श्रीमद्‌देवीभागवत महापुराण
नवमः स्कन्धः
चतुर्विंशोऽध्यायः


तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम्

नारद उवाच
नारायणश्च भगवान्वीर्याधानं चकार ह ।
तुलस्यां केन रूपेण तन्मे व्याख्यातुमर्हसि ॥ १ ॥
श्रीनारायण उवाच
नारायणश्च भगवान्देवानां साधनेषु च ।
शङ्‌खचूडस्य कवचं गहीत्वा विष्णुमायया ॥ २ ॥
पुनर्विधाय तद्‌रूपं जगाम तत्सतीगृहम् ।
पातिव्रतस्य नाशेन शङ्‌खचूडजिघांसया ॥ ३ ॥
दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ ।
जयशब्दं च तद्द्वारे बोधयामास सुन्दरीम् ॥ ४ ॥
तच्छ्रुत्वा च रवं साध्वी परमानन्दसंयुता ।
राजमार्गे गवाक्षेण ददर्श परमादरात् ॥ ५ ॥
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्‌गलम् ।
वन्दिभ्यो भिक्षुकेभ्यश्च वाचिभ्यश्च धनं ददौ ॥ ६ ॥
अवरुह्य रथाद्देवो देव्याश्च भवनं ययौ ।
अमूल्यरत्‍ननिर्माणं सुन्दरं सुमनोहरम् ॥ ७ ॥
दृष्ट्वा च पुरतः कान्तं सा तं कान्तं मुदान्विता ।
तत्पादं क्षालयामास ननाम च रुरोद च ॥ ८ ॥
रत्‍नसिंहासने रम्ये वासयामास कामुकी ।
ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥ ९ ॥
अद्य मे सफलं जन्म जीवनं च बभूव ह ।
रणे गतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे ॥ १० ॥
सस्मिता सकटाक्षं च सकामा पुलकाङ्‌किता ।
पप्रच्छ रणवृत्तान्तं कान्तं मधुरया गिरा ॥ ११ ॥
तुलस्युवाच
असंख्यविश्वसंहर्त्रा सार्धमाजौ तव प्रभो ।
कथं बभूव विजयस्तन्मे ब्रूहि कृपानिधे ॥ १२ ॥
तुलसीवचनं श्रुत्वा प्रहस्य कमलापतिः ।
शङ्‌खचूडस्य रूपेण तामुवाचामृतं वचः ॥ १३ ॥
श्रीभगवानुवाच
आवयोः समरः कान्ते पूर्णमब्दं बभूव ह ।
नाशो बभूव सर्वेषां दानवानां च कामिनि ॥ १४ ॥
प्रीतिञ्च कारयामास ब्रह्मा च स्वयमावयोः ।
देवानामधिकारश्च प्रदत्तस्तस्य चाज्ञया ॥ १५ ॥
मयागतं स्वभवनं शिवलोकं शिवो गतः ।
इत्युक्त्वा जगतां नाथः शयनं च चकार ह ॥ १६ ॥
रेमे रमापतिस्तत्र रामया सह नारद ।
सा साध्वी सुखसम्भोगादाकर्षणव्यतिक्रमात् ॥ १७ ॥
सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा ।
तुलस्युवाच
को वा त्वं वद मायेश भुक्ताहं मायया त्वया ॥ १८ ॥
दूरीकृतं मत्सतीत्वं यदतस्त्वां शपामि हे ।
तुलसीवचनं श्रुत्वा हरिः शापभयेन च ॥ १९ ॥
दधार लीलया ब्रह्मन् सुमूर्तिं सुमनोहराम् ।
ददर्श पुरतो देवी देवदेवं सनातनम् ॥ २० ॥
नवीननीरदश्यामं शरत्पङ्‌कजलोचनम् ।
कोटिकन्दर्पलीलाभं रत्‍नभूषणभूषितम् ॥ २१ ॥
ईषद्धास्यं प्रसन्नास्यं शोभितं पीतवाससम् ।
तं दृष्ट्वा कामिनी कामं मूर्च्छां सम्प्राप लीलया ॥ २२ ॥
पुनश्च चेतनां प्राप्य पुनः सा तमुवाच ह ।
तुलस्युवाच
हे नाथ ते दया नास्ति पाषाणसदृशस्य च ॥ २३ ॥
छलेन धर्मभङ्‌गेन मम स्वामी त्वया हतः ।
पाषाणहृदयस्त्वं हि दयाहीनो यतः प्रभो ॥ २४ ॥
तस्मात्पाषाणरूपस्त्वं भवे देव भवाधुना ।
ये वदन्ति च साधुं त्वां ते भ्रान्ता हि न संशयः ॥ २५ ॥
भक्तो विनापराधेन परार्थे च कथं हतः ।
भृशं रुरोद शोकार्ता विललाप मुहुर्मुहुः ॥ २६ ॥
ततश्च करुणां दृष्ट्वा करुणारससागरः ।
नयेन तां बोधयितुमुवाच कमलापतिः ॥ २७ ॥
श्रीभगवानुवाच
तपस्त्वया कृतं भद्रे मदर्थे भारते चिरम् ।
त्वदर्थे शङ्‌खचूडश्च चकार सुचिरं तपः ॥ २८ ॥
कृत्वा त्वां कामिनीं सोऽपि विजहार च तत्क्षणात् ।
अधुना दातुमुचितं तवैव तपसः फलम् ॥ २९ ॥
इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च ।
रामे रम मया सार्धं त्वं रमासदृशी भव ॥ ३० ॥
इयं तनुर्नदीरूपा गण्डकीति च विश्रुता ।
पूता सुपुण्यदा नॄणां पुण्ये भवतु भारते ॥ ३१ ॥
तव केशसमूहश्च पुण्यवृक्षो भविष्यति ।
तुलसीकेशसम्भूता तुलसीति च विश्रुता ॥ ३२ ॥
त्रिषु लोकेषु पुष्पाणां पत्राणां देवपूजने ।
प्रधानरूपा तुलसी भविष्यति वरानने ॥ ३३ ॥
स्वर्गे मर्त्ये च पाताले गोलोके मम सन्निधौ ।
भव त्वं तुलसी वृक्षवरा पुष्पेषु सुन्दरी ॥ ३४ ॥
गोलोके विरजातीरे रासे वृन्दावने वने ।
भाण्डीरे चम्पकवने रम्ये चन्दनकानने ॥ ३५ ॥
माधवीकेतकीकुन्दमालिकामालतीवने ।
वासस्तेऽत्रैव भवतु पुण्यस्थानेषु पुण्यदः ॥ ३६ ॥
तुलसीतरुमूलेषु पुण्यदेशेषु पुण्यदम् ।
अधिष्ठानं च तीर्थानां सर्वेषां च भविष्यति ॥ ३७ ॥
तत्रैव सर्वदेवानां ममाधिष्ठानमेव च ।
तुलसीपत्रपतनप्राप्तये च वरानने ॥ ३८ ॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
तुलसीपत्रतोयेन योऽभिषेकं समाचरेत् ॥ ३९ ॥
सुधाघटसहस्राणां या तुष्टिस्तु भवेद्धरेः ।
सा च तुष्टिर्भवेन्नूनं तुलसीपत्रदानतः ॥ ४० ॥
गवामयुतदानेन यत्फलं तत्फलं भवेत् ।
तुलसीपत्रदानेन तत्फलं कार्तिके सति ॥ ४१ ॥
तुलसीपत्रतोयं च मृत्युकाले च यो लभेत्।
मुच्यते सर्वपापेभ्यो विष्णुलोके महीयते ॥ ४२ ॥
नित्यं यस्तुलसीतोयं भुंक्ते भक्त्या च मानवः ।
लक्षाश्वमेधजं पुण्यं सम्प्राप्नोति स मानवः ॥ ४३ ॥
तुलसीं स्वकरे कृत्वा धृत्वा देहे च मानवः ।
प्राणांस्त्यजति तीर्थेषु विष्णुलोकं स गच्छति ॥ ४४ ॥
तुलसीकाष्ठनिर्माणमालां गृह्णाति यो नरः ।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ४५ ॥
तुलसीं स्वकरे कृत्वा स्वीकारं यो न रक्षति ।
स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ ॥ ४६ ॥
करोति मिथ्याशपथं तुलस्या योऽत्र मानवः ।
स याति कुम्भीपाकं च यावदिन्द्राश्चतुर्दश ॥ ४७ ॥
तुलसीतोयकणिकां मृत्युकाले च यो लभेत् ।
रत्‍नयानं समारुह्य वैकुण्ठे प्राप्यते ध्रुवम् ॥ ४८ ॥
पूर्णिमायाममायां च द्वादश्यां रविसंक्रमे ।
तैलाभ्यङ्‌गं च कृत्वा च मध्याह्ने निशि सन्ध्ययोः ॥ ४९ ॥
अशौचेऽशुचिकाले ये रात्रिवासोऽन्विता नराः ।
तुलसीं ये विचिन्वन्ति ते छिन्दन्ति हरेः शिरः ॥ ५० ॥
त्रिरात्रं तुलसीपत्रं शुद्धं पर्युषितं सति ।
श्राद्धे व्रते च दाने च प्रतिष्ठायां सुरार्चने ॥ ५१ ॥
भूगतं तोयपतितं यद्दत्तं विष्णवे सति ।
शुद्धं च तुलसीपत्रं क्षालनादन्यकर्मणि ॥ ५२ ॥
वृक्षाधिष्ठातृदेवी या गोलोके च निरामये ।
कृष्णेन सार्धं नित्यं च नित्यक्रीडां करिष्यसि ॥ ५३ ॥
नद्यधिष्ठातृदेवी या भारते च सुपुण्यदा ।
लवणोदस्य सा पत्‍नी मदंशस्य भविष्यति ॥ ५४ ॥
त्वं च स्वयं महासाध्वी वैकुण्ठे मम सन्निधौ ।
रमासमा च रामा च भविष्यसि न संशयः ॥ ५५ ॥
अहं च शैलरूपेण गण्डकीतीरसन्निधौ ।
अधिष्ठानं करिष्यामि भारते तव शापतः ॥ ५६ ॥
कोटिसंख्यास्तत्र कीटास्तीक्ष्णदंष्ट्रावरायुधैः ।
तच्छिलाकुहरे चक्रं करिष्यन्ति मदीयकम् ॥ ५७ ॥
एकद्वारं चतुश्चक्रं वनमालाविभूषितम् ।
नवीननीरदाकारं लक्ष्मीनारायणाभिधम् ॥ ५८ ॥
एकद्वारं चतुश्चक्रं नवीननीरदोपमम् ।
लक्ष्मीजनार्दनो ज्ञेयो रहितो वनमालया ॥ ५९ ॥
द्वारद्वये चतुश्चक्रं गोष्पदेन विराजितम् ।
रघुनाथाभिधं ज्ञेयं रहितं वनमालया ॥ ६० ॥
अतिक्षुद्रं द्विचक्रं च नवीनजलदप्रभम् ।
तद्वामनाभिधं ज्ञेयं रहितं वनमालया ॥ ६१ ॥
अतिक्षुद्रं द्विचक्रं च वनमालाविभूषितम् ।
विज्ञेयं श्रीधरं रूपं श्रीप्रदं गृहिणा सदा ॥ ६२ ॥
स्थूलं च वर्तुलाकारं रहितं वनमालया ।
द्विचक्रं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम् ॥ ६३ ॥
मध्यमं वर्तुलाकारं द्विचक्रं बाणविक्षतम् ।
रणरामाभिधं ज्ञेयं शरतूणसमन्वितम् ॥ ६४ ॥
मध्यमं सप्तचक्रञ्च छत्रभूषणभूषितम् ।
राजराजेश्वरं ज्ञेयं राजसम्पत्प्रदं नृणाम् ॥ ६५ ॥
द्विसप्तचक्रं स्थूलं च नवनीरदसुप्रभम् ।
अनन्ताख्यं च विज्ञेयं चतुर्वर्गफलप्रदम् ॥ ६६ ॥
चक्राकारं द्विचक्रं च सश्रीकं जलदप्रभम् ।
सगोष्पदं मध्यमं च विज्ञेयं मधुसूदनम् ॥ ६७ ॥
सुदर्शनं चैकचक्रं गुप्तचक्रं गदाधरम् ।
द्विचक्रं हयवक्त्राभं हयग्रीवं प्रकीर्तितम् ॥ ६८ ॥
अतीव विस्तृतास्यं च द्विचक्रं विकटं सति ।
नरसिंहं सुविज्ञेयं सद्यो वैराग्यदं नृणाम् ॥ ६९ ॥
द्विचक्रं विस्तृतास्यं च वनमालासमन्वितम् ।
लक्ष्मीनृसिंहं विज्ञेयं गृहिणां च सुखप्रदम् ॥ ७० ॥
द्वारदेशे द्विचक्रं च सश्रीकं च समं स्फुटम् ।
वासुदेवं तु विज्ञेयं सर्वकामफलप्रदम् ॥ ७१ ॥
प्रद्युम्नं सूक्ष्मचक्रं च नवीननीरदप्रभम् ।
सुषिरच्छिद्रबहुलं गृहिणा च सुखप्रदम् ॥ ७२ ॥
द्वे चक्रे चैकलग्ने च पृष्ठं यत्र तु पुष्कलम् ।
सङ्‌कर्षणं सुविज्ञेयं सुखदं गृहिणां सदा ॥ ७३ ॥
अनिरुद्धं तु पीताभं वर्तुलं चातिशोभनम् ।
सुखप्रदं गृहस्थानां प्रवदन्ति मनीषिणः ॥ ७४ ॥
शालग्रामशिला यत्र तत्र सन्निहितो हरिः ।
तत्रैव लक्ष्मीर्वसति सर्वतीर्थसमन्विता ॥ ७५ ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
तानि सर्वाणि नश्यन्ति शालग्रामशिलार्चनात् ॥ ७६ ॥
छत्राकारे भवेद्‌राज्यं वर्तुले च महाश्रियः ।
दुःखञ्च शकटाकारे शूलाग्रे मरणं ध्रुवम् ॥ ७७ ॥
विकृतास्ये च दारिद्र्यं पिङ्‌गले हानिरेव च ।
भग्नचक्रे भवेद्व्याधिर्विदीर्णे मरणं ध्रुवम् ॥ ७८ ॥
व्रतं दानं प्रतिष्ठा च श्राद्धं च देवपूजनम् ।
शालग्रामस्य सान्निध्यात्प्रशस्तं तद्‍भवेदिति ॥ ७९ ॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
सर्वयज्ञेषु तीर्थेषु व्रतेषु च तपःसु च ॥ ८० ॥
पाठे चतुर्णां वेदानां तपसां करणे सति ।
तत्पुण्यं लभते नूनं शालग्रामशिलार्चनात् ॥ ८१ ॥
(शालग्रामशिलातोयैर्योऽभिषेकं सदा चरेत् ।
सर्वदानेषु यत्पुण्यं प्रदक्षिणं भुवो यथा ॥) ॥
शालग्रामशिलातोयं नित्यं भुङ्‌क्ते च यो नरः ।
सुरेप्सितं प्रसादं च लभते नात्र संशयः ॥ ८२ ॥
तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखिलानि च ।
जीवन्मुक्तो महापूतोऽप्यन्ते याति हरेः पदम् ॥ ८३ ॥
तत्रैव हरिणा सार्धमसंख्यं प्राकृतं लयम् ।
यास्यत्येव हि दास्ये च नियुक्तो दास्यकर्मणि ॥ ८४ ॥
यानि कानि च पापानि ब्रह्महत्यासमानि च ।
तं दृष्ट्वा च पलायन्ते वैनतेयादिवोरगाः ॥ ८५ ॥
तत्पादरजसा देवी सद्यःपूता वसुन्धरा ।
पुंसां लक्षं तत्पितॄणां निस्तरेत्तस्य जन्मतः ॥ ८६ ॥
शालग्रामशिलातोयं मृत्युकाले च यो लभेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ८७ ॥
निर्वाणमुक्तिं लभते कर्मभोगात्प्रमुच्यते ।
विष्णोः पदे प्रलीनश्च भविष्यति न संशयः ॥ ८८ ॥
शालग्रामशिलां धृत्वा मिथ्यावाक्यं वदेत्तु यः ।
स याति कुम्भीपाके च यावद्वै ब्रह्मणो वयः ॥ ८९ ॥
शालग्रामशिलां धृत्वा स्वीकारं यो न पालयेत् ।
स प्रयात्यसिपत्रं च लक्षमन्वन्तरावधि ॥ ९० ॥
तुलसीपत्रविच्छेदं शालग्रामे करोति यः ।
तस्य जन्मान्तरे कान्ते स्त्रीविच्छेदो भविष्यति ॥ ९१ ॥
तुलसीपत्रविच्छेदं शङ्‌खे यो हि करोति च ।
भार्याहीनो भवेत्सोऽपि रोगी च सप्तजन्मसु ॥ ९२ ॥
शालग्रामं च तुलसीं शङ्‌खं चैकत्र एव च ।
यो रक्षति महाज्ञानी स भवेच्छ्रीहरेः प्रियः ॥ ९३ ॥
सकृदेव हि यो यस्यां वीर्याधानं करोति च ।
तद्विच्छेदे तस्य दुःखं भवेदेव परस्परम् ॥ ९४ ॥
त्वं प्रिया शङ्‌खचूडस्य चैकमन्वन्तरावधि ।
शङ्‌खेन सार्धं त्वद्‍भेदः केवलं दुःखदस्तथा ॥ ९५ ॥
इत्युक्त्वा श्रीहरिस्तां च विरराम च नारद ।
सा च देहं परित्यज्य दिव्यरूपं विधाय च ॥ ९६ ॥
यथा श्रीश्च तथा सा चाप्युवास हरिवक्षसि ।
स जगाम तया सार्धं वैकुण्ठं कमलापतिः ॥ ९७ ॥
लक्ष्मीः सरस्वती गङ्‌गा तुलसी चापि नारद ।
हरेः प्रियाश्चतस्रश्च बभूवुरीश्वरस्य च ॥ ९८ ॥
सद्यस्तद्देहजाता च बभूव गण्डकी नदी ।
ईश्वरः सोऽपि शैलश्च तत्तीरे पुण्यदो नृणाम् ॥ ९९ ॥
कुर्वन्ति तत्र कीटाश्च शिलां बहुविधां मुने ।
जले पतन्ति या याश्च फलदास्ताश्च निश्चितम् ॥ १०० ॥
स्थलस्थाः पिङ्‌गला ज्ञेयाश्चोपतापाद्रवेरिति ।
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥ १०१ ॥


शालिग्राम व तुलसी यांचे महत्त्व -

नारदाने विचारले, "श्रीहरीने तुलशीचे पातिव्रत्य कसे भंग केले ?"

श्रीनारायणमुनी म्हणाले, "हे नारदा, सिद्धी प्राप्त व्हावी म्हणून हरीने शंखचूडाचे कवच मागून घेतले. शंखवूडाचे रूप घेऊन तो नगरीत गेला. प्रासादाजवळ जाऊन त्याने विजय प्राप्त झाल्याची निशाणी म्हणून दुंदुभीचा गजर करविला. जयदुंदुभी ऐकताच तुलसीला अत्यानंद झाला आणि गवाक्षातून ती राजमार्गाकडे पाहू लागली. इकडे श्रीहरीने ब्राह्मणांना दाने दिली. शुभाशुभ वार्ता सांगणार्‍या हेरांनाही विपुल द्रव्य दिले.

रथातून उतरल्यावर तो तुलसीच्या मंदिरात गेला. त्या रत्नजडित मंदिरात पोहोचताच तुलसीने त्याला पती समजून त्याचे पूज्य भावनेने पाय धुतले. त्याला नमस्कार करून त्या कामुकीने श्रीहरीला शृंगारलेल्या रत्नमय मंचकावर बसविले. त्याला सुवासिक तांबूल दिला. ती म्हणाली,

"रणांगणातून परत आलेल्या पतीला अवलोकन करून मला परम आनंद झाला आहे. आज माझे जीवन सफल झाले."

कामविव्हल होऊन तिने त्याच्याकडे पाहून कामुक कटाक्ष फेकले. तिने पतीला रणातील वृत्तांत विचारले, "हे प्रभो, विश्वसंहारक शंकराशी युद्ध करून तुमचा जय कसा झाला ?"

तेव्हा तो प्रभू हसतमुखाने म्हणाला, "हे कांते, एक पूर्ण वर्ष युद्ध झाल्यावर ब्रह्मदेवाच्या आज्ञेवरून मी देवांचे राज्य परत दिले. मी व शिव आपापल्या स्थानी गेले. हे कामिनी, सर्व दानवांचा नाश झाला आहे. ब्रह्मदेवाने देवांचे व माझे सख्य करून दिले. नंतर मी येथे आलो."

असे सांगून तो जगन्नाथ मंचकावर पहुडला. ते दोघेही रममाण झाले. पण सुरतक्रीडेचे विविध प्रकार लक्षात येताच ती भयभीत झाली. सर्व प्रकार तिच्या ध्यानी आला. ती म्हणाली, "हे कपटशिरोमणे, तू कोण ? कपटाने तू मला भोगलेस, तू माझे सतित्त्व भंग केलेस, म्हणून मी तुला शाप देते."

हे शब्द ऐकताच श्रीहरीने आपले मनोहर दर्शन दिले. त्या सनातन, तेजस्वी, पीतवस्त्रधारी देवास पहाताच तिला मूर्च्छा आली. सावध झाल्यावर ती म्हणाली, "हे देवा, तू पाषाणहृदयी आहेस. कपटाने तू धर्मभंग करून माझ्या स्वामीस मारलेस, म्हणून हे प्रभो, तू संसारास पाषाण होऊन रहाशील. तुला साधु म्हणणारे सर्वजण मूर्ख आहेत. तू माझ्या पतीला मारलेस."

असे म्हणून ती विव्हल होऊन रडू लागली. त्यानंतर त्या कमलापतीने तिला नीतिमत्तेच्या गोष्टी सांगून तिचे सांत्वन करण्याचा प्रयत्न केला. श्रीभगवान म्हणाले, "हे कल्याणी, तू माझ्यासाठी व शंखचूडाने तुझ्यासाठी दारूण तप केले. तुझ्या तपाची फलप्राप्ती व्हावी म्हणून तू दिव्य देह धारण करून रमेप्रमाणे माझ्याशी रममाण हो. तुझे शरीर गंडकी नावाच्या नदीरूप होवो. तू भारत वर्षात पुण्यवान हो. तुझे जल पाप्यांना पवित्र करणारे होवो. तुझा केशसंभार पुण्यवृक्षाप्रमाणे होईल. तू तुलसी नावाने प्रसिद्ध पावशील.

तू पुष्पांत श्रेष्ठ होशील. गोलोकात विरजा नदीच्या तीरावर, वृंदावनातील रासमंडलात, चंपकवनात, चंदनवनात, सर्व ठिकाणी तुझे पुण्यकारक वास्तव्य होवो. माझ्या वराने वृक्षाच्या मूळ ठिकाणी पुण्यक्षेत्र होईल. तुलसीपत्राने अभिषेक केल्याने पुण्यक्षेत्रातील स्नानाचे पुण्य मिळेल. हजारो अमृतघटांपेक्षा तुळशीच्या एका पानाने हरी तृप्त होतो. हजार गोप्रदानाचे पुण्य कार्तिकात तुळशीपत्र वाहिल्याने मिळते. मृत्यूसमयी तुलसीपत्राचे उदक प्राप्त होणार्‍यास मुक्ती मिळते.

नित्य तुलसीपत्र भक्षण करणार्‍यास हजारो अश्वमेधांचे पुण्य मिळते. तुलसीपत्र हातात घेऊन दिलेले वचन न पाळणार्‍यास कालसूत्र नरकाची प्राप्ती होते, तसेच खोटी शपथ वहाणार्‍यास चौदा इंद्र होईतो कुंभीपाक नरकात खितपत पडावे लागते.
पौर्णिमा, अमावास्या, द्वादशी, सूर्यक्रांतीचे दिवशी तसेच अपवित्रकाली, मलिन वस्त्रासहित जे तुलसीपत्र तोडतात ते हरीचेच मस्तक तोडतात. या वृक्षाची अधिष्ठात्री देवी गोलोकात कृष्णासह नित्य क्रीडारत होते. नदीच्या अधिष्ठात्री देवता, माझ्या अंशरूप लावण्याने सागराची पत्नी होईल. तू वैकुंठात माझी प्रियाच होशील.

तुझ्या शापामुळे मी गंडकीतीरावर शैलरूपाने वसती करीन. तीस दाढांनी युक्त असलेले असंख्य किडे तेथे शीलेवर माझे चक्र करतील. तेच लक्ष्मीनारायण चक्र होय. दोन द्वारातील चार चक्रांचे गोप्रदान असलेले चक्र रघुनाथ म्हणून प्रसिद्ध आहे. लहान व दोन चक्रांनी युक्त असे जे चक्र त्याला वासनामिध म्हणतात. अत्यंत व वनमालायुक्त चक्राला श्रीधर म्हणतात. स्थूल व वर्तुलाकार असलेल्या चक्राचे नाव दामोदर आहे.

मध्यम आकाराच्या, बाण कोरलेल्या चक्रास रणराम म्हणतात. सात चक्रे छत्रभूषणांनी युक्त असल्यास राजराजेश्वर चक्र, मेघकांतीचे चारी फले देणारे अनंत चक्र, चक्राकार दोन चाके असलेले मधुसूदन चक्र, ज्या चक्रावरील सुदर्शन गुप्त आहे ते गदाधर चक्र, दोन चक्रांचे ओबडधोबड असलेले वैराग्यदायक नारसिंहचक्र, विस्तृत मुखांचे दोन चक्रे असलेले लक्ष्मीनृसिंह, द्वारभागी वासुदेव चक्र हे सर्व मनोरथ पूर्ण करणारे आहे.

सर्वांना सुख देणारे प्रद्युम्न चक्र, तसेच सर्वफल देणारे संकर्षण चक्र, पिवळे व वर्तुलाकार अनिरुद्ध नावाचे चक्र सुखदायक आहे.

ज्या ठिकाणी शालग्राम शीला असते, तेथे हरी व लक्ष्मी रहात असते. त्याच्या पूजनाने पातकांपासून मुक्ती मिळते. छत्राकार शीला असल्यास राज्यप्राप्ती, वर्तुळाकार असल्यास संपत्ती, शकटाकार असेल तर दुःख, शूलाप्रमाणे अग्रभाग असल्यास मृत्यू, शीलेचे मुख ओबडधोबड असल्यास दारिद्र्य, पिंगल असल्यास हानी, भग्न झाले असल्यास व्याधी प्राप्त होते, विदीर्ण असल्यास मरण संभवते.

व्रत, दान, प्रतिष्ठा, श्रद्धा, देवाची पूजा वगैरेमध्ये शालिग्राम असल्यास प्रशस्त होते. शालिग्राम असणार्‍याला तीर्थक्षेत्रात स्नान केल्याचे पुण्य मिळते, तसेच त्याला यज्ञदीक्षेचे, तीर्थे, व्रते, तपे वगैरे केल्याचे पुण्य मिळते. शालिग्रामशीलेचे उदक प्राशन केल्यास सर्व मनोरथ पूर्ण होतात. अंतकाली तो वैकुंठात जातो. ब्रह्महत्त्येची पापेसुद्धा नष्ट होतात.

त्याच्या पदरजाने देवी वसुंधराही सत्वर पवित्र होते.

शालिग्राम हातात धरून खोटे बोलणारा ब्रह्मदेवाचे आयुष्य असेपर्यंत कुंभिपाक नरकात पडतो. शालिग्राम शीला घेऊन असत्य वचन करणारा एक लक्ष मन्वंतरे असिपत्र नावाच्या नरकात पडतो.

हे कांते, "शालिग्रामावरील तुलसीपत्राचा विच्छेद केल्यास स्त्रीवियोग घडतो. शंखावरील तुलसीपत्राचा विच्छेद केल्यास भार्याहीन व रोगग्रस्त होतो. शालिग्राम, शंख व तुलसी हे एकत्र ठेवणारा महाज्ञानी व हरीप्रिय होतो.

एकदा जो जिच्या ठिकाणी वीर्याधान करतो, तिचा विच्छेद केल्यास त्याला दुःखे प्राप्त होतात. तू एक मन्वंतर शंखचूडाची प्रिया आहेस म्हणून तुझा शंखाशी वियोग होणे हे दुःखद आहे."

श्रीहरीने अशारीतीने तुलसीची समजूत घातली. नंतर देह टाकून तिने दिव्यरूप धारण केले आणि ती हरीच्या वक्षस्थळी राहिली. नंतर तिच्यासह श्रीहरी वैकुंठी गेला. लक्ष्मी, सरस्वती, गंगा, तुलसी चारी स्त्रिया हरीला प्रिय आहेत.

त्याचवेळी तिच्या देहापासून गंडकी नदी उत्पन्न झाली. हरीसुद्धा तिच्या तीरावरील एक पर्वत झाला. तेथील विविध किडे, विविध शीला कोरत असतात. त्यातील उदकात पडणार्‍या शीला पुण्यफल देणार्‍या असतात. जमिनीवर पडलेल्या शीला सूर्याच्या उष्णतेमुळे पिंगल होतात.


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां नवमस्कन्धे
नारायणनारदसंवादे तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥

अध्याय चोविसावा समाप्त

GO TOP