श्रीगर्ग संहिता - वृंदावनखण्डः - पञ्चदशोऽध्यायः

श्रीगर्गसंहिता

वृंदावनखण्ड - पञ्चदशोऽध्यायः

राधाकृष्णप्रेमोद्योगवर्णनम् -


श्रीनारद उवाच -
इदं मया ते कथितं कालियस्यापि मर्दनम् ।
श्रीकृष्णचरितं पुण्यं किं भूयः श्रोतुमिच्छसि ॥ १ ॥
बहुलाश्व उवाच -
श्रीकृष्णस्य कथां श्रुत्वा भक्तस्तृप्तिं न याति हि ।
यथाऽमरः सुधां पीत्वा यथालिः पद्मकर्णिकाम् ॥ २ ॥
रासं कर्तुं हरौ जाते शिशुरूपे महात्मनि ।
भांडीरे देववागाह श्रीराधां खिन्नमानसाम् ॥ ३ ॥
शोचं मा कुरु कल्याणि वृंदारण्ये मनोहरे ।
मनोरथस्ते भविता श्रीकृष्णेन महात्मनि ॥ ४ ॥
इत्थं देवगिरा प्रोक्तो मनोरथमहार्णवः ।
कथं बभूव भगवान् वृंदारन्ये मनोहरे ॥ ५ ॥
कथं श्रीराधया सार्धं रासक्रीडां मनोहराम् ।
चकार वृन्दकारण्ये परिपूर्णतमः स्वयम् ॥ ६ ॥
श्रीनारद उवाच -
साधु पृष्टं त्वया राजन् भगवच्चरितं शुभम् ।
गुप्तं वदामि देवैश्च लीलाख्यानं मनोहरम् ॥ ७ ॥
एकदा मुख्यसख्यौ द्वे विशाखाललिते शुभे ।
वृषभानोर्गृहं प्राप्य तां राधां जग्मतू रहः ॥ ८ ॥
सख्यावूचतुः -
यं चिन्तयसि राधे त्वं यद्गुणं वदसि स्वतः ।
सोऽपि नित्यं समायाति वृषभानुपुरेऽर्भकैः ॥ ९ ॥
प्रेक्षणीयस्त्वया राधे दर्शनीयोऽतिसुन्दरः ।
पश्चिमायां निशीथिन्यां गोचारणविनिर्गतः ॥ १० ॥
राधोवाच -
लिखित्वा तस्य चित्रं हि दर्शयाशु मनोहरम् ।
तर्हि तत्प्रेक्षणं पश्चात्करिष्यामि न संशयः ॥ ११ ॥
श्रीनारद उवाच -
अथ सख्यौ व्यलिखतां चित्रं नंदशिशोः शुभम् ।
नवयौवनमाधुर्यं राधायै ददतुस्त्वरम् ॥ १२ ॥
तद्‌दृष्ट्वा हर्षिता राधा कृष्णदर्शनलालसा ।
चित्रं करे प्रपश्यन्ती सुष्वापानंदसंकुला ॥ १३ ॥
ददर्श कृष्णं भवने शयाना
     नृत्यन्तमाराद्‌वृषभानुपुत्री ॥ १४ ॥
तदैव राधा शयनात्समुत्थिता
     परस्य कृष्णस्य वियोगविह्वला ।
संचिन्तयन्ती कमनीयरूपिणं
     मेने त्रिलोकीं तृणवद्‌विदेहराट् ॥ १५ ॥
तर्ह्याव्रजन्तं स्ववनाद्‌व्रजेश्वरं
     संकोचवीथ्यां वृषाभानुपत्तने ।
गवाक्षमेत्याशु सखीप्रदर्शितं
     दृष्ट्वा तु मूर्च्छां समवाप सुंदरी ॥ १६ ॥
कृष्णोऽपि दृष्ट्वा वृषभानुनन्दिनीं
     सुरूपकौशल्ययुतां गुणाश्रयाम् ।
कुर्वन्मनो रन्तुमतीव माधवो
     लीलातनुः स प्रययौ स्वमन्दिरम् ॥ १७ ॥
एवं ततः कृष्णवियोगविह्वलां
     प्रभूतकामज्वरखिन्नमानसाम् ।
संवीक्ष्य राधां वृषभानुनन्दिनीं
     उवाच वाचं ललिता सखी वरा ॥ १८ ॥
ललितोवाच -
कथं त्वं विह्वला राधे मूर्च्छिताऽतिव्यथां गता ।
यदीच्छसि हरिं सुभ्रु तस्मिन् स्नेहं दृढं कुरु ॥ १९ ॥
लोकस्यापि सुखं सर्वमधिकृत्यास्ति सांप्रतम् ।
दुःखाग्निहृत्प्रदहति कुंभकाराग्निवत् शुभे ॥ २० ॥
श्रीनारद उवाच -
ललितायाश्च ललितं वचं श्रुत्वा व्रजेश्वरी ।
नेत्रे उन्मील्य ललितां प्राह गद्‌गदया गिरा ॥ २१ ॥
राधोवाच -
व्रजालंकारचरणौ न प्राप्तौ यदि मे किल ।
कदचिद्विग्रहं तर्हि न हि स्वं धारयाम्यहम् ॥ २२ ॥
श्रीनारद उवाच -
इति श्रुत्वा वचस्तस्या ललिता भयविह्वला ।
श्रीकृष्णपार्श्वं प्रययौ कृष्णातीरे मनोहरे ॥ २३ ॥
माधवीजालसंयुक्ते मधुरध्वनिसंकुले ।
कदम्बमूले रहसि प्राह चैकाकिनं हरिम् ॥ २४ ॥
ललितोवाच -
यस्मिन् दिने च ते रूपं राधया दृष्टमद्‌भुतम् ।
तद्दीनात्स्तंभतां प्राप्ता पुत्रिकेव न वक्ति किम् ॥ २५ ॥
अलंकारस्त्वर्चिरिव वस्त्रं भर्जरजो यथा ।
सुगंधि कटुवद्यस्या मन्दिरं निर्जनं वनम् ॥ २६ ॥
पुष्पं बाणं चंद्रबिंबं विषकंदमवेहि भोः ।
तस्यै संदर्शनं देहि राधायै दुःखनाशनम् ॥ २७ ॥
ते साक्षिणं किं विदितं न भूतले
सृजस्यलं पासि हरस्यथो जगत् ।
यदा समानोऽसि जनेषु सर्वतः
तथापि भक्तान् भजसे परेश्वर ॥ २८ ॥
श्रीनारद उवाच -
इति श्रुत्वा हरिः साक्षाल्ललितं ललितावचः ।
उवाच भगवान् देवो मेघगंभीरया गिरा ॥ २९ ॥
श्रीभगवानुवाच -
सर्वं हि भावं मनसः परस्परं
     नह्येकतो भामिनि जायते तअतः ।
प्रेमैव कर्तव्यमतो मयि स्वतः
     प्रेम्णा समानं भुवि नास्ति किंचित् ॥ ३० ॥
यथा हि भाण्डीरवने मनोरथो
     बभूव तस्या हि तथा भविष्यति ।
अहैतुकं प्रेम च सद्‌भिराश्रितं
     तच्चापि सन्तः किल निर्गुणं विदुः ॥ ३१ ॥
ये राधिकायां मयि केशवे मनाक्
     भेदं न पश्यन्ति हि दुग्धशौक्लवत् ।
त एव मे ब्रह्मपदं प्रयान्ति
     तदहैतुकस्फूर्जितभक्तिलक्षणाः ॥ ३२ ॥
ये राधिकायां मयि केशवे हरौ
     कुर्वन्ति भेदं कुधियो जना भुवि ।
ते कालसूत्रं प्रपतन्ति दुःखिता
रम्भोरु यावत्किल चंद्रभास्करौ ॥ ३३ ॥
श्रीनारद उवाच -
इत्थं श्रुत्वा वचः कृत्स्नं नत्वा तं ललिता सखी ।
राधां समेत्य रहसि प्राह प्रहसितानना ॥ ३४ ॥
ललितोवाच -
त्वमिच्छसि यथा कृष्णं तथा त्वां मधुसूदनः ।
युवयोर्भेदरहितं तेजस्त्वैकं द्विधा जनैः ॥ ३५ ॥
तथापि देवि कृष्णाय कर्म निष्कारणं कुरु ।
येन ते वांछितं भूयाद्‌भक्त्या परमया सति ॥ ३६ ॥
श्रीनारद उवाच -
इति श्रुत्वा सखीवाक्यं राधा रासेश्वरी नृप ।
चंद्राननां प्राह सखीं सर्वधर्मविदां वराम् ॥ ३७ ॥
श्रीकृष्णस्य प्रसन्नार्थं परं सौभाग्यवर्धनम् ।
महापुण्यं वांछितदं पूजनं वद कस्यचित् ॥ ३८ ॥
त्वया भद्रे धर्मशास्त्रं गर्गाचार्यमुखाच्छ्रुतम् ।
तस्माद्‌व्रतं पूजनं वा ब्रूहि मह्यं महामते ॥ ३९ ॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे
राधाकृष्णप्रेमोद्योगवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP