श्रीमद्‌देवीभागवत महापुराण
नवमः स्कन्धः
चतुस्त्रिंशोऽध्यायः


नानाकर्मविपाकफलवर्णनम्

यम उवाच
छिनत्ति जीवं खड्गेन दयाहीनः सुदारुणः ।
नरघाती हन्ति नरमर्थलोभेन भारते ॥ १ ॥
असिपत्रे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ।
तेषु यो ब्राह्मणान् हन्ति शतमन्वन्तरं वसेत् ॥ २ ॥
छिन्नाङ्‌गः संवसेत् सोऽपि खड्गधारेण सन्ततम् ।
अनाहारः शब्दमुच्चैर्यमदूतेन ताडितः ॥ ३ ॥
मन्थानः शतजन्मानि शतजन्मानि सूकरः ।
कुक्कुटः सप्त जन्मानि शृगालः सप्तजन्मसु ॥ ४ ॥
व्याघ्रश्च सप्त जन्मानि वृकश्चैव त्रिजन्मसु ।
सप्तजन्मसु मण्डूको यमदूतेन ताडितः ॥ ५ ॥
स भवेद्‍भारते वर्षे महिषश्च ततः शुचिः ।
ग्रामाणां नगराणां वा दहनं यः करोति च ॥ ६ ॥
क्षुरधारे वसेत्सोऽपि छिन्नाङ्‌गस्त्रियुगं सति ।
ततः प्रेतो भवेत्सद्यो वह्निवक्त्रो भ्रमन्महीम् ॥ ७ ॥
सप्तजन्मामेध्यभोजी कपोतः सप्तजन्मसु ।
ततो भवेन्महाशूली मानवः सप्तजन्मनि ॥ ८ ॥
सप्तजन्म गलत्कुष्ठी ततः शुद्धो भवेन्नरः ।
परकर्णे मुखं दत्त्वा परनिन्दां करोति यः ॥ ९ ॥
परदोषे महाश्लाघी देवब्राह्मणनिन्दकः ।
सूचीमुखे वसेत्सोऽपि सूचीविद्धो युगत्रयम् ॥ १० ॥
ततो भवेद्‌ वृश्चिकश्च सर्पश्च सप्तजन्मसु ।
वज्रकीटः सप्तजन्म भस्मकीटस्ततः परम् ॥ ११ ॥
ततो भवेन्मानवश्च महाव्याधिस्ततः शुचिः ।
गृहिणां हि गृहं भित्त्वा वस्तुस्तेयं करोति यः ॥ १२ ॥
गाश्च छागांश्च मेषांश्च याति गोकामुखे च सः ।
ताडितो यमदूतेन वसेत्तत्र युगत्रयम् ॥ १३ ॥
ततो भवेत्सप्तजन्म गोजातिर्व्याधिसंयुतः ।
त्रिजन्मनि मेषजातिश्छागजातिस्त्रिजन्मनि ॥ १४ ॥
ततो भवेन्मानवश्च नित्यरोगी दरिद्रकः ।
भार्याहीनो बन्धुहीनः सन्तापी च ततः शुचिः ॥ १५ ॥
सामान्यद्रव्यचौरश्च याति नक्रमुखं च सः ।
ताडितो यमदूतेन वसेत्तत्राब्दकत्रयम् ॥ १६ ॥
ततो भवेत्सप्तजन्म गोपतिर्व्याधिसंयुतः ।
ततो भवेन्मानवश्च महारोगी ततः शुचिः ॥ १७ ॥
हन्ति गाश्च गजांश्चैव तुरगांश्च नगांस्तथा ।
स याति गजदंशं च महापापी युगत्रयम् ॥ १८ ॥
ताडितो यमदूतेन नागदन्तेन सन्ततम् ।
स भवेद्‌गजजातिश्च तुरगश्च त्रिजन्मनि ॥ १९ ॥
गोजातिर्म्लेच्छजातिश्च ततः शुद्धो भवेन्नरः ।
जलं पिबन्तीं तृषितां गां वारयति यः पुमान् ॥ २० ॥
नरकं गोमुखाकारं कृमितप्तोदकान्वितम् ।
तत्र तिष्ठति सन्तप्तो यावन्मन्वन्तरावधि ॥ २१ ॥
ततो नरोऽपि गोहीनो महारोगी दरिद्रकः ।
सप्तजन्मान्त्यजातिश्च ततः शुद्धो भवेन्नरः ॥ २२ ॥
गोहत्यां ब्रह्महत्यां च करोति ह्यतिदेशिकीम् ।
यो हि गच्छत्यगम्यां च यः स्त्रीहत्यां करोति च ॥ २३ ॥
भिक्षुहत्यां महापापी भ्रूणहत्यां च भारते ।
कुम्भीपाके वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ॥ २४ ॥
ताडितो यमदूतेन चूर्ण्यमानश्च सन्ततम् ।
क्षणं पतति वह्नौ च क्षणं पतति कण्टके ॥ २५ ॥
क्षणं पतेत्तप्ततैले तप्तो येन क्षणं क्षणम् ।
क्षणं च तप्तलोहे च क्षणं च तप्तताम्रके ॥ २६ ॥
गृध्रो जन्मसहस्राणि शतजन्मानि सूकरः ।
काकश्च सप्त जन्मानि सर्पश्च सप्तजन्मसु ॥ २७ ॥
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ।
नानाजन्मसु स वृषस्ततः कुष्ठी दरिद्रकः ॥ २८ ॥
सावित्र्युवाच
विप्रहत्या च गोहत्या किंविधा चातिदैशिकी ।
का वा नृणामगम्या च को वा संध्याविहीनकः ॥ २९ ॥
अदीक्षितः पुमान्को वा को वा तीर्थप्रतिग्रही ।
द्विजः को वा ग्रामयाजी को वा विप्रोऽथ देवलः ॥ ३० ॥
शूद्राणां सूपकारश्च प्रमत्तो वृषलीपतिः ।
एतेषां लक्षणं सर्वं वद वेदविदां वर ॥ ३१ ॥
धर्मराज उवाच
श्रीकृष्णे च तदर्चायामन्येषां प्रकृतौ सति ।
शिवे च शिवलिङ्‌गे च सूर्ये सूर्यमणौ तथा ॥ ३२ ॥
गणेशे वाथ दुर्गायामेवं सर्वत्र सुन्दरि ।
यः करोति भेदबुद्धिं ब्रह्महत्यां लभेत्तु सः ॥ ३३ ॥
स्वगुरौ स्वेष्टदेवे च जन्मदातरि मातरि ।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ ३४ ॥
वैष्णवेषु च भक्तेषु ब्राह्मणेष्वितरेषु च ।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ ३५ ॥
विप्रपादोदके चैव शालग्रामोदके तथा ।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ ३६ ॥
शिवनैवेद्यके चैव हरिनैवेद्यके तथा ।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ ३७ ॥
सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे ।
सर्वाद्ये सर्वदेवानां सेव्ये सर्वान्तरात्मनि ॥ ३८ ॥
माययानेकरूपे वाप्येक एव हि निर्गुणे ।
करोतीशेन भेदं यो ब्रह्महत्यां लभेत्तु सः ॥ ३९ ॥
शक्तिभक्ते द्वेषबुद्धिं शक्तिशास्त्रे तथैव च ।
द्वेषं यः कुरुते मर्त्यो ब्रह्महत्यां लभेत्तु सः ॥ ४० ॥
पितृदेवार्चनं यो वा त्यजेद्वेदनिरूपितम् ।
यः करोति निषिद्धं च ब्रह्महत्यां लभेत्तु सः ॥ ४१ ॥
यो निन्दति हृषीकेशं तन्मन्त्रोपासकं तथा ।
पवित्राणां पवित्रं च ज्ञानानन्दं सनातनम् ॥ ४२ ॥
प्रधानं वैष्णवानां च देवानां सेव्यमीश्वरम् ।
ये नार्चयन्ति निन्दन्ति ब्रह्महत्यां लभन्ति ते ॥ ४३ ॥
ये निन्दन्ति महादेवीं कारणब्रह्मरूपिणीम् ।
सर्वशक्तिस्वरूपां च प्रकृतिं सर्वमातरम् ॥ ४४ ॥
सर्वदेवस्वरूपां च सर्वेषां वन्दितां सदा ।
सर्वकारणरूपां च ब्रह्महत्यां लभन्ति ते ॥ ४५ ॥
कृष्णजन्माष्टमीं रामनवमीं च सुपुण्यदाम् ।
शिवरात्रिं तथा चैकादशीं वारे रवेस्तथा ॥ ४६ ॥
पञ्च पर्वाणि पुण्यानि ये न कुर्वन्ति मानवाः ।
लभन्ति ब्रह्महत्यां ते चाण्डालाधिकपापिनः ॥ ४७ ॥
अम्बुवाच्यां भूखननं जलशौचादिकं च ये ।
कुर्वन्ति भारते वर्षे ब्रह्महत्यां लभन्ति ते ॥ ४८ ॥
गुरुञ्च मातरं तातं साध्वीं भार्यां सुतं सुताम् ।
अनिन्द्यां यो न पुष्णाति ब्रह्महत्यां लभेत्तु सः ॥ ४९ ॥
विवाहो यस्य न भवेन्न पश्यति सुतं तु यः ।
हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः ॥ ५० ॥
हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत् ।
पुण्यं पार्थिवलिङ्‌गं च ब्रह्महासौ प्रकीर्तितः ॥ ५१ ॥
गोप्रहारं प्रकुर्वन्तं दृष्ट्वा यो न निवारयेत् ।
याति गोविप्रयोर्मध्ये गोहत्या तु लभेत्तु सः ॥ ५२ ॥
दण्डैर्गोस्ताडयेन्मूढो यो विप्रो वृषवाहनः ।
दिने दिने गोवधं च लभते नात्र संशयः ॥ ५३ ॥
ददाति गोभ्य उच्छिष्टं भोजयेद्‌ वृषवाहकम् ।
भुनक्ति वृषवाहान्नं स गोहत्यां लभेद्‌ ध्रुवम् ॥ ५४ ॥
वृषलीपतिं याजयेद्यो भुङ्‌क्तेऽन्नं तस्य यो नरः ।
गोहत्याशतकं सोऽपि लभते नात्र संशयः ॥ ५५ ॥
पादं ददाति वह्नौ यो गाश्च पादेन ताडयेत् ।
गेहं विशेदधौताङ्‌घ्रिः स्नात्वा गोवधमाप्नुयात् ॥ ५६ ॥
यो भुङ्‌क्ते स्निग्धपादेन शेते स्निग्धाङ्‌घ्रिरेव च ।
सूर्योदये च यो भुङ्‌क्ते स गोहत्यां लभेद्‌ ध्रुवम् ॥ ५७ ॥
अवीरान्नं च यो भुङ्‌क्ते योनिजीव्यस्य च द्विजः ।
यस्त्रिसन्ध्याविहीनश्च गोहत्या लभते च सः ॥ ५८ ॥
स्वभर्तरि च देवे वा भेदबुद्धिं करोति या ।
कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेद्‌ ध्रुवम् ॥ ५९ ॥
गोमार्गवर्जनं कृत्वा ददाति सस्यमेव वा ।
तडागे वा तु दुर्गे वा स गोहत्यां लभेद्‌ ध्रुवम् ॥ ६० ॥
प्रायश्चित्ते गोवधस्य यः करोति व्यतिक्रमम् ।
पुत्रलोभादथाज्ञानात्स गोहत्या लभेद्‌ ध्रुवम् ॥ ६१ ॥
राजके दैवके यत्‍नाद्‌ गोस्वामी गां न रक्षति ।
दुःखं ददाति यो मूढो गोहत्यां स लभेद्‌ ध्रुवम् ॥ ६२ ॥
प्राणिनो लङ्घयेद्यो हि देवार्चामनलं जलम् ।
नैवेद्यं पुष्पमन्नं च स गोहत्यां लभेद्‌ ध्रुवम् ॥ ६३ ॥
शश्वन्नास्तीति यो वादी मिथ्यावादी प्रतारकः ।
देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद्‌ ध्रुवम् ॥ ६४ ॥
देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति ।
सम्भ्रमान्न नमेद्यो हि स गोहत्या लभेद्‌ ध्रुवम् ॥ ६५ ॥
न ददात्याशिषं कोपात्प्रणताय च यो द्विजः ।
विद्यार्थिने च विद्यां च स गोहत्यां लभेद्‌ ध्रुवम् ॥ ६६ ॥
गोहत्या विप्रहत्या च कथिता चातिदेशिकी ।
गम्यां स्त्रियं नृणामेव निबोध कथयामि ते ॥ ६७ ॥
स्वस्त्री गम्या च सर्वेषामिति वेदानुशासनम् ।
अगम्या च तदन्या या चेति वेदविदो विदुः ॥ ६८ ॥
सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि ।
अत्यगम्या हि या याश्च निबोध कथयामि ताः ॥ ६९ ॥
शूद्राणां विप्रपत्‍नी च विप्राणां शूद्रकामिनी ।
अत्यगम्या च निन्द्या च लोके वेदे पतिव्रते ॥ ७० ॥
शूद्रश्च ब्राह्मणीं गत्वा ब्रह्महत्याशतं लभेत् ।
तत्समं ब्राह्मणी चापि कुम्भीपाकं लभेद्‌ ध्रुवम् ॥ ७१ ॥
शूद्राणां विप्रपत्‍नी च विप्राणां शूद्रकामिनी ।
यदि शूद्रा व्रजेद्विप्रो वृषलीपतिरेव सः ॥ ७२ ॥
स भ्रष्टो विप्रजातेश्च चाण्डालात्सोऽधमः स्मृतः ।
विष्ठासमश्च तत्पिण्डो मूत्रं तस्य च तर्पणम् ॥ ७३ ॥
न पितॄणां सुराणां च तद्दत्तमुपतिष्ठति ।
कोटिजन्मार्जितं पुण्यं तस्यार्चात्तपसार्जितम् ॥ ७४ ॥
द्विजस्य वृषलीलोभान्नश्यत्येव न संशयः ।
ब्राह्मणश्च सुरापीतिर्विड्भोजी वृषलीपतिः ॥ ७५ ॥
तप्तमुद्रादग्धदेहस्तप्तशूलाङ्‌कितस्तथा ।
हरिवासरभोजी च कुम्भीपाकं व्रजेद्‌ द्विजः ॥ ७६ ॥
गुरुपत्‍नीं राजपत्‍नीं सपत्‍नीं मातरं ध्रुवम् ।
सुतां पुत्रवधूं श्वश्रूं सगर्भां भगिनीं सतीम् ॥ ७७ ॥
सहोदरभ्रातृजायां मातुलानीं पितुः प्रसूम् ।
मातुः प्रसूं तत्स्वसारं भगिनीं भ्रातृकन्यकाम् ॥ ७८ ॥
शिष्यां शिष्यस्य पत्‍नीं च भागिनेयस्य कामिनीम् ।
भ्रातुः पुत्रप्रियां चैवात्यगम्या आह पद्मजः ॥ ७९ ॥
एताः कामेन कान्ता यो व्रजेद्वै मानवाधमः ।
स मातृगामी वेदेषु ब्रह्महत्याशतं व्रजेत् ॥ ८० ॥
अकर्मार्होऽप्यसंस्पृश्यो लोके वेदे च निन्दितः ।
स याति कुम्भीपाके च महापापी सुदुष्करे ॥ ८१ ॥
करोत्यशुद्धां सन्ध्यां वा न सन्ध्यां वा करोति च ।
त्रिसन्ध्यं वर्जयेद्यो वा सन्ध्याहीनश्च स द्विजः ॥ ८२ ॥
वैष्णवं च तथा शैवं शाक्तं सौरं च गाणपम् ।
योऽहङ्‌कारान्न गृह्णाति मन्त्रं सोऽदीक्षितः स्मृतः ॥ ८३ ॥
प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् ।
तत्र नारायणः स्वामी गङ्‌गागर्भान्तरे वसेत् ॥ ८४ ॥
तत्र नारायणक्षेत्रे मृतो याति हरेः पदम् ।
वाराणस्यां बदर्यां च गङ्‌गासागरसङ्‌गमे ॥ ८५ ॥
पुष्करे हरिहरक्षेत्रे प्रभासे कामरूस्थले ।
हरिद्वारे च केदारे तथा मातृपुरेऽपि च ॥ ८६ ॥
सरस्वतीनदीतीरे पुण्ये वृन्दावने वने ।
गोदावर्यां च कौशिक्यां त्रिवेण्यां च हिमाचले ॥ ८७ ॥
एषु तीर्थेषु यो दानं प्रतिगृह्णाति कामतः ।
स च तीर्थप्रतिग्राही कुम्भीपाके प्रयाति सः ॥ ८८ ॥
शूद्रसेवी शूद्रयाजी ग्रामयाजीति कीर्तितः ।
तथा देवोपजीवी च देवलः परिकीर्तितः ॥ ८९ ॥
शूद्रपाकोपजीवी यः सूपकार इति स्मृतः ।
सन्ध्यापूजनहीनश्च प्रमत्तः पतितः स्मृतः ॥ ९० ॥
उक्तं सर्वं मया भद्रे लक्षणं वृषलीपतेः ।
एते महापातकिनः कुम्भीपाकं प्रयान्ति ते ।
कुण्डान्यन्यानि ये यान्ति निबोध कथयामि ते ॥ ९१ ॥


नरककुंडांची माहिती -

यमधर्म म्हणाला, "जो शस्त्राने प्राण्याला तोडतो, जो द्रव्यलोभाने माणसाला मारतो, तो चवदा इंद्र होईपर्यंत असितपत्र नरकात पडतो. त्याचे शरीर तलवारीच्या धारेने सोलतात. पुढे तो शंभर जन्म मंथान प्राणी, शंभर जन्म सूकर, सात जन्म कोंबडा, सात जन्म कोल्हा, सात जन्म व्याघ्र, तीन जन्म लांडगा, सात जन्म बेडूक होतो. यमदूत त्याला मारतात. नंतर तो भारतात रेडा होतो."

गावे व नगरे दहन करणारा छिन्नांग होऊन तीन युगे क्षुरधार नरकात पडतो. नंतर तो प्रेत होतो. सतत जळणार्‍या मुखाने तो पृथ्वीवर हिंडत रहातो. सात जन्म अमंगल प्राणी खातो, सात जन्म तो पारवा होतो. सात जन्म त्याच्या अंगावर कोड रहाते.

दुसर्‍याची निंदा करणारा, दुसर्‍याचे दोष काढणारा, देव-ब्राह्मणांचा निंदक अशा पुरुषाला सुयांच्या अग्रांनी टोचतात. त्याला तीन युगे सूचिमुख नरकात रहावे लागते. पुढे सात जन्मे विंचू व सर्प होऊन, सात जन्म गोठयातील किडा, सात जन्मे भस्मातला किडा, नंतर व्याधींनी युक्त असा मनुष्य होतो.

घरफोडया करणारा, गाई, बकरी इत्यादींचे हरण करणारा गोकामुख नरकात पडतो. तीन युगे तेथे यमदूत त्याला मारतात. नंतर तो गाईच्या जन्माला जातो. त्यानंतर तीन जन्म बकरा, तीन जन्म मेंढा व दरिद्री मनुष्य होतो. तेव्हा पीडलेला असा भार्याहीन राहतो. सामान्य द्रव्य चोरणारा नक्रकुंडात पडतो. तेथे तीन वर्षे यमदूतांचा मार खातो. व्याधींनी जर्जर असा बैल तो सात जन्मापर्यंत होतो. नंतर महारोगी मनुष्य होतो. गाई, बैल, हत्ती, घोडे, वृक्ष यांची हिंसा करणारा तीन युगे गजदंश कुंडात पडतो. तेथे त्याला हत्तीच्या दातांनी मारतात. पुढे तीन जन्म घोडा, हत्ती होतो. तो गाय व म्लेंच्छ योनीत जन्माला येतो.

जलपान करणार्‍या गाईला जो त्रास देतो, तो गोमुखाकार नरकात पडतो. तेथे एक मन्वंतर ताप भोगतो. नंतर दरिद्री महारोगी होऊन जन्माला येतो. पुढे सात जन्म चांडालयोनीत जातो. गोहत्या, ब्रह्महत्या करणारा, अगम्य गमन करणारा, स्त्री हत्या करणारा चवदा इंद्रपर्यंत कुंभिपाक नरकात पडतो. यमदूत ताडन करून त्याचे चूर्ण करतात. तो अग्नी व काटे यात पडतो. तप्त तेलात, तप्त लोखंडात, तप्त तांब्यात पडतो. हजार जन्म गिधाड होतो. शंभर जन्म सूकर, सात जन्म कावळा, सात जन्म सर्प होतो. नंतर साठ हजार वर्षे किडा होऊन विष्ठेत रहातो. नंतर बैल व नंतर दरिद्री मनुष्य होतो."

सावित्री म्हणाली, "शास्त्राने सांगितलेली विप्रहत्या, गोहत्या कोणती ? अगम्य स्त्री कोणती ? तीर्थात स्नान करणारा ब्राह्मण कोणता ? ब्राह्मण कोणाला म्हणावे ? शूद्रांचा स्वयंपाकी, वृषिलीपती यांचे लक्षण सांगा.

धर्मराज म्हणाला, "हे सती, श्रीकृष्णाची तसेच अन्यदेवांच्या प्रतिमा, शिवलिंग, सूर्यकांतमणी सूर्य, दुर्गा यांच्या ठायी जो भेदबुद्धी धरतो त्याला ब्रह्महत्येचे पातक लागते. विष्णुभक्त, ब्राह्मण व पुरुष यांच्यात भेदभाव करणारा; ब्राह्मणाचे पदतीर्थ, शालिग्राम तीर्थ यात भेद करणारा; शंकर व विष्णु यांच्या नैवेद्यात फरक जाणणारा; ईश्वरांचा ईश्वर, कारणांचे कारण, सर्वांचे मूळ, सर्वांचा अंतरात्मा; हा अनेकात भासत असला तरी तो एकच आहे, पण जो त्यात भेद मानतो त्या सर्वांना ब्रह्महत्या लागते.

वेदांनी निरूपण केलेली देव-पितर यांची पूजा जो करत नाही, निषिद्ध आचरण करणारा, मंत्री-उपासकांची निंदा करणारा, देवांची निंदा करणारा, तसेच सर्वश्रेष्ठ महादेवीची पूजा न करता निंदा करणारा, त्यास ब्रह्महत्या लागते. कृष्णजन्माष्टमी, रामनवमी, शिवरात्री, एकादशी, रविवार ही व्रते न करणारा त्यास ब्रह्महत्या लागते.
आर्द्रानक्षत्राच्या पहिल्या पादाचे तीन दिवस पृथ्वी रजस्वला असते, म्हणून तिला अंबुवाची म्हणतात. अशावेळी जो भूमी खणतो, तसेच जलात शौच जो करतो; गुरु, माता, पिता, साध्वी, पुत्र, कन्या यांना न पोसणारा; पुत्रमुख न पहाणारा; हरिभक्ती न करणारा; हरीचा नैवेद्य न खाणारा, नित्य विष्णुपूजा व पार्थिव लिंगाची पूजा न करणारा तो ब्रह्मघातकी होय. गोहत्येचे पाहूनही निवारण न करणार्‍यास गोहत्या लागते. बैलावर बसणारा प्रतिदिनी गोहत्याच करीत असतो.

शूद्र अथवा पतिताच्या स्त्रीला वृषली म्हणतात. तिच्या पतिकडून यज्ञ करणारा, अग्नीवर पाय देणारा, गाईला लत्ताप्रहार करणारा, पाय न धुता देवघरात जाणारा व भोजन करणारा, कुंटणखान्यात अन्न ग्रहण करणारा, संध्या न करणारा, या सर्वांना गोहत्या लागते.

पती व देव यांविषयी भेद करणारी, पतीस नित्य कटू भाषण करून ताडण करणारी, त्या स्त्रीस गोहत्या लागते. गाईचा मार्ग, किल्ला या ठिकाणी शेते पेरणारा, पुत्राने हत्या करूनही प्रायश्चित्तास विलंब करणारा, देवपूजा, उदक, नैवेद्य, पुष्पे, अन्न यांचे उल्लंघन करणार्‍यास गोहत्या लागते.

नकार देणारा, खोटे बोलणारा, फसवणारा, देवद्वेषी, गुरुद्वेषी, देव व ब्राह्मण यांना नमस्कार न करणारा, नमस्कार करणार्‍यास आशीर्वाद न देणारा, शिष्याला विद्या न देणारा, अशांना गोहत्या लाभते असे शास्त्राने सांगितले आहे.

आता योग्य स्त्रीची लक्षणे सांगतो. वेदाज्ञेत जे सांगितले आहे त्याशिवाय इतर स्त्रिया अगम्य होत. शूद्रास ब्राह्मण स्त्री, ब्राह्मणास शूद्र स्त्री निंद्य आहे. असा समागम झाल्यास ब्रह्महत्येचे पातक लागते. दोघेही कुंभिपाक नरकात पडतात. ब्राह्मणाने शूद्रपत्नी केल्यास अथवा शूद्राने ब्राह्मणपत्नी केल्यास ब्रह्महत्येचा दोष होतो. तो चांडाळाहूनही हीन होतो. त्याचे तर्पणसुद्धा मूत्राप्रमाणेच होय. त्याने कोटी जन्मात साचवलेले पुण्यही नष्ट होते. सुरापान करणारा, विष्ठाभोजन करणारा, वृषिलीपती ब्राह्मण, तप्त मुद्रांनी देहास डाग देणारा, एकादशीस भोजन करणारा कुंभिपाक नरकात पडतो. गुरुपत्नी, राजपत्नी, सापत्नमाता, कन्या, पुत्राची पत्नी, सासू, गरोदर स्त्री, बहीण, भावाची पत्नी, मामी, पितृमाता, मातेची आई, मातृभगिनी, भ्रातृकन्या, शिष्या, शिष्याची स्त्री, भाच्याची पत्नी इत्यादी स्त्रिया गमन करण्यास योग्य नव्हेत. त्याला शंभर ब्रह्महत्येची पातके लागतात.

असा पातकी पुरुष कर्मास अयोग्य, अस्पृश्य व निंद्य होय. तोही कुंभिपाक नरकात पडतो. शास्त्रविधी सोडून कर्मे करणारा अथवा कर्मे न करणारा, विष्णु, शिव, शक्ती, सूर्य, गणपती यांच्या मंत्रांचे ग्रहण करणारा तो अदीक्षित असे सांगितले आहे.

प्रवाहापासून चार हात खाली जो प्रदेश आहे, त्यात गंगेच्या अंतर्भागात स्वामी नारायणाचे वास्तव्य आहे. वाराणसी, बदरीआश्रम, गंगा व समुद्र यांचा संगम या ठिकाणी मृत्यू आल्यास हरीपद प्राप्त होते.

पुष्कर, हरिहर, प्रयाग, तसेच कामरुस्थळ, हरिद्वार, केदारक्षेत्र, मातृपूर, सरस्वती नदीच्या काठी, वृंदावनक्षेत्र, गोदावरी, कौशिकी, त्रिवेणी हिमालयावर या सर्व ठिकाणी, लोभी मनाने दान देणारा तीर्थप्रतिग्रह करणारा म्हणून समजावे. तो कुंभिपाक नरकात पडतो.

देवावर उपजीविका करणार्‍यास देवल म्हणतात. शूद्रपाकावर उपजीविका करणारास सूपकर म्हणतात. संध्यापूजा न करणार्‍यास पतित म्हणतात. हे सर्व कुंभिपाक नरकात पडतात. आता इतर कुंडात पडणारे कोणते ते सांगतो.


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे
नारायणनारदसंवादे सावित्र्युपाख्याने नानाकर्मविपाकफलवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥

अध्याय चौतिसावा समाप्त

GO TOP