श्रीगर्गसंहिता
वृंदावनखण्ड - द्वादशोऽध्यायः
कालियमर्दनं तथा दावाग्निपानम् -
बलं विनाथ गोपालैश् चारयन् गा हरिः स्वयम् ।
कालिन्दीकूलमागत्य ययौ वारिविषावृतम् ॥ १ ॥
कालियेन फणीन्द्रेण जलं यत्र विदूषितम् ।
पीत्वा निपेतुर्वसवो गावो गोपा जलान्तिके ॥ २ ॥
तदा तान् जीवयामास दृष्ट्या पीयूषपूर्णया ।
आर्द्रचित्तो हरिः साक्षाद्भगवान् वृजिनार्दनः ॥ ३ ॥
कटौ पीतपटं बद्ध्वा नीपमारुह्य माधवः ।
पपातोत्तुंगविटपात्तत्तोये विषदूषिते ॥ ४ ॥
उच्चचाल जलं दुष्टं कृष्णसंघातघूर्णितम् ।
तत्सर्पमन्दिरे नद्यां भृंगीभूतं बभूव ह ॥ ५ ॥
तदैव कालियः क्रुद्धः फणी फणशतावृतः ।
दशन्दन्तैश्च भुजया चच्छाद नृप माधवम् ॥ ६ ॥
कृष्णो दीर्घं वपुः कृत्वा बन्धनान्निर्गतश्च तम् ।
पुच्छे गृहीत्वा सर्पेंद्रं भ्रामयित्वा त्वितस्ततः ॥ ७ ॥
जलेनिपात्य हस्ताभ्यां चिक्षेपाशु धनुःशतम् ।
पुनरुत्थाय सर्पेन्द्रो लेलिहानो भयंकरः ॥ ८ ॥
वामहस्ते हरिं सर्पो रुषा जग्राह माधवम् ।
हरिर्दक्षिणहस्तेन गृहीत्वा तं महाखलम् ॥ ९ ॥
तज्जले पोथयामास सुपर्ण इव पन्नगम् ।
सर्पो मुखशतं दीर्घं प्रसार्य पुनरागतः ॥ १० ॥
पुच्छे गृहीत्वा तं कृष्णः चकर्षाशु धनुःशतम् ।
कृष्णहस्ताद्विनिष्क्रम्य सर्पस्तं व्यदशत्पुनः ॥ ११ ॥
तताड मुष्टिना सर्पं त्रैलोक्यबलधारकः ।
कृष्णमुष्टिप्रहारेण मूर्च्छितो विगतस्मृतिः ॥ १२ ॥
नतं कृत्वाऽऽननशतं स्थितोऽभूत् कृष्णसंमुखे ।
आरुह्य तत्फणिशतं मणिवृन्दमनोहरम् ॥ १३ ॥
ननर्त नटवत्कृष्णो नटवेषो मनोहरः ।
गायन् सप्तस्वरै रागं संगीतं च सतालकम् ॥ १४ ॥
पुष्पैर्देवेषु वर्षत्सु तांडवे नटराजवत् ।
वादयन् स मुदा वीणाऽऽनकदुन्दुभिवेणुकान् ॥ १५ ॥
सतालं पदविन्यासैस्तत्फणां सोज्ज्वलान् बहून् ।
बभंज श्वसतः कृष्णः कालियस्य महात्मनः ॥ १६ ॥
तदैव नागपत्न्यस्ता आगता भयविह्वलाः ।
नत्वा कृष्णपदं देवमूचुर्गद्गदया गिरा ॥ १७ ॥
नागपत्न्य ऊचुः -
नमः श्रीकृष्णचंद्रय गोलोकपतये नमः ।
असंख्यांडाधिपते परिपूर्णतमाय ते ॥ १८ ॥
श्रीराधापतये तुभ्यं व्रजाधीशाय ते नमः ।
नमः श्रीनंदपुत्राय यशोदानंदनाय ते ॥ १९ ॥
पाहि पाहि परदेव पन्नगं
त्वत्परं न शरणं जगत्त्रये ।
त्वम् पदात्परतरो हरिः स्वयं
लीलया किल तनोषि विग्रहम् ॥ २० ॥
श्रीनारद उवाच -
नागपत्नीस्तुतः कृष्णः कालियं विगतस्मयम् ।
विससर्ज हरिः साक्षात्परिपूर्णतमः स्वयम् ॥ २१ ॥
पाहीति प्रवदंतं तं कालियं भगवान् हरिः ।
प्रणतं संमुखे प्राप्तं प्राह देवो जनार्दनः ॥ २२ ॥
श्रीभगवानुवाच -
द्वीपं रमणकं गच्छ सकलत्रसुहृद्वृतः ।
सुपर्णोद्यतनात्त्वां वै नाद्यान् मत्पादलांछितम् ॥ २३ ॥
श्रीनारद उवाच -
सर्पः कृष्णं तु संपूज्य परिक्रम्य प्रणम्य तम् ।
कलत्रपुत्रसहितो द्वीपं रमणकं ययौ ॥ २४ ॥
अथ श्रुत्वा कालियेन संग्रस्तं नंदनंदनम् ।
तत्राजग्मुर्गोपगणा नंदाद्याः सकला जनाः ॥ २५ ॥
जलाद्विनिर्गतं कृष्णं दृष्ट्वा मुमुदिरे जनाः ।
आश्लिष्य स्वसुतं नंदः परां मुदमवाप ह ॥ २६ ॥
सुतं लब्ध्वा यशोदा सा सुतकल्याणहेतवे ।
ददौ दानं द्विजातिभ्यः स्नेहस्नुतपयोधरा ॥ २७ ॥
तत्रैव शयनं चक्रुर्गोपाः सर्वे परिश्रमात् ।
कालिंदीनिकटे राजन् गोपीगोपगणैः सह ॥ २८ ॥
वेणुसंघर्षणोद्भूतो दावाग्निः प्रलयाग्निवत् ।
निशीथे सर्वतो गोपान् दग्धुमागतवान् स्फुरन् ॥ २९ ॥
गोपा वयस्याः श्रीकृष्णं सबलं शरणं गताः ।
नत्वा कृतांजलिं कृत्वा तमूचुर्भयकातराः ॥ ३० ॥
गोपा ऊचुः -
कृष्ण कृष्ण महाबाहो शरणागतवत्सल ।
पाहि पाहि वने कष्टाद्दावाग्नेः स्वजनान् प्रभो ॥ ३१ ॥
श्रीनारद उवाच -
स्वलोचनानि माभैष्ट न्यमीलयत माधवः ।
इत्युक्त्वा वह्निमपिबद्देवो योगेश्वरेश्वरः ॥ ३२ ॥
प्रातर्गोपगणैः सार्द्धं विस्मितैर्नंदनंदनः ।
गोगणैः सहितः श्रीमद्व्रजमंडलमाययौ ॥ ३३ ॥
इति श्रीगर्गसंहितायां वृन्दावनखण्डे कालियदमनं दावाग्निपानं नाम द्वादशोऽध्यायः ॥ १२ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|