रूपधरो हरिः ।
गच्छन् ताभिर्व्रजे रेमे स्वावस्थाभिर्मनो यथा ॥ १५ ॥
वनोद्देशे स्थितं कृष्णं गतदुःखा व्रजांगनाः ।
कृतांजलिपुटा ऊचुर्गिरा गद्‌गदया हरिम् ॥ १६ ॥
गोप्य ऊचुः -
क्व गतस्त्वं वद हरे त्यक्त्वा गोपीगणो महान् ।
सर्वं जगत्तृणीकृत्य त्वत्पादे प्राप्तमानसम् ॥ १७ ॥
श्रीभगवानुवाच - हे गोप्यः पुष्करद्वीपे हंसो नाम महामुनिः ।
समुद्रे दधिमंडोदे ततापान्तर्गतस्तपः ॥ १८ ॥
चकाराहैतुकीं भक्तिं मम ध्यानपरायणः ।
व्यतीतं तस्य तपतो गोप्यो मन्वन्तरद्वयम् ॥ १९ ॥
तमद्यैवाग्रसन्मत्स्यो योजनार्धवपुर्धरः ।
तन्निर्जगार पौंड्रस्तु मत्स्यरूपधरोऽसुरः ॥ २० ॥
एवं संप्राप्तकष्टस्य हंसस्यापि मुरेरहम् ।
गत्वाऽथ शीघ्रेण तयोः शिरश्छित्वाऽरिणा मुनिम् ॥ २१ ॥
मोचयित्वाऽथ गतवान् श्वेतद्वीपे व्रजांगनाः ।
क्षीराब्धौ शेषपर्यंके शयनं तु मया कृतम् ॥ २२ ॥
दुःखिता भवतीर्ज्ञात्वा निद्रां त्यक्त्वा ततः प्रियाः ।
सहसा भक्तवश्योऽहं पुनरागतवानिह ॥ २३ ॥
जानन्ति सन्तः समदर्शोनि ये
     दान्ता महान्तः किल नैरपेक्ष्याः ।
ते नैरपेक्ष्यं परमं सुखं मे
     ज्ञानेन्द्रियादीनि यथा रसादीन् ॥ २४ ॥
गोप्य ऊचुः -
क्षीराब्दौ शेषपर्यंके यद्‌रूपं च त्वया धृतम् ।
तद्‌रूपदर्शनं देहि यदि प्रीतोऽसि माधव ॥ २५ ॥
श्रीनारद उवाच -
तथाऽस्तु चोक्त्वा भगवान् गोपीव्यूहस्य पश्यतः ।
दधाराष्टभुजं रूपं श्रीराधारूपमेव च ॥ २६ ॥
तत्र क्षीरसमुद्रोऽभूल्लोलकल्लोलमण्डितः ।
दिव्यानि रत्‍नसौधानि बभूवुर्मंगलानि च ॥ २७ ॥
तत्र शेषो बिसश्वेतः कुण्डलीभूतसंस्थितः ।
बालार्कमौलिसाहस्रफणाच्छत्रविराजितः ॥ २८ ॥
तस्मिन् वै शेषपर्यङ्के सुखं सुष्वाप माधवः ।
तस्य श्रीरूपिणी राधा पादसेवां चकार ह ॥ २९ ॥
तद्‌रूपं सुंदरं दृष्ट्वा कोटिमार्तण्डसन्निभम् ।
नत्वा गोपीगणाः सर्वे विस्मयं परमं गताः ॥ ३० ॥
गोपीभ्यो दर्शनं दत्तं यत्र कृष्णेन मैथिल ।
तत्र क्षेत्रं महापुण्यं जातं पापप्रणाशनम् ॥ ३१ ॥
अथ गोपीगणैः सार्धं यमुनामेत्य माधवः ।
कालिन्दीजलवेगेषु जलकेलिं चकार ह ॥ ३२ ॥
राधाकराल्लक्षदलं पद्मं पीताम्बरं तथा ।
धावन् जलेषु गतवान् प्रहसन् माधवः स्वयम् ॥ ३३ ॥
राधा हरेः पीतपटं वशीवेत्रस्फुरत्‌प्रभम् ।
गृहीत्वा प्रसहन्ती सा गच्छन्ती यमुनाजले ॥ ३४ ॥
वंशीं देहीति वदतः श्रीकृष्णस्य महात्मनः ।
राधा जगाद कमलं वासो देहीति माधव ॥ ३५ ॥
कृष्णो ददौ राधिकायै पद्ममंबरमेव च ।
राधा ददौ पीतपटं वेत्रं वंशीं महात्मने ॥ ३६ ॥
अथ कृष्णः कलं गायन् मालामाजानुलंबिताम् ।
वैजन्तीमादधानः श्रीभाण्डीरं गजाम ह ॥ ३७ ॥
प्रियायास्तत्र शृङ्गारं चकार कुशलेश्वरः ।
पत्रावलीयावकाग्रैः पुष्पैः कंजलकुंकुमैः ॥ ३८ ॥
चंदनागुरुकस्तूरी केसराद्यैर्हरेर्मुखे ।
पत्रं चकार शृङ्गारे मनोज्ञं कीर्तिनन्दिनी ॥ ३९ ॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे
रासक्रीडावर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP