श्रीमद्‌देवीभागवत महापुराण
नवमः स्कन्धः
पञ्चचत्वारिंशोऽध्यायः


दक्षिणोपाख्यानवर्णनम्

श्रीनारायण उवाच
उक्तं स्वाहास्वधाख्यानं प्रशस्तं मधुरं परम् ।
वक्ष्यामि दक्षिणाख्यानं सावधानो निशामय ॥ १ ॥
गोपी सुशीला गोलोके पुराऽऽसीत्प्रेयसी हरेः ।
राधा प्रधाना सध्रीची धन्या मान्या मनोहरा ॥ २ ॥
अतीव सुन्दरी रामा सुभगा सुदती सती ।
विद्यावती गुणवती चातिरूपवती सती ॥ ३ ॥
कलावती कोमलाङ्‌गी कान्ता कमललोचना ।
सुश्रोणी सुस्तनी श्यामा न्यग्रोधपरिमण्डिता ॥ ४ ॥
ईषद्धास्यप्रसन्नास्या रत्‍नालङ्‌कारभूषिता ।
श्वेतचम्पकवर्णाभा बिम्बोष्ठी मृगलोचना ॥ ५ ॥
कामशास्त्रेषु निपुणा कामिनी हंसगामिनी ।
भावानुरक्ता भावज्ञा कृष्णस्य प्रियभामिनी ॥ ६ ॥
रसज्ञा रसिका रासे रासेशस्य रसोत्सुका ।
उवासादक्षिणे क्रोडे राधायाः पुरतः पुरा ॥ ७ ॥
सम्बभूवानम्रमुखो भयेन मधुसूदनः ।
दृष्ट्वा राधां च पुरतो गोपीनां प्रवरोत्तमाम् ॥ ८ ॥
कामिनीं रक्तवदनां रक्तपङ्‌कजलोचनाम् ।
कोपेन कम्पिताङ्‌गीं च कोपेन स्फुरिताधराम् ॥ ९ ॥
वेगेन तां तु गच्छन्तीं विज्ञाय तदनन्तरम् ।
विरोधभीतो भगवानन्तर्धानं चकार सः ॥ १० ॥
पलायन्तं च कान्तं च शान्तं सत्त्वं सुविग्रहम् ।
विलोक्य कम्पिता गोप्यः सुशीलाद्यास्ततो भिया ॥ ११ ॥
विलोक्य लम्पटं तत्र गोपीनां लक्षकोटयः ।
पुटाञ्जलियुता भीता भक्तिनम्रात्मकन्धराः ॥ १२ ॥
रक्ष रक्षेत्युक्तवन्त्यो देवीमिति पुनः पुनः ।
ययुर्भयेन शरणं यस्याश्चरणपङ्‌कजे ॥ १३ ॥
त्रिलक्षकोटयो गोपाः सुदामादय एव च ।
ययुर्भयेन शरणं तत्पादाब्जे च नारद ॥ १४ ॥
पलायन्तं च कान्तं च विज्ञाय परमेश्वरी ।
पलायन्तीं सहचरीं सुशीलां च शशाप सा ॥ १५ ॥
अद्यप्रभृति गोलोकं सा चेदायाति गोपिका ।
सद्यो गमनमात्रेण भस्मसाच्च भविष्यति ॥ १६ ॥
इत्येवमुक्त्वा तत्रैव देवदेवेश्वरी रुषा ।
रासेश्वरी रासमध्ये रासेशमाजुहाव ह ॥ १७ ॥
नालोक्य पुरतः कृष्णं राधा विरहकातरा ।
युगकोटिसमं मेने क्षणभेदेन सुव्रता ॥ १८ ॥
हे कृष्ण प्राणनाथेशागच्छ प्राणाधिकप्रिय ।
प्राणाधिष्ठातृदेवेश प्राणा यान्ति त्वया विना ॥ १९ ॥
स्त्रीगर्वः पतिसौभाग्याद्वर्धते च दिने दिने ।
सुखं च विपुलं यस्मात्तं सेवेद्धर्मतः सदा ॥ २० ॥
पतिर्बन्धुः कुलस्त्रीणामधिदेवः सदागतिः ।
परसम्पत्स्वरूपश्च मूर्तिमान् भोगदः सदा ॥ २१ ॥
धर्मदः सुखदः शश्वत्प्रीतिदः शान्तिदः सदा ।
सम्मानैर्दीप्यमानश्च मानदो मानखण्डनः ॥ २२ ॥
सारात्सारतरः स्वामी बन्धूनां बन्धुवर्धनः ।
न च भर्तुः समो बन्धुर्बन्धोर्बन्धुषु दृश्यते ॥ २३ ॥
भरणादेव भर्ता च पालनात्पतिरुच्यते ।
शरीरेशाच्च स स्वामी कामदः कान्त उच्यते ॥ २४ ॥
बन्धुश्च सुखवृद्ध्या च प्रीतिदानात्प्रियः स्मृतः ।
ऐश्वर्यदानादीशश्च प्राणेशात्प्राणनायकः ॥ २५ ॥
रतिदानाच्च रमणः प्रियो नास्ति प्रियात्परः ।
पुत्रस्तु स्वामिनः शुक्राज्जायते तेन स प्रियः ॥ २६ ॥
शतपुत्रात्परः स्वामी कुलजानां प्रियः सदा ।
असत्कुलप्रसूता या कान्तं विज्ञातुमक्षमा ॥ २७ ॥
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणा ।
प्रादक्षिण्यं पृथिव्याश्च सर्वाणि च तपांसि च ॥ २८ ॥
सर्वाण्येव व्रतादीनि महादानानि यानि च ।
उपोषणानि पुण्यानि यानि यानि श्रुतानि च ॥ २९ ॥
गुरुसेवा विप्रसेवा देवसेवादिकं च यत् ।
स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम् ॥ ३० ॥
गुरुविप्रेन्द्रदेवेषु सर्वेभ्यश्च पतिर्गुरुः ।
विद्यादाता यथा पुंसां कुलजानां तथा प्रियः ॥ ३१ ॥
गोपीनां लक्षकोटीनां गोपानां च तथैव च ।
ब्रह्माण्डानामसंख्यानां तत्रस्थानां तथैव च ॥ ३२ ॥
विश्वादिगोलकान्तानामीश्वरी यत्प्रसादतः ।
अहं न जाने तं कान्तं स्त्रीस्वभावो दुरत्ययः ॥ ३३ ॥
इत्युक्त्वा राधिका कृष्णं तत्र दध्यौ स्वभक्तितः ।
रुरोद प्रेम्णा सा राधा नाथ नाथेति चाब्रवीत् ॥ ३४ ॥
दर्शनं देहि रमण दीना विरहदुःखिता ।
अथ सा दक्षिणा देवी ध्वस्ता गोलोकतो मुने ॥ ३५ ॥
सुचिरं च तपस्तप्त्वा विवेश कमलातनौ ।
अथ देवादयः सर्वे यज्ञं कृत्वा सुदुष्करम् ॥ ३६ ॥
नालभंस्ते फलं तेषां विषण्णाः प्रययुर्विधिम् ।
विधिर्निवेदनं श्रुत्वा देवादीनां जगत्पतिम् ॥ ३७ ॥
दध्यौ च सुचिरं भक्त्या प्रत्यादेशमवाप सः ।
नारायणश्च भगवान् महालक्ष्याश्च देहतः ॥ ३८ ॥
विनिष्कृष्य मर्त्यलक्ष्मीं ब्रह्मणे दक्षिणां ददौ ।
ब्रह्मा ददौ तां यज्ञाय पूरणार्थं च कर्मणाम् ॥ ३९ ॥
यज्ञः सम्पूज्य विधिवत्तां तुष्टाव तदा मुदा ।
तप्तकाञ्चनवर्णाभां चन्द्रकोटिसमप्रभाम् ॥ ४० ॥
अतीव कमनीयां च सुन्दरीं सुमनोहराम् ।
कमलास्यां कोमलाङ्‌गीं कमलायतलोचनाम् ॥ ४१ ॥
कमलासनपूज्यां च कमलाङ्‌गसमुद्‍भवाम् ।
वह्निशुद्धांशुकाधानां बिम्बोष्ठीं सुदतीं सतीम् ॥ ४२ ॥
बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम् ।
ईषद्धास्यप्रसन्नास्यां रत्‍नभूषणभूषिताम् ॥ ४३ ॥
सुवेषाढ्यां च सुस्नातां मुनिमानसमोहिनीम् ।
कस्तूरीबिन्दुभिः सार्धं सुगन्धिचन्दनेन्दुभिः ॥ ४४ ॥
सिन्दूरबिन्दुनाल्पेनाप्यलकाधःस्थलोज्ज्वलाम् ।
सुप्रशस्तनितम्बाढ्यां बृहच्छ्रोणिपयोधराम् ॥ ४५ ॥
कामदेवाधाररूपां कामबाणप्रपीडिताम् ।
तां दृष्ट्वा रमणीयां च यज्ञो मूर्च्छामवाप ह ॥ ४६ ॥
पत्‍नीं तामेव जग्राह विधिबोधितपूर्वकम् ।
दिव्यं वर्षशतं चैव तां गृहीत्वा तु निर्जने ॥ ४७ ॥
यज्ञो रेमे मुदा युक्तो रामेशो रमया सह ।
गर्भं दधार सा देवी दिव्यं द्वादशवर्षकम् ॥ ४८ ॥
ततः सुषाव पुत्रं च फलं वै सर्वकर्मणाम् ।
परिपूर्णे कर्मणि च तत्पुत्रः फलदायकः ॥ ४९ ॥
यज्ञो दक्षिणया सार्धं पुत्रेण च फलेन च ।
कर्मिणां फलदाता चेत्येवं वेदविदो विदुः ॥ ५० ॥
यज्ञश्च दक्षिणां प्राप्य पुत्रं च फलदायकम् ।
फलं ददौ च सर्वेभ्यः कर्मणां चैव नारद ॥ ५१ ॥
तदा देवादयस्तुष्टाः परिपूर्णमनोरथाः ।
स्वस्थाने ते ययुः सर्वे धर्मवक्त्रादिदं श्रुतम् ॥ ५२ ॥
कृत्वा कर्म च कर्ता च तूर्णं दद्याच्च दक्षिणाम् ।
तत्क्षणं फलमाप्नोति वेदैरुक्तमिदं मुने ॥ ५३ ॥
कर्मी कर्मणि पूर्णे च तत्क्षणे यदि दक्षिणाम् ।
न दद्याद्‌ ब्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथवा ॥ ५४ ॥
मुहूर्ते समतीते तु द्विगुणा सा भवेद्‌ ध्रुवम् ।
एकरात्रे व्यतीते तु भवेच्छतगुणा च सा ॥ ५५ ॥
त्रिरात्रे तच्छतगुणा सप्ताहे द्विगुणा ततः ।
मासे लक्षगुणा प्रोक्ता ब्राह्मणानां च वर्धते ॥ ५६ ॥
संवत्सरे व्यतीते तु सा त्रिकोटिगुणा भवेत् ।
कर्म तद्यजमानानां सर्वं वै निष्फलं भवेत् ॥ ५७ ॥
स च ब्रह्मस्वहारी च न कर्मार्होऽशुचिर्नरः ।
दरिद्रो व्याधियुक्तश्च तेन पापेन पातकी ॥ ५८ ॥
तद्‌गृहाद्याति लक्ष्मीश्च शापं दत्त्वा सुदारुणम् ।
पितरो नैव गृह्णन्ति तद्दत्तं श्राद्धतर्पणम् ॥ ५९ ॥
एवं सुराश्च तत्पूजां तद्दत्तामग्निराहुतिम् ।
दत्तं न दीयते दानं ग्रहीता नैव याचते ॥ ६० ॥
उभौ तौ नरके यातश्छिन्नरज्जौ यथा घटः ।
नार्पयेद्यजमानश्चेद्याचितश्चापि दक्षिणाम् ॥ ६१ ॥
भवेद्ब्रह्मस्वापहारी कुम्भीपाकं व्रजेद्‌ ध्रुवम् ।
वर्षलक्षं वसेत्तत्र यमदूतेन ताडितः ॥ ६२ ॥
ततो भवेत्स चाण्डालो व्याधियुक्तो दरिद्रकः ।
पातयेत्पुरुषान्सप्त पूर्वांश्च सप्त जन्मतः ॥ ६३ ॥
इत्येवं कथितं विप्र किं भूयः श्रोतुमिच्छसि ।
नारद उवाच
यत्कर्म दक्षिणाहीनं को भुङ्क्ते तत्फलं मुने ॥ ६४ ॥
पूजाविधिं दक्षिणायाः पुरा यज्ञकृतं वद ।
श्रीनारायण उवाच
कर्मणोऽदक्षिणस्यैव कुत एव फलं मुने ॥ ६५ ॥
सदक्षिणे कर्मणि च फलमेव प्रवर्तते ।
अदक्षिणं च यत्कर्म तद्‌भुङ्‌क्ते च बलिर्मुने ॥ ६६ ॥
बलये तत्प्रदत्तं च वामनेन पुरा मुने ।
अश्रोत्रियः श्राद्धद्रव्यमश्रद्धादानमेव च ॥ ६७ ॥
वृषलीपतिविप्राणां पूजाद्रव्यादिकं च यत् ।
असद्द्विजैः कृतं यज्ञमशुचेः पूजनं च यत् ॥ ६८ ॥
गुरावभक्तस्य कर्म बलिर्भुङ्‌क्ते न संशयः ।
दक्षिणायाश्च यद्ध्यानं स्तोत्रं पूजाविधिक्रमम् ॥ ६९ ॥
तत्सर्वं कण्वशाखोक्तं प्रवक्ष्यामि निशामय ।
पुरा सम्प्राप्य तां यज्ञः कर्मदक्षां च दक्षिणाम् ॥ ७० ॥
मुमोहास्याः स्वरूपेण तुष्टाव कामकातरः ।
यज्ञ उवाच
पुरा गोलोकगोपी त्वं गोपीनां प्रवरा वरा ॥ ७१ ॥
राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिया ।
कार्तिकीपूर्णिमायां तु रासे राधामहोत्सवे ॥ ७२ ॥
आविर्भूता दक्षिणांसाल्लक्ष्म्याश्च तेन दक्षिणा ।
पुरा त्वं च सुशीलाख्या ख्याता शीलेन शोभने ॥ ७३ ॥
लक्ष्मीदक्षांसभागात्त्वं राधाशापाच्च दक्षिणा ।
गोलोकात्त्वं परिभ्रष्टा मम भाग्यादुपस्थिता ॥ ७४ ॥
कृपां कुरु महाभागे मामेव स्वामिनं कुरु ।
कर्मिणां कर्मणां देवी त्वमेव फलदा सदा ॥ ७५ ॥
त्वया विना च सर्वेषां सर्वं कर्म च निष्फलम् ।
त्वया विना तथा कर्म कर्मिणां च न शोभते ॥ ७६ ॥
ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च ।
कर्मणश्च फलं दातुं न शक्ताश्च त्वया विना ॥ ७७ ॥
कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः ।
यज्ञरूपी विष्णुरहं त्वमेषां साररूपिणी ॥ ७८ ॥
फलदातृपरं ब्रह्म निर्गुणा प्रकृतिः परा ।
स्वयं कृष्णश्च भगवान् स च शक्तस्त्वया सह ॥ ७९ ॥
त्वमेव शक्तिः कान्ते मे शश्वज्जन्मनि जन्मनि ।
सर्वकर्मणि शक्तोऽहं त्वया सह वरानने ॥ ८० ॥
इत्युक्त्वा च पुरस्तस्थौ यज्ञाधिष्ठातृदेवता ।
तुष्टा बभूव सा देवी भेजे तं कमलाकला ॥ ८१ ॥
इदं च दक्षिणास्तोत्रं यज्ञकाले च यः पठेत् ।
फलं च सर्वयज्ञानां प्राप्नोति नात्र संशयः ॥ ८२ ॥
राजसूये वाजपेये गोमेधे नरमेधके ।
अश्वमेधे लाङ्‌गले च विष्णुयज्ञे यशस्करे ॥ ८३ ॥
धनदे भूमिदे पूर्ते फलदे गजमेधके ।
लोहयज्ञे स्वर्णयज्ञे रत्‍नयज्ञेऽथ ताम्रके ॥ ८४ ॥
शिवयज्ञे रुद्रयज्ञे शक्रयज्ञे च बन्धुके ।
वृष्टौ वरुणयागे च कण्डके वैरिमर्दने ॥ ८५ ॥
शुचियज्ञे धर्मयज्ञेऽध्वरे च पापमोचने ।
ब्रह्माणीकर्मयागे च योनियागे च भद्रके ॥ ८६ ॥
एतेषां च समारम्भे इदं स्तोत्रं च यः पठेत् ।
निर्विघ्नेन च तत्कर्म सर्वं भवति निश्चितम् ॥ ८७ ॥
इदं स्तोत्रं च कथितं ध्यानं पूजाविधिं शृणु ।
शालग्रामे घटे वापि दक्षिणां पूजयेत्सुधीः ॥ ८८ ॥
लक्ष्मीदक्षांससम्भूतां दक्षिणां कमलाकलाम् ।
सर्वकर्मसुदक्षां च फलदां सर्वकर्मणाम् ॥ ८९ ॥
विष्णोः शक्तिस्वरूपां च पूजितां वन्दितां शुभाम् ।
शुद्धिदां शुद्धिरूपां च सुशीलां शुभदां भजे ॥ ९० ॥
ध्यात्वानेनैव वरदां मूलेन पूजयेत्सुधीः ।
दत्त्वा पाद्यादिकं देव्यै वेदोक्तेनैव नारद ॥ ९१ ॥
ॐ श्रीं क्लीं ह्रीं दक्षिणायै स्वाहेति च विचक्षणः ।
पूजयेद्विधिवद्‌ भक्त्या दक्षिणां सर्वपूजिताम् ॥ ९२ ॥
इत्येवं कथितं ब्रह्मन् दक्षिणाख्यानमेव च ।
सुखदं प्रीतिदं चैव फलदं सर्वकर्मणाम् ॥ ९३ ॥
इदं च दक्षिणाख्यानं यः शृणोति समाहितः ।
अङ्‌गहीनं च तत्कर्म न भवेद्‍भारते भुवि ॥ ९४ ॥
अपुत्रो लभते पुत्रं निश्चितं च गुणान्वितम् ।
भार्याहीनो लभेद्‍भार्यां सुशीलां सुन्दरीं पराम् ॥ ९५ ॥
वरारोहां पुत्रवतीं विनीतां प्रियवादिनीम् ।
पतिव्रतां च शुद्धां च कुलजां च वधूं वराम् ॥ ९६ ॥
विद्याहीनो लभेद्विद्यां धनहीनो लभेद्धनम् ।
भूमिहीनो लभेद्‌भूमिं प्रजाहीनो लभेत्प्रजाम् ॥ ९७ ॥
सङ्‌कटे बन्धुविच्छेदे विपत्तौ बन्धने तथा ।
मासमेकमिदं श्रुत्वा मुच्यते नात्र संशयः ॥ ९८ ॥


दक्षिणा देवीचे ध्यान -

स्वाहा व स्वधा यांचे स्तुत्य, मधुर व उत्कृष्ट चरित्र मी सांगितले. आता दक्षिणेचे आख्यान सांगतो.

पूर्वी हरीची प्रिया गोपी सुशीला गोलोकात गेली. ती राधेची मुख्य सखी, धन्य, मनोहर होती. तसेच रूप, गुण, स्वभाव यांनी ती श्रेष्ठ असून कला जाणणारी होती. जिचे अंग कोमल, तेजस्वी, नेत्र कमलाप्रमाणे व जिची श्रोणी उत्तम आहे, स्तन उत्कृष्ट आहेत, वर्ण काळा आहे, शरीर बांधेसूद असून रत्नालंकारांनी विभूषित आहे, थोडक्यात जी अत्यंत सुंदर आहे, कामशास्त्रनिपुण, पतीची इच्छा करणारी अशी कृष्णाप्रिया आहे, तसेच सर्व रसांविषयी रसिक आहे आणि जी रासमंडळात राधेच्या समक्ष कृष्णाच्या अंकावर विराजमान झाली आहे अशी ती, तिच्यापुढे राधिकेनेही मान खाली घातली आहे, मधुसूदनही भयाने खाली पहात आहे, अशी ती श्रेष्ठ स्त्री होती.

जिचे नेत्र रक्तकमलाप्रमाणे असून कामामुळे वदन लाल झाले आहे, अंग कोपाने कंपित झाले आहे, ओठ स्फुरण पावत आहेत अशा त्या सुंदरीला पाहून व राधेचा हेतू जाणून श्रीकृष्ण गुप्त झाला. कांत पळाल्याचे पाहून सुशीला वगैरे गोपी थरथर कापू लागल्या. तेव्हा राधेस त्या म्हणाल्या, "आमचे रक्षण कर." असे म्हणून त्या राधेस शरण गेल्या. पती पळून गेल्याचे अवलोकन करून राधेने सुशीलेस शाप दिला.

"आजपासून ती गोपी गोलोकी आली तर पाऊल ठेवताच भस्म होऊन जाईल." असे म्हणून रागाने ती रासेश्वरास बोलावू लागली. पण कृष्ण तिला न दिसल्यामुळे तो एकेक विरहक्षण तिला कोटी युगाप्रमाणे वाटू लागला. ती म्हणाली, "हे नाथ, हे प्राणप्रिया, तुझ्यावाचून प्राण रहात नाहीत. पतीने मान दिला की स्त्रीचा गर्व नित्य वृद्धींगत होत असतो. म्हणून ज्याच्यापासून सुख मिळते त्याचीच सेवा करावी. कुलवान स्त्रियांचा सर्वात परम आप्त म्हणजे पती होय. तोच संपत्तीरूप व भोग देणारा आहे. तोच मान देणारा, संसारातील उत्तम सारभूत स्वामी होय. इतर सर्व आप्तांमध्ये पतीच श्रेष्ठ होय. तोच भरण-पोषण करतो म्हणून त्याला भर्ता म्हणतात. तो पालन करतो म्हणून त्याला पती म्हणतात.

शरीरावर त्याचा अधिकार असतो. तो काम देतो म्हणून त्याला कांत म्हणतात. तो सुखवृद्धी करतो म्हणून त्याला प्रिय म्हणतात. ऐश्वर्य देतो म्हणून ईश, प्राणांचा स्वामी असल्याने प्राणनायक असे म्हणतात. त्याच्या शुक्रापासून पुत्र होतो. म्हणून तो स्त्रियांस प्रिय असतो. शंभर पुत्र देणारा स्वामी स्त्रियांना अधिक प्रिय असतो. हीन कुळात जन्मलेली स्त्री पतीस जाणू शकत नाही. व्रते, तीर्थस्नाने, यज्ञदक्षिणा, पृथ्वीप्रदक्षिणा, तप, महादाने, गुरूची सेवा, ब्राह्मणाची सेवा, वेदसेवा इत्यादी पुण्य कृत्ये पतीच्या पदसेवेच्या प्रमाणात सोळाव्या कलेइतके पण नाहीत. कारण ह्या सर्वांपेक्षा पती श्रेष्ठ असतो. मी सर्वेश्वरी ज्याच्या प्रसादाने उत्पन्न झाले त्या कांताला मी जाणीत नाही. स्त्री स्वभाव उल्लंघन करता येत नाही."

असे म्हणून राधेने श्रीकृष्णाचे भक्तिपूर्वक ध्यान केले. ती रडत रडत म्हणाली, "हे नाथ, हे नाथ, हे रमणा, दर्शन दे. मी विरहव्याकुल झाले आहे."

इकडे सुशीला देवी गोलोकातून भ्रष्ट झाल्यामुळे दीर्घकालीन तपश्चर्येने लक्ष्मीच्या देहात प्रविष्ट झाली. पुढे देवांनी अत्यंत दुष्कर यज्ञ केला, पण त्याचे फल न मिळाल्यामुळे ते खिन्न होऊन ब्रह्मदेवाकडे गेले.

ते ऐकून ब्रह्मदेवाने विष्णूचे स्मरण केले. तेव्हा 'मी तुझे कार्य करीन.' अशी विष्णूने प्रेरणा दिली. नंतर लक्ष्मीच्या देहापासून भगवान नारायणांनी मर्त्याची लक्ष्मी जी दक्षिणा, तिला उत्पन्न केले व ती ब्रह्मदेवाला अर्पण केली. कर्मे पूर्ण व्हावीत म्हणून ब्रह्मदेवाने ती यज्ञाला अर्पण केली. यज्ञाने तिची पूजा करून तिचे स्तवन केले. ती अत्यंत तेजस्वी, कोटीसूर्याप्रमाणे प्रभा असलेली, सुंदर, कोमलांगी, कमलनेत्रा, शुद्ध वस्त्र परिधान केलेली, मधुर ओष्ठ असलेली अशी सुदंती होती. ती प्रसन्नमुखी व वस्त्राभूषणांनी विभूषित होती. मोहक, कस्तुरी बिंदूमुळे केशाचा खालचा भाग उज्वल दिसत होता. तिचा नितंबप्रदेश प्रशस्त होता. तिची श्रोणी व स्तन मोठे होते. त्या कामबाणांनी पीडीत झालेल्या सुंदरीस पाहून यज्ञपुरुषास मूर्च्छा आली. त्याने तिचा विधीपूर्वक पत्नी म्हणून स्वीकार केला. नंतर देवांची शंभर वर्षे निर्जन वनामध्ये एकांतात त्याने त्या रमणीसह क्रीडा केली. नंतर देवीने बारा वर्षे दिव्य गर्भधारणा केली. तेव्हा तिला कर्माचे फल या नावाचा पुत्र झाला. कर्म पूर्ण झाल्यावर तिचा पुत्र फल देतो.
हा यज्ञपुरुष दक्षिणा व फल याच्यासह कर्मठांना कर्माचे फल देतो. हे नारदा, त्या पुत्र फलामुळे सर्व देवही संतुष्ट झाले. त्यांचे मनोरथ पूर्ण झाले. नंतर ते सर्व स्वस्थानी गेले.

कर्त्याने कर्म जाणून दक्षिणा द्यावी म्हणजे फलप्राप्ती होते. कर्म कर्त्याने कर्म पूर्ण झाल्यावर दक्षिणा देण्यास विलंब लावला तर फल कमी होते. दक्षिणा न देता एक रात्र गेल्यास ते शंभरपटीने, तीन रात्री गेल्यास त्यापेक्षा शंभरपट, महिना लोटल्यास लक्षपट, एक वर्ष लोटल्यास तीन कोटीपटीने फल निष्फल होते. असा यजमान कर्माचा अधिकारी होत नाही. त्याच्या घरातून लक्ष्मी निघून जाते. देव व अग्नी त्याची पूजा स्वीकारीत नाहीत.

दक्षिणेकरता याचन करून यजमानाने दक्षिणा न दिल्यास तो यजमान कुंभिपाक नरकात पडतो. तेथे तो एक लक्ष वर्षे राहतो. नंतर व्याधीयुक्त, दरिद्री होऊन चांडाळ होतो. तो पूर्वीचे व नंतरचे सात पुरुष अधोगतीस धाडतो.

हे नारदा, मी तुला दक्षिणेचे आख्यान सांगितले. आता आणखी काय तुला ऐकायचे आहे ?

नारद म्हणाला, "दक्षिणाहीन मनुष्य कोणते फल भोगतो ? दक्षिणेचे पूजन कोणत्या प्रकारे करतात ?" नारायण म्हणाले, "दक्षिणाशून्य कर्माचा भोग बळी घेतो. कारण वामनाने ते कर्म बलीस दिले आहे. श्रोत्रिय नसलेल्या ब्राह्मणास श्राद्ध पदार्थ देणे, श्रद्धाहीन दान देणे, अधम ब्राह्मणांचा यज्ञ, अपवित्र पुरुषाचे पूजन, अभक्त शिष्याने केलेली सेवा या सर्व कर्माचे भोग बली हरण करतो. आता दक्षिणेचे पूजाविधान सांगतो.

यज्ञ कामातुर होऊन स्तुती करू लागला. तो म्हणाला, "पूर्वी तू गोलोकात गोपी होतीस. तू सर्व गोपीमध्ये श्रेष्ठ, राधेच्या बरोबरीची सखी, श्रीकृष्णाची अत्यंत प्रिया होतीस. कार्तिकी पौर्णिमेच्या दिवशी रासमंडळात, राधेच्या महोत्सवकाली, तू लक्ष्मीच्या उजव्या खांद्यापासून प्रकट झालीस. म्हणून तुला दक्षिणा हे नाव प्राप्त झाले."

हे सुंदरी, शीलसंपन्नतेमुळे तुला सुशील म्हणतात. राधेच्या शापामुळे तू दक्षिणा झालीस. गोलोकातून भ्रष्ट होऊन तू माझ्या भाग्यामुळे तेथे प्राप्त झालीस. माझा स्वामी म्हणून स्वीकार कर. कर्माचे फल देणारी तू आहेस. ब्रह्मा, विष्णु, महेश, दिक्पाल हे देखील कर्माचे फल देऊ शकत नाहीत. ब्रह्मदेव कर्मरूपी, महेश्वर फलरूपी, यज्ञरूपी मी विष्णु आहे. तू सर्वांची साररूपी आहेस. फल देणारी परब्रह्म आहेस. स्वतः श्रीकृष्णही तुझ्यासह शक्तिमान होतो. हे प्रिये, तू माझी शक्ती आहेस. तुझ्यामुळेच मी कर्माविषयी समर्थ आहे."

असे म्हणून यज्ञ तिच्यापुढे उभा राहिला. तेव्हा ती दक्षिणा प्रसन्न झाली. तिने यज्ञ पुरुषाची सेवा केली. जो यज्ञकाली दक्षिणा स्तोत्र म्हणतो, त्याला यज्ञफल सत्वर मिळते. राजसूय, वाजपेय, गोमेध, नरमेध, अश्वमेध यांचे पुण्य लाभते. धन देणारे व पूर्वकर्म फल देणारा गजमेध, लोहयज्ञ, सुवर्णयज्ञ, ताम्रयज्ञ, शिवयज्ञ, रुद्रयज्ञ, बंधुक नावाचा शकयज्ञ, वरुणयाग, कंडक नावाचे वैरीमर्दनकर्म, शुचियज्ञ, धर्मयज्ञ, पापनाश करणारा अध्वर, ब्रह्मरूप, कर्मयाग, मलप्रकृतीयाग वगैरे समारंभाचे वेळी हे स्तोत्र म्हणणार्‍याचे याग निर्विघ्नपणे पार पडतात. आता ध्यान व पूजाविधी सांगतो.

शालिग्राम अथवा घरामध्ये दक्षिणेचे पूजन करावे. लक्ष्मीच्या अंशभूत असलेली, कमलेची कला, कर्मदक्ष, फलदायी, विष्णूची शक्तीरूप, पूज्य, वंद्य, शुभलक्षणयुक्त, शुद्धीदायी, सुशील अशा दक्षिणेचे पूजन करतो.

अशा वेदोक्त मंत्राने देवीस पाद्यादि अर्पण करावे. "ॐ श्री क्लीं र्‍हीं दक्षिणायै स्वाहा ।"

असा हा मंत्र आहे. नंतर तिचे यथासांग पूजन करावे. हे दक्षिणेचे आख्यान सुखदायी व कर्मफल देणारे आहे. निपुत्रिकांना पुत्र प्राप्त होतो. भार्याहीनास भार्या मिळते. विद्याहीनास विद्या, दरिद्र्यास धन, भूमीहीनास भूमी अशी त्यापासून फलप्राप्ती होते. संकट-विपत्तीच्या वेळी एक महिनाभर हे आख्यान श्रवण करावे म्हणजे तो सर्वातून मुक्त होतो."


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे
नारायणनारदसंवादे दक्षिणोपाख्यानवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥

अध्याय पंचेचाळिसावा समाप्त

GO TOP