ब्रह्मवैवर्तपुराणम्
तृतीयं गणपतिखण्डम् - षट्चत्वारिंशोऽध्यायः
परशुरामागमगनै-तत्खण्डश्रवणफलवर्णनम् -
नारायण उवाच
स्तुत्वा तां परशुरामोऽसौ हर्षसंफुल्लमानसः ।
स्तोत्रेण हरिणोक्तेन स तुष्टाव गणाधिपम् ॥१ ॥
पूजां चकार भक्त्या च नैवेद्यैर्विविधैरपि ।
धूपैर्दीपैश्च गन्धैश्च पुष्पैश्च तुलसीं विना ॥२॥
संपूज्य भातरं भक्त्या स रामः शंकराज्ञया ।
गुरुपत्नीं गुरुं नत्वा गमनं कर्तुमुद्यतः ॥३॥
नारद उवाच
पूजां भगवतश्चक्रे रामो गणपतेर्यदा ।
नैवेद्यैर्विविधैः पुष्पैस्तुलसीं च विना कथम् ॥४॥
तुलसी सर्वपुष्पाणां मान्या धन्या मनोहरा ।
कथं पूतां सारभूतां न गृह्णाति गणेश्वरः ॥५॥
नारायण उवाच
शृणु नारद वक्ष्येऽहमितिहासं पुरातनम् ।
ब्रह्मकल्पस्य वृत्तान्तं निगूढं च मनोहरम् ॥६॥
एकदा तुलसी देवी प्रोद्भिन्ननवयौवना ।
तीर्थं भ्रमन्ती तपसा नारायणपरायणा ॥७॥
ददर्श गङ्गातीरे सा गणेशं यौवनान्वितम् ।
अतीव सुन्दरं शुद्धं सस्मितं पीतवाससम् ॥८॥
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ।
ध्यायन्तं कृष्णपादाब्जं जन्ममृत्युजरापहम् ॥९॥
जितेन्द्रियाणां प्रवरं योगीन्द्राणां गुरोर्गुरुम् ।
सुरूपहार्यं निष्कामं सकामा तमुवाच ह ॥१०॥
तुलस्युवाच
अहो ध्यायसि किं देव शान्तरूप गजानन ।
कथं लम्बोदरो देहो गजवक्त्रं कथं तव ॥ ११ ॥
एकदन्तः कथं वक्त्रे वदामुत्र च कारणम् ।
त्यज ध्यानं महाभाग सायंकाल उपस्थितः ॥१२॥
इत्युवत्वा तुलसी देवी प्रजहास पुनः पुनः ।
परं चेतसि दग्धा सा कामवाणैः सुदारुणैः ॥१३॥
गणेशस्य प्रधानाङ्गे दत्त्वा किंचिज्जलं मुने ।
जघान तर्जन्यग्रेण निष्पन्दं कृष्णमानसम् ॥१४॥
बभूव ध्यानभग्नं च तस्य नारद चेतनम् ।
दुःखं च ध्यानभेदेन तद्विच्छेदो हि शोकदः ॥१५॥
ध्यानं त्यक्त्वा हरिं स्मृत्वा चापश्यत्कामिनीं पुरः ।
नवयौवनसंपन्नां सस्मितां कामपीडिताम् ॥ १६॥
लम्बोदरश्च तां दृष्ट्वा परं विनयपूर्वकम् ।
उवाच सस्मितः शान्तः शान्तां कामातुरा वशी ॥१७॥
गणेश्वर उवाच
का त्वं वत्से कस्य कन्या मातर्मां ब्रूहि किं शुभे ।
पापदोऽशुभदः शश्वद्ध्यानभङ्गस्तपस्विनाम् ॥१८॥
कृष्णः करोतु कल्याणं हन्तु विघ्नं कृपानिधिः ।
तद्ध्यानभङ्गजाद्दोषान्नाशुभं स्यात्तु ते शुभे ॥१९॥
गणेशवचनं श्रुत्वा तमुवाच स्मरातुरा ।
सस्मितं सकटाक्षं च देवं मधुरया गिरा ॥२०॥
तुलस्युवाच
धर्मात्मजस्य कन्याऽहमप्रौढा च तपस्विनी ।
तपस्या मे स्वामिनोऽर्थे त्वं स्वामी भव मे प्रभो ॥२१॥
तुलसीवचनं श्रुत्वा गणेशः श्रीहरिं स्मरन् ।
तामुवाच महाप्राज्ञः प्राज्ञीं मधुरया गिरा ॥२२॥
गणेश उवाच
हे मातर्नास्ति मे वाञ्छा घोरे दारपरिग्रहे ।
दारग्रहो हि दुःखाय न सुखाय कदाचन ॥२३॥
हरिभक्तेर्व्यवायश्च तपस्यानाशकारकः ।
मोक्षद्वारकपाटश्च भवबन्धनपाशकः ॥२४॥
गर्भवासकरः शश्वतत्त्वज्ञाननिकृन्तकः ।
संशयानां समारम्भो यस्त्याज्यो वृषलैरपि ॥२५॥
गेहोऽहकरणानां च सर्वमायाकरण्डकम् ।
साहसानां समूहश्च दोषाणां च विशेषतः ॥२६॥
निवर्तस्व महाभागे पश्यान्यं कामुकं पतिम् ।
कामुकेनैव कामुक्याः संगमो गुणवान्भवेत् ॥२७॥
इत्येवं वचनं श्रुत्वा कोपात्सा तं शशाप ह ।
दारास्ते भविताऽसाध्वी गणेश्वर न संशयः ॥२८॥
इत्याकर्ण्य सुरश्रेष्ठस्तां शशाप शिवात्मजः ।
देवि त्वमसुरग्रस्ता भविष्यसि न संशयः ॥२९॥
तत्पश्चान्महता शापाद्वृक्षस्त्वं भवितेति च ।
महातपस्वीत्युक्त्वा तां विरराम च नारद ॥३०॥
शापं श्रुत्वा तु तुलसी सा रुरोद पुनः पुनः ।
तुष्टाव च सुरश्रेष्ठं स प्रसन्न उवाच ताम् ॥३१ ॥
गणेश्वर उवाच
पुष्पाणां सारभूता त्वं भविष्यसि मनोरमे ।
कलांशेन महाभागे स्वयं नारायणप्रिया ॥३२॥
प्रिया त्वं सर्वदेवानां श्रीकृष्णस्य विशेषतः ।
पूता विमुक्तिदा नृणां मया भोग्या न नित्यशः ॥३३॥
इत्युक्त्वा तां सुरश्रेष्ठो जगाम तपसे पुनः ।
हरेराराधनव्यग्रो बदरीसंनिधिं ययौ ॥३४॥
जगाम तुलसीदेवी हृदयेन विदूयता ।
निराहारा तपश्चक्रे पुष्करे लक्षवर्षकम् ॥३५॥
पश्चान्मुनीन्द्रशापेन गणेशस्य च नारद ।
सा प्रिया शङ्खचूडस्य बभूव सुचिरं मुने ॥३६॥
ततः शंकरशूलेन स ममारासुरेश्वरः ।
सा कलांशेन वृक्षत्वं ययौ नारायणप्रिया ॥३७॥
कथितश्चेतिहासस्ते श्रुतो धर्ममुखात्पुरा ।
मोक्षप्रदश्च सारश्च पुराणेन प्रकीर्तितः ॥३८॥
ततः परशुरामोऽसौ जगाम तपसे वनम् ।
प्रणम्य शंकरं दुर्गा संपूज्य च गणेश्वरम् ॥३९॥
पूजितो वन्दितः सर्वैः सुरेन्द्रमुनिपुंगवैः ।
पार्वतीशिवसांनिध्ये सुखं तस्थौ गणेश्वरः ॥४७॥
इदं गणपतेः खण्डं यः शृणोति समाहितः ।
स राजसूययज्ञस्य फलमाप्नोति निश्चितम्॥४१ ॥
अपुत्रो लभते पुत्रं श्रीगणेशप्रसादतः ।
धीरं वीरं च धनिनं गुणिनं चिरजीविनम् ॥४२॥
यशस्विनं पुत्रिणं च विद्वांसं सुकवीश्वरम् ।
जितेन्द्रियाणां प्रवरं दातारं सर्वसंपदाम् ॥४३॥
सुशीलं च सदाचारं प्रशंस्य वैष्णवं लभेत् ।
अहिंसकं दयालुं च तत्त्वज्ञानविशारदम् ॥४४॥
भक्त्या गणेशं संपूज्य वस्त्रालकारचन्दनैः ।
श्रुत्वा गणपतेः खण्डं महावन्ध्या प्रसूयते ॥४५॥
मृतवत्सा काकवन्ध्या ब्रह्मन्पुत्रं लभेद्धृवम् ।
अदूष्यदूषणपरा शुद्धा चैव लभेत्सुतम् ॥४६॥
संपूर्णं ब्रह्मवैवर्तं श्रुत्वा यल्लभते फलम् ।
तत्फलं लभते मर्त्यः श्रुत्वेदं खण्डमुत्तमम् ॥४७॥
वाञ्छां कृत्वा तु मनसि शृणोति परमास्थितः ।
तस्मै ददाति सर्वेष्टं शूरश्रेष्ठो गणेश्वरः ॥४८॥
श्रुत्वा गणपतेः खण्डं विघ्ननाशाय यत्नतः ।
स्वर्णयज्ञोपवीतं च श्वेतच्छत्रं च माल्यकम् ॥४९ ॥
प्रदीयते वाचकाय स्वस्तिकं तिललड्डुकान् ।
परिपक्वफलान्येव देशकलोद्भवानि च ॥५०॥
इति श्रीब्रह्मवैवर्ते महापुराणे गणपतिखण्डे
नारदनारायणसंवादे परशुरामागमगनै-
तत्खण्डश्रवणफलवर्णनं नामषट्चत्वारिशोऽध्यायः ॥४६॥
समाप्तमिदं श्रीब्रह्मवैवर्तपुराणस्य तृतीयं महागणपतिखण्डम्
GO TOP
|