श्रीगर्ग संहिता - गोलोकखण्डम् - एकादशोऽध्यायः

श्रीगर्गसंहिता

गोलोकखण्डम् - एकादशोऽध्यायः

कृष्णचन्द्रजन्मवर्णनम् -


श्रीनारद उवाच -
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् स्वयम् ।
विवेश वसुदेवस्य मनः पूर्वं परात्परः ॥ १ ॥
सूर्येन्दुवह्निसंकाशो वसुदेवो महामनाः ।
बभूवात्यन्तमहसा साक्षाद्‌यज्ञ इवापरः ॥ २ ॥
देवक्यामागते कृष्णे सर्वेषामभयंकरे ।
रराज तेन सा गेहे घने सौदामिनी यथा ॥ ३ ॥
तेजोवतीं च तां वीक्ष्य कंसः प्राह भयातुरः ।
प्राप्तोऽयं प्राणहन्ता मे पूर्वमेषा न चेदृशी ॥ ४ ॥
जातमात्रं हनिष्यामीत्युक्त्वाऽऽस्ते भयविह्वलः ।
पश्यन्सर्वत्र च हरिं पूर्वशत्रुं विचिन्तयन् ॥ ५ ॥
अहो वैरानुबन्धेन साक्षात्कृष्णोऽपि दृश्यते ।
तस्माद्वैरं प्रकुर्वन्ति कृष्णप्राप्त्यर्थमासुराः ॥ ६ ॥
अथ ब्रह्मादयो देवा मुनीन्द्रैरस्मदादिभिः ।
शौरिगेहोपरि प्राप्ताः स्तवं चक्रुः प्रणम्य तम् ॥ ७ ॥
देवा ऊचुः -
यज्जागरादिषु भवेषु परं ह्यहेतु-
     र्हेतुः स्विदस्य विचरन्ति गुणाश्रयेण ।
नैतद्विशन्ति महदिन्द्रियदेवसंघा-
     स्तस्मै नमोऽग्निमिव विस्तृतविस्फुलिंगाः ॥ ८ ॥
नैवेशितुं प्रभुरयं बलिनां बलीयान्
     माया न शब्द उत नो विषयीकरोति ।
तद्‌ब्रह्म पूर्णममृतं परमं प्रशान्तं
     शुद्धं परात्परतरं शरणं गताः स्मः ॥ ९ ॥
अंशांशकांशककलाद्यवतारवृन्दै-
     रावेशपूर्णसहितैश्च परस्य यस्य ।
सर्गादयः किल भवन्ति तमेव कृष्णं
     पूर्णात्परं तु परिपूर्णतमं नताः स्मः ॥ १० ॥
मन्वन्तरेषु च युगेषु गतागतेषु
     कल्पेषु चांशकलया स्ववपुर्बिभर्षि ।
अद्यैव धाम परिपूर्णतमं तनोषि
     धर्मं विधाय भुवि मंगलमातनोषि ॥ ११ ॥
यद्‌दुर्लभं विशदयोगिभिरप्यगम्यं
     गम्यं द्रवद्‌भिरमलाशयभक्तियोगैः ।
आनंदकंद चरतस्तव मन्दयानं
     पादारविन्दमकरन्दरजो दधामः ॥ १२ ॥
पूर्वं तथात्र कमनीयवपुष्मयं त्वां
     कंदर्पकोटिशतमोहनमद्‌भुतं च ।
गोलोकधामधिषणद्युतिमादधानं
     राधापतिं धरणिधुर्यधनं दधामः ॥ १३ ॥
श्रीनारद उवाच -
नत्वा हरिं तदा देवा ब्रह्माद्या मुनिभिः सह ।
गायन्तस्तं प्रशंसन्तः स्वधामानि ययुर्मुदा ॥ १४ ॥
अथ मैथिलराजेन्द्र जन्मकाले हरेः सति ।
अंबरं निर्मलं भूतं निर्मलाश्च दिशो दश ॥ १५ ॥
उज्ज्वलास्तारका जाताः प्रसन्नं भूमिमंडलम् ।
नदा नद्यः समुद्राश्च प्रसन्नापः सरोवराः ॥ १६ ॥
सहस्रदलपद्मानि शतपत्राणि सर्वतः ।
विचकानि मरुत्स्पर्शैः पतद्‌गन्धिरजांसि च ॥ १७ ॥
तेषु नेदुर्मधुकरा नदन्तश्चित्रपक्षिणः ।
शीतला मन्दयानाश्च गंधाक्ता वायवो ववुः ॥ १८ ॥
ऋद्धा जनपदा ग्रामा नगरा मंगलायनाः ।
देवा विप्रा नगा गावो बभूवुः सुखसंवृताः ॥ १९ ॥
देवदुन्दुभयो नेदुर्जयध्वनिसमाकुलाः ।
यत्र तत्र महाराज सर्वेषां मंगलं परम् ॥ २० ॥
विद्याधराश्च गंधर्वाः सिद्धकिन्नरचारणाः ।
जगुः सुनायका देवास्तुष्टुवुः स्तुतिभिः परम् ॥ २१ ॥
ननृतुर्दिवि गन्धर्वा विद्याधर्य्यो मुदान्विताः ।
पारिजातकमन्दारमालतीसुमनांसि च ॥ २२ ॥
मुमुचुर्देवमुख्याश्च गर्जन्तश्च घना जले ।
भाद्रे बुधे कृष्णपक्षे धात्रर्क्षे हर्षणे वृषे ।
कर्णेऽष्टम्यामर्द्धरात्रे नक्षत्रेशमहोदये ॥ २३ ॥
अन्धकारावृते काले देवक्यां शौरिमन्दिरे ।
आविरासीद्धरिः साक्षादरण्यामध्वरेऽग्निवत् ॥ २४ ॥
स्फुरदक्षविचित्रहारिणं
     विलसत्कौस्तुभरत्‍नधारिणम् ।
परिधिद्युतिनूपुरांगदं
     धृतबालार्ककिरीटकुंडलम् ॥ २५ ॥
चलदद्‌भुतवन्हिकंकणं
     तडिदूर्जितगुणमेखलाञ्चितम् ।
मधुभृद्‌ध्वनिपद्ममालिनं
     नवजांबूनददिव्यवाससम् ॥ २६ ॥
सतडित्‌घनदिव्यसौभगं
     चलनीलालकवृन्दभृन्मुखम् ।
चलदंशु तमोहरं परं
     शुभदं सुन्दरमंबुजेक्षणम् ॥ २७ ॥
कृतपत्रविचित्रमंडनं
     सततं कोटिमनोजमोहनम् ।
परिपूर्णतमं परात्परं
     कलवेणुध्वनिवाद्यतत्परम् ॥ २८ ॥
तमवेक्ष्य सुतं यदूत्तमो
     हरिजन्मोत्सवफुल्ललोचनः ।
अथ विप्रजनेषु चाशु वै
     नियुतं सन्मनसा गवां ददौ ॥ २९ ॥
हरिमानकदुंदुभिः स्तवैः
     स्तवनं तं प्रणिपत्य विस्मितः ।
अकरोदुदितप्रभूदयो
     गतभीः सूतिगृहे कृतांजलिः ॥ ३० ॥
श्रीवसुदेव उवाच -
एको यः प्रकृतिगुणैरनेकधासि
     हर्ता त्वं जनक उतास्य पालकस्त्वम् ।
निर्लिप्तः स्फटिक इवाद्य देहवर्णै-
     स्तस्मै श्रीभुवनपते नमामि तुभ्यम् ॥ ३१ ॥
एधःसु त्वनल इवात्र वर्तमानो
     यो‍ऽन्तस्थो बहिरपि चाम्बरं यथा हि ।
आधारो धरणिरिवास्य सर्वसाक्षी
     तस्मै ते नम इव सर्वगो नभस्वान् ॥ ३२ ॥
भूभारोद्‌भटहरणार्थमेव जातो
     गोदेवद्विजनिजवत्सपालकोऽसि ।
गेहे मे भुवि पुरुषोत्तमोत्तमस्त्वं
     कंसान्मां भुवनपते प्रपाहि पापात् ॥ ३३ ॥
श्रीनारद उवाच -
परिपूर्णतमं साक्षाच्छ्रीकृष्णं श्यामसुन्दरम् ।
ज्ञात्वा नत्वाथ तं प्राह देवकी सर्वदेवता ॥ ३४ ॥
श्रीदेवक्युवाच -
हे कृष्ण हे विगणिताण्डपते परेश
     गोलोकधामधिषणध्वज आदिदेव ।
पूर्णेश पूर्ण परिपूर्णतम प्रभो मां
     त्वं पाहि परमेश्वर कंसपापात् ॥ ३५ ॥
श्रीनारद उवाच -
तच्छ्रुत्वा भगवान्कृष्णः परिपूर्णतमः स्वयम् ।
सस्मितो देवकीं शौरिं प्राह स वृजिनार्दनः ॥ ३६ ॥
श्रीभगवानुवाच -
इयं च पृश्निः पतिदेवता च
     त्वं पूर्वसर्गे सुतपा प्रजार्थी ।
ब्रह्माज्ञया दिव्यतपो युवाभ्यां
     कृतं परं निर्जलभोजनाभ्याम् ॥ ३७ ॥
कालेषु मन्वन्तरके व्यतीते
     तपः परं तत्तपसः प्रजार्थी ।
तदा प्रसन्नो युवयोरभूवं
     वरं परं ब्रूत मया तदोक्तम् ॥ ३८ ॥
श्रुत्वा युवाभ्यां कथितं तदैव
     भूयात्सुतस्त्वत्सदृशः किलावयोः ।
तथास्तु चोक्त्वाथ गते मयि प्रजा-
     पती ह्यभूत स्वकृतेन दम्पती ॥ ३९॥
न मत्समः कोऽपि सुतो जगत्यलं
     विचार्य तद्वामभवं परेश्वरः ।
श्रीपृश्निगर्भो भुवि विश्रुतः पुन-
     र्द्वितीयकालेऽहमुपेन्द्रवामनः ॥ ४० ॥
तथाऽभवं ह्यद्यतमे परात्परो
     नीत्वाऽथ मां प्रापय नन्दमन्दिरम्
अतो न भूयाद्‌भयमौग्रसेनतः
     सुतां समादाय सुखी भविष्यथः ॥ ४१ ॥
श्रीनारद उवाच -
तूष्णीं भूत्वा हरिस्तत्र तद्‌भूयः पश्यतोस्तयोः ।
दृश्यं ह्यप्रकटं कृत्वा बालोऽभूत्कौ यथा नटः ॥ ४२ ॥
प्रेंखे धृत्वाऽथ तं शौरिर्यावद्‌गन्तुं समुद्यतः ।
तवाद्‌व्रजे नन्दपत्‍न्यां योगमायाऽजनि स्वतः ॥ ४३ ॥
तया शयाने विश्वस्मिन् रक्षकेषु स्वपत्सु च ।
द्वार उद्‌घाटिताः सर्वाः प्रस्फुटच्छृङ्‌खलार्गलाः ॥ ४४ ॥
निर्गते वसुदेवे च मूर्ध्नि श्रीकृष्णशोभिते ।
सूर्योदये यथा सद्यस्तमोनाशोऽभवत्स्वतः ॥ ४५ ॥
घनेषु व्योम्नि वर्षत्सु सहस्रवदनः स्वराट् ।
निवारयन्दीर्घफणैरासारं शौरिमन्वगात् ॥ ४६ ॥
ऊर्म्यावर्ताकुलावेगैः सिंहसर्पादिवाहिनी ।
सद्यो मार्गं ददौ तस्मै कालिन्दी सरितां वरा ॥ ४७ ॥
नन्दव्रजं समेत्यासौ प्रसुप्तं सर्वतः परम् ।
शिशुं यशोदाशयने निधायाशु ददर्श ताम् ॥ ४८ ॥
तत्सुतां समुपादाय पुनर्गेहाज्जगाम सः ।
तीर्त्वा श्रीयमुनां शौरिः स्वागारे पूर्ववत्स्थितः ॥ ४९ ॥
सुतं सुतां वा जातं चाज्ञात्वा गोपी यशोमती ।
परिश्रान्ता स्वशयने सुष्वापानन्दनिद्रया ॥ ५० ॥
अथ बालध्वनिं श्रुत्वा रक्षकाः समुपस्थिताः ।
ऊचुः कंसाय वीराय गत्वा तद्‌राजमन्दिरम् ॥ ५१ ॥
सूतीगृहं त्वरं प्रागात्कंसो वै भयकातरः ।
स्वसाथ भ्रातरं प्राह रुदती दीनवत्सती ॥ ५२ ॥
श्रीदेवक्युवाच -
सुतामेकां देहि मे त्वं पुत्रेषु प्रमृतेषु च ।
स्त्रियं हन्तुं न योग्योऽसि भ्रातस्त्वं दीनवत्सलः ॥ ५३ ॥
तेऽनुजाहं हतसुता कारागारे निपातिता ।
दातुमर्हसि कल्याण कल्याणीं तनुजां च मे ॥ ५४ ॥
श्रीनारद उवाच -
अश्रुमुख्या मोहितया समाच्छाद्यात्मजां बहु ।
प्रार्थितोऽङ्‌काद्विनिर्भर्त्स्य तां स आचिच्छिदे खलः ॥ ५५ ॥
कुसङ्गनिरतः पापः खलो यदुकुलाधमः ।
स्वसुः सुतां शिलापृष्ठे गृहीत्वांघ्र्योर्न्यपातयत् ॥ ५६ ॥
कंसहस्तात्समुत्पत्य त्वरं सा चांबरे गता ।
शतपत्रे रथे दिव्ये सहस्रहयसेविते ॥ ५७ ॥
चामरांदोलिते शुभ्रे स्थितादृश्यत दिव्यदृक् ।
सायुधाष्टभुजा माया पार्षदैः परिसेविता ।
शतसूर्यप्रतीकाशा कंसमाह घनस्वना ॥ ५८ ॥
श्रीयोगमायोवाच -
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् स्वयम् ।
जातः क्व वा तु ते हन्ता वृथा दीनां दुनोषि वै ॥ ५९ ॥
श्रीनारद उवाच -
इत्युक्त्वा तं ततो देवी गता विन्ध्याचले गिरौ ।
योगमाया भगवती बहुनामा बभूव ह ॥ ६० ॥
अथ कंसो विस्मितोऽभूच्छ्रुत्वा मायावचः परम् ।
देवकीं वसुदेवं च मोचयामास बन्धनात् ॥ ६१ ॥
कंस उवाच -
पापोऽहं पापकर्माहं खलो यदुकुलाधमः ।
युष्मत्पुत्रप्रहन्तारं क्षमध्वं मे कृतं भुवि ॥ ६२ ॥
हे स्वसः शृणु मे शौरे मन्ये कालकृतं त्विदम् ।
येन निश्चाल्यमानो वा वायुनेव घनावलेः ॥ ६३ ॥
विश्वस्तोऽहं देववाक्ये देवास्तेऽपि मृषागिरः ।
न जानामि क्व मे शत्रुर्जातः कौ कथितोऽनया ॥ ६४ ॥
श्रीनारद उवाच -
इत्थं कंसस्तदंघ्र्योश्च पतितोऽश्रुमुखो रुदन् ।
चकार सेवां परमां सौहृदं दर्शयंस्तयोः ॥ ६५ ॥
अहो श्रीकृष्णचन्द्रस्य परिपूर्णतमप्रभोः ।
दानदक्षैः कटाक्षैश्च किन्न स्याद्‌भूमिमंडले ॥ ६६ ॥
प्रातःकाले तदा कंसः प्रलंबादीन्महासुरान् ।
समाहूय खलस्तेभ्योऽवददुक्तं च मायया ॥ ६७ ॥
कंस उवाच -
जातो मे ह्यंतकृतद्‌भूमौ कथितो योगमायया ।
अनिर्दशान्निर्दशांश्च शिशून्यूयं हनिष्यथ ॥ ६८ ॥
दैत्या ऊचुः -
सज्जस्य धनुषो युद्धे भवता द्वंद्वयोधिना ।
टंकारेणोद्‌गता देवा मन्यसे तैः कथं भयम् ॥ ६९ ॥
गोविप्रसाधुश्रुतयो देवा धर्मादयः परे ।
विष्णोश्च तनवो ह्येषां नाशे दैत्यबलं स्मृतम् ॥ ७० ॥
जातो यदि महाविष्णुस्ते शत्रुर्यो महीतले ।
अयं चैतद्‌वधोपायो गवादीनां विहिंसनम् ॥ ७१ ॥
इत्थं महोद्‌भटा दुष्टा दैतेयाः कंसनोदिताः ।
दुद्रुवुः खं गवादिभ्यो जघ्नुर्जातांश्च बालकान् ॥ ७२ ॥
आसमुद्राद्‌भूमितले विशंतश्च गृहे गृहे ।
कामरूपधरा दैत्याश्चेरुः सर्पा इवाभवन् ॥ ७३ ॥
उत्पथा उद्‌भटा दैत्यास्तत्रापि कंसनोदिताः ।
कपिः सुरापोऽलिहतो भूतग्रस्त इवाभवन् ॥ ७४ ॥
वैदेह मैथिल नरेन्द्र उपेन्द्रभक्त
     धर्मिष्ठमुख्य सुतपो जनक प्रतापिन् ।
एतत्सतां च भुवि हेलनमंग राजन्
     सर्वं छिनत्ति बहुलाश्व चतुष्पदार्थान् ॥ ७५ ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे
श्रीकृष्णचन्द्रजन्मवर्णनं नाम एकादशोऽध्यायः ॥ ११ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP