श्रीगर्गसंहिता

गोलोकखण्डम् - नवमोऽध्यायः

वसुदेव-देवकी विवाहवर्णनम् -


तत्रैकदा श्रीमथुरापुरे वरे
     पुरोहितः सर्वयदूत्तमैः कृतः ।
शूरेच्छया गर्ग इति प्रमाणिकः
     समाययौ सुन्दरराजमन्दिरम् ॥ १ ॥
हीराखचिद्धेमलसत्कपाटकं
     द्विपेन्द्रकर्णाहतभृङ्गनादितम् ।
इभस्रवन्निर्झरगण्डधारया
     समावृतं मण्डपखण्डमण्डितम् ॥ २ ॥
महोद्‌भटैर्धीरजनैः सकञ्चुकै-
     र्धनुर्धरैश्चर्म कृपाणपाणिभिः ।
रथद्विपाश्वध्वजिनीबलादिभिः
     सुरक्षितं मण्डलमण्डलीभिः ॥ ३ ॥
ददर्श गर्भो नृपदेवमाहुकं
     श्वाफल्किना देवककंससेवितम् ।
श्रीशक्रसिंहासन उन्नते परे
     स्थितं वृतं छत्रवितानचामरैः ॥ ४ ॥
दृष्ट्वा मुनिं तं सहसाऽऽसनाश्रया-
     दुत्थाय राजा प्रणनाम यादवैः ।
संस्थाप्य सम्पूज्य सुभद्रपीठके
     स्तुत्वा परिक्रम्य नतः स्थितोऽभवत् ॥ ५ ॥
दत्त्वाऽऽशिषं गर्गमुनिर्नृपाय वै
     पप्रच्छ सर्वं कुशलं नृपादिषु ।
श्रीदेवकं प्राह महामना ऋषि-
     र्महौजसं नीतिविदं यदूत्तमम् ॥ ६ ॥
श्रीगर्ग उवाच -
शौरीं विना भुवि नृपेषु वरस्तु नास्ति
     चिन्त्यो मया बहुदिनैः किल यत्र तत्र ।
तस्मान्नृदेव वसुदेववराय देहि
     श्रीदेवकीं निजसुतां विधिनोद्‌वहस्व ॥ ७ ॥
श्रीनारद उवाच -
कृत्वा तदैव पुरि निश्चयनागवल्लीं
     श्रीदेवकं सकलधर्मभृतां वरिष्ठः ।
गर्गेच्छया तु वसुदेववराय पुत्रीं
     कृत्वाथ मङ्गलमलं प्रददौ विवाहे ॥ ८ ॥
कृतोद्‌वहः शौरिरतीव सुन्दरं
     रथं प्रयाणे समलङ्कृतं हयैः ।
सार्द्धं तया देवकराजकन्यया
     समारुहत्कांचनरत्‍नशोभया ॥ ९ ॥
स्वसुः प्रियं कर्तुमतीव कंसो
     जग्राह रश्मींश्चलतां हयानाम् ।
उवाह वाहांश्चतुरंगिणीभि-
     र्वृतः कृपास्नेहपरोऽथ शौरौ ॥ १० ॥
दासीसहस्रं त्वयुतं गजानां
     सत्पारिबर्हं नियुतं हयानाम् ।
लक्षं रथानां च गवां द्विलक्षं
     प्रादाद्‌दुहित्रे नृप देवको वै ॥ ११ ॥
भेरीमृदंगोद्धरगोमुखानां
     धुन्धुर्यवीणानकवेणुकानाम् ।
महत्स्वनोऽभूच्चलतां यदुनां
     प्रयाणकाले पथि मङ्गलं च ॥ १२ ॥
आकाशवागाह तदैव कंसं
     त्वामष्टमो हि प्रसवोऽञ्जसास्याः ।
हन्ता न जानासि च यां रथस्थां
     रश्मीन् गृहीत्वा वहसेऽबुधस्त्वम् ॥ १३ ॥
कुसंगनिष्ठोऽतिखलो हि कंसो
     हंतुं स्वसारं धिषणां चकार ।
कचे गृहीत्वा शितखड्‍गपाणि-
     र्गतत्रपो निर्दय उग्रकर्मा ॥ १४ ॥
वादित्रकारा रहिता बभूवु-
     रग्रे स्थिताः स्युश्चकिता हि पश्चात् ।
सर्वेषु वा श्वेतमुखेषु सत्सु
     शौरिस्तमाहाऽऽशु सतां वरिष्ठः ॥ १५ ॥
श्रीवसुदेव उवाच -
भोजेन्द्र भोजकुलकीर्तिकरस्त्वमेव
     भौमादिमागधबकासुरवत्सबाणैः ।
श्लाघ्या गुणास्तव युधि प्रतियोद्धुकामैः
     स त्वं कथं तु भगिनीमसिनात्र हन्याः ॥ १६ ॥
ज्ञात्वा स्त्रियं किल बकीं प्रतियोद्धुकामां
     युद्धं कृतं न भवता नृपनीतिवृत्त्या ।
सा तु त्वयापि भगिनीव कृता प्रशांत्यै
     साक्षादियं तु भगिनी किमु ते विचारात् ॥ १७ ॥
उद्‌वाहपर्वणि गता च तवानुजा च
     बाला सुतेव कृपणा शुभदा सदैषा ।
योग्योऽसि नात्र मथुराधिप हंतुमेनां
     त्वं दीनदुःखहरणे कृतचित्तवृत्तिः ॥ १८ ॥
श्रीनारद उवाच -
नामन्यतेत्थं प्रतिबोधितोऽपि
     कुसङ्गनिष्ठोऽतिखलो हि कंसः ।
तदा हरेः कालगतिं विचार्य
     शौरिः प्रपन्नं पुनराह कंसम् ॥ १९ ॥
श्रीवसुदेव उवाच -
नास्यास्तु ते देव भयं कदाचि-
     द्यद्‌देववाण्या कथितं च तच्छृणु ।
पुत्रान् ददामीति यतो भयं स्या-
     न्मा ते व्यथाऽस्याः प्रसवप्रजातात् ॥ २० ॥
श्रीनारद उवाच -
श्रुत्वा स निश्चित्य वचोऽथ शौरेः
     कंसः प्रशंस्याऽऽशु गृहं गतोऽभूत् ।
शौरिस्तदा देवकराजपुत्र्या
     भयावृतः सन् गृहमाजगाम ॥ २१ ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे
वसुदेवविवाहवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP