ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - चत्वारिंशोऽध्यायः

भृगोः कैलासगमनोपदेशः -


नारायण उवाच
तं गृहीत्वा तदा विष्णौ वैकुण्ठं च गते सति ।
सपुत्रं च सहस्राक्षं जघान भृगुनन्दनः ॥ १॥
कृत्वा युद्धं तु सप्ताहं ब्रह्मास्त्रेण प्रयत्‍नतः ।
राजा कवचहीनोऽपि सपुत्रश्च पपात ह ॥२॥
पतिते तु सहस्राक्षे कार्तवीर्यार्जुनः स्वयम् ।
आजगाम महावीरो द्विलक्षाक्षौहिणीयुतः ॥३॥
सुवर्णरथमारुह्य रत्‍नसारपरिच्छदम् ।
नानास्त्रं परितः कृत्वा तस्थौ समरमूर्धनि ॥४॥
समरे तं परशुरामो राजेन्द्रं च ददर्श ह ।
रत्‍नालंकारभूषाढ्यै राजेन्द्राणां च कोटिभिः ॥५॥
रत्‍नातपत्रभूषाढचं रत्‍नालंकारभूषितम् ।
चन्दनोक्षितसर्वाङ्‌गं सस्मितं सुमनोहरम् ॥६॥
राजा दृष्ट्‍वा मुनीन्द्रं तमवरुह्य रथादहो ।
प्रणम्य रथमारुह्य तस्थौ नृपगणैः सह ॥७॥
ददौ शुभाशिषं तस्मै रामश्च समयोचिताम् ।
प्रोवाच च गतार्थं तं स्वर्गं गच्छेति सानुगः ॥८॥
उभयोः सेनयोर्युद्धमभवत्तत्र नारद ।
पलायिता रामशिष्या भ्रातरश्च महाबलाः ।
क्षतविक्षतसर्वाङ्‌गाः कार्तवीर्यप्रपीडिताः ॥९॥
नृपस्य शरजालेन रामः शस्त्रभृतां वरः ।
न ददर्श स्वसैन्यं च राजसैन्यं तथैव च ॥ १०॥
चिक्षेप रामश्चाऽऽग्नेयं बभूवाग्निनमयं रणे ।
निर्वापयामास राजा वारुणेनैव लीलया ॥ ११॥
चिक्षेप रामो गान्धर्वं शैलसर्पसमन्वितम् ।
वायव्येन महाराजः प्रेरयामास लीलया ॥ १२॥
चिक्षेप रामो नागास्त्रं दुर्निवार्यं भयंकरम् ।
गारुडेन महाराजः प्रेरयामास लीलया ॥ १३॥
माहेश्वरं च भगवांश्चिक्षेप भृगुनन्दनः ।
निर्वापयामास राजा वैष्णवास्त्रेण लीलया ॥ १४॥
ब्रह्मास्त्रं चिक्षिपे रामो नृपनाशाय नारद ।
ब्रह्मास्त्रेण च शान्तं तत्प्राणनिर्वापणं रणे ॥ १५॥
दत्तदत्तं च यच्छूलमव्यर्थं मन्त्रपूर्वकम् ।
जग्राह राजा परशुरामनाशाय संयुगे ॥ १६॥
शूलं ददर्श रामश्च शतसूर्यसमप्रभम् ।
प्रलयाग्निशिखोद्रिक्तं दुर्निवार्यं सुरैरपि ॥ १७॥
पपात शूलं समरे रामस्योपरि नारद ।
मूर्च्छामवाप स भृगुः पपात च हरिं स्मरन् ॥ १८॥
पतिते तु तदा रामे सर्वे देवा भयाकुलाः ।
आजग्मुः समरं तत्र ब्रह्मविष्णुमहेश्वराः ॥ १९॥
शंकरश्च महाज्ञानी महाज्ञानेन लीलया ।
ब्राह्मणं जीवयामास तूर्णं नारायणाज्ञया ॥२०॥
भृगुश्च चेतनां प्राप्य ददर्श पुरतः सुरान् ।
प्रणनाम परं भक्त्या लज्जानम्रात्मकधरः ॥२१॥
राजा दृष्ट्‍वा सुरेशांश्च भक्तिनम्रात्मकधरः ।
प्रणम्य शिरसा मूर्ध्ना तुष्टाव च सुरेश्वरान् ॥२२॥
तत्राऽऽजगाम भगवान्दत्तात्रेयो रणस्थलम् ।
शिष्यरक्षानिमित्तेन कृपालुर्भक्तवत्सलः ॥२३॥
भृगुः पाशुपतास्त्रं च सोऽग्रहीत्कोपसंयुतः ।
दत्तदत्तेन दृष्टेन बभूव स्तम्भितो भृगुः ॥२४॥
ददर्श स्तम्भितो रामो राजानं रणमूर्धनि ।
नानापार्षदयुक्तेन कृष्णेनाऽऽरक्षितं रणे ॥२५ ॥
सुदर्शनं प्रज्वलन्तं भ्रमणं कुर्वता सदा ।
सस्मितेन स्तुतेनैव ब्रह्मविष्णुमहेश्वरैः ॥२६॥
गोपालशतयुक्तेन गोपवेषविधारिणा ।
नवीजलदाभेन वंशीहस्तेन गायता ॥२७॥
एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ।
दत्तेन दत्तं कवचं कृष्णस्य परमात्मनः ॥२८॥
राज्ञोऽस्ति दक्षिणे बाहौ सद्‌रत्‍नगुटिकान्वितम् ।
गृहीतकवचे शंभौ भिक्षया योगिनां गुरौ ॥२९॥
तदा हन्तुं नृपं शक्तो भृगुश्चेति च नारद ।
श्रुत्वाऽशरीरिणीं वाणीं शंकरो द्विजरूपधृक् ॥३०॥
भिक्षां कृत्वा तु कवचमानीय च नृपस्य च ।
शंभुना भृगवे दत्तं कृष्णस्य कवचं च यत् ॥३१॥
एतस्मिन्नन्तरे देवा जग्मुः स्वस्थानमुत्तमम् ।
प्रत्युवाचापि परशुरामो वै समरे नृपम् ॥३२॥
परशुराम उवाच
राजेन्द्रोत्तिष्ठ समरं कुरु साहसपूर्वकम् ।
कालभेदे जयो नृणां कालभेदे पराजयः ॥३३॥
अधीतं विधिवद्‌दत्तं कृत्स्ना पृथ्वी सुशासिता ।
सम्यक्कृतश्चसंग्रामो त्वयाहं मूर्च्छितोऽधुना ॥३४॥
जिताः सर्वे च राजेन्द्रा लीलया रावणो जितः ।
जितोऽहं दत्तशूलेन शंभुना जीवितः पुनः ॥३५॥
रामस्य वचनं श्रुत्वा राजा परमधार्मिकः ।
मूर्ध्ना प्रणम्य तं भक्त्या यथार्थोक्तिमुवाच ह ॥३६॥
राजोवाच
किमधीतं तथा दत्तं का वा पृथ्वी सुशासिता ।
हताः कतिविधा भूपा मादृशा धरणीतले ॥३७॥
बुद्धिस्तेजो विक्रमश्च विविधा रणमन्त्रणा ।
श्रीरैश्वर्यं तथा ज्ञानं दानशक्तिश्च लौकिकम् ॥३८॥
आचारो विनयो विद्या प्रतिष्ठा परमं तपः ।
सर्वं मनोरमासङ्‌गे गतमेव मम प्रभो ॥३९॥
सा च स्त्री प्राणतुल्या मे साध्वी पद्मांशसंभवा ।
यज्ञेषु पत्‍नी मातेव स्नेहे क्रीडति सङ्‌गिनी ॥४०॥
आबाल्यात्सङ्‌गिनो शश्वच्छयने भोजने रणे ।
तां विना प्राणहीनोऽहं विषहीनो यथोरगः ॥४१॥
त्वया न दृष्टं युद्धं मे पुरेयं शोचना स्थिता ।
द्वितीया शोचना विप्र हतोऽहं ब्राह्मणेन च ॥४२॥
काले सिंहः सृगालं च सृगालः सिंहमेव च ।
काले व्याघ्रं हन्ति मृगो गजेन्द्रं हरिणस्तथा ॥४३॥
महिषं मक्षिका काले गरुडं च तथोरगः ।
किंकरः स्तौति राजेन्द्रं काले राजा च किंकरम् ॥४४॥
इन्द्रं च मानवः काले काले ब्रह्मा मरिष्यति ।
तिरो भूत्वा सा प्रकृतिः काले श्रीकृष्णविग्रहे ॥४५॥
मरिष्यन्ति सुराः सर्वे त्रिलोकस्थाश्चराचराः ।
सर्वे काले लयं यान्ति कालो हि दुरतिक्रमः ॥४६॥
कालस्य कालः श्रीकृष्णः स्रष्टुः स्रष्टा यथेच्छया ।
संहर्ता चैव संहर्तुः पातुः पाता परात्परः ॥४७॥
महास्थूलात्स्थूलतमः सूक्ष्मात्सूक्ष्मतमः कृशः ।
परमाणुपरः कालकालः स्यात्कालभेदकः ॥४८॥
यस्य लोमानि विश्वानि स पुमांश्च महाविराट् ।
तेजसां षोडशांशश्च कृष्णस्य परमात्मनः ॥८९॥
ततः क्षुद्रविराड्जातः सर्वेषां कारणं परम् ।
यः स्रष्टा च स्वयं ब्रह्मा यन्नाभिकमलोद्‌भवः ॥५०॥
नाभेः कमलदण्डस्य योऽन्तं न प्राप यत्‍नतः ।
भमणाल्लक्षवषं च ततः स्वस्थानसंस्थितः ॥५१॥
तपश्चक्रे ततस्तत्र लक्षवर्षं य वायुभुक् ।
ततो ददर्श गोलोकं श्रीकृष्णं च सपार्षदम् ॥५२॥
गोपगोपीपरिवृतं द्विभुजं मुरलीधरम् ।
रत्‍नसिंहासनस्थं च राधावक्षःस्थलस्थितम् ॥५३॥
दृष्ट्‍वाऽनुज्ञां गृहीत्वा च प्रणम्य च पुनः पुनः ।
ईश्वरेच्छां च विज्ञाय स्रष्टुं सृष्टिं मनो दधे ॥५४॥
यः शिवः सृष्टिसंहर्ता स च स्रष्टुर्ललाटजः ।
विष्णुः पाता क्षुद्रविराट्श्वेतद्वीपनिवासकृत् ॥५५॥
सृष्टिकारणभूताश्च ब्रह्मविष्णुमहेश्वराः ।
सन्ति विश्वेषु सर्वेषु श्रीकृष्णस्य कलोद्‌भवाः ॥५६॥
तेऽपि देवाः प्राकृतिकाः प्राकृतश्च महाविराट् ।
सर्वप्रसूतिः प्रकृतिः श्रीकृष्णः प्रकृतेः परः ॥५७॥
न शक्तः परमेशोऽपि तां शक्तिं प्रकृतिं विना ।
सृष्टिं विधातुं मायेशो न सृष्टिर्माययाविना ॥५८॥
सा च कृष्णे तिरो भूत्वा सृष्टिसंहारकारके ।
साऽऽविर्भूता सृष्टिकाले सा च नित्या महेश्वरी ॥५९॥
कुलालश्च घटं कर्तुं यथाऽशक्तो मृदं विना ।
स्वर्णं विना स्वर्णकारः कुण्डलं कर्तुमक्षमः ॥६०॥
सा च शक्तिः सृष्टिकाले पञ्चधा चेश्वरेच्छया ।
राधा पद्मा च सावित्री दुर्गादेवी सरस्वती ॥६१॥
प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः ।
प्राणाधिकप्रियतमा सा राधा परिकीर्तिता ॥६२॥
ऐश्वर्याधिष्ठातृदेवो सर्वमङ्‌गःलकारिणी ।
परमानन्दरूपा च सा लक्ष्मीः परिकीर्तिता ॥६३॥
विद्याधिष्ठातृदेवी या परमेशस्य दुर्लभा ।
या माता वेदशास्त्राणां सा सावित्री प्रकीर्तिता ॥६४॥
बुद्ध्यधिष्ठातृदेवी या सर्वशक्तिस्वरूपिणी ।
सर्वज्ञानात्मिका सर्वा सा दुर्गा दुर्गनाशिनी ॥६५॥
वागधिष्ठातृदेवी या शास्त्रज्ञानप्रदा सदा ।
कृष्णकण्ठोद्‌भवा सा स्याद्या च देवी सरस्वती ॥६६॥
पञ्चधाऽऽदौ स्वयं देवी मूलप्रकृतिरीश्वरी ।
ततः सृष्टिक्रमेणैव बहुधा कलया च सा ॥६७॥
योषितः प्रकृतेरंशाः पुमांसः पुरुषस्य च ।
मायया सृष्टिकाले च तद्विना न भवेद्‌भवः ॥६८॥
सृष्टिश्च प्रतिविश्वेषु ब्रह्मन्मह्मोद्‌भवा सदा ।
पाता विष्णुश्च संहर्ता शिवः शश्वच्छिवप्रदः ॥६९॥
दत्तदत्तं ज्ञानमिदं राम मह्यं च पुष्करे ।
दीक्षाकाले च माघ्यां च मुनिप्रवरसंनिधौ ॥७०॥
इत्युक्त्वा कार्तवीर्यश्च रामं नत्वा च सस्मितः ।
आरुरोह रथं शीघ्रं गृहीत्वा सशरं धनुः ॥७१॥
रामस्ततो राजसैन्यं ब्रह्मास्त्रेण जघान ह ।
नृपं पाशुपतेनैव लीलया श्रीहरिं स्मरन् ॥७२॥
एवं त्रिःसप्तकृत्वश्च क्रमेण च वसुंधराम् ।
रामश्चकार निर्भूपां लीलया च शिवं स्मरन् ॥७३॥
गर्भस्थं मातुरङ्‌कस्थं शिशुं वृद्धं च मध्यमम् ।
जघान क्षत्रियं रामः प्रतिज्ञापालनाय वै ॥७४॥
कार्तवीर्यश्च गोलोकं त्वगमत्कृष्णसंनिधिम् ।
जगाम परशुरामश्च स्वालयं श्रीहरिं स्मरन् ॥७५॥
त्रिःसप्तकृत्वो निर्भूपां महीं दृष्ट्‍वा महेश्वरः ।
पर्शुना रमणं दृष्ट्‍वा परशुरामं चकार तम् ॥७६॥
देवाश्च मुनयो देव्यः सिद्धगन्धर्वकिन्नराः ।
सर्वे चक्रुः पुष्पवृष्टिं राममूर्ध्नि च नारद ॥७७॥
स्वर्गे दुन्दुभयो नेदुर्हर्षशब्दो बभूव ह ।
यशसा चैव परशुरामस्याऽपूरितं जगत् ॥ ७८ ॥
ब्रह्मा भृगुश्च शुक्रश्च वाल्मीकिश्च्यवनस्तथा ।
जमदग्निर्ब्रह्मलोकादाजगाम प्रहर्षितः ॥७९॥
पुलकाञ्चितसर्वाङ्‌गाः सानन्दाश्रुसमन्विताः ।
दूर्वापुष्पकराः सर्वे कुर्वन्तो मङ्‌गलाशिषः ॥८०॥
प्रणनाम च तान्‌रामो दण्डवत्पतितो भुवि ।
क्रोडे चकार ब्रह्माऽऽदौ क्रमात्तातेति संवदन् ॥८१॥
तमुवाचाथ परशुरामं ब्रह्मा जगद्‌गुरुः ।
वेदसारं नोतियुतं परिणामसुखावहम् ॥८२॥
ब्रह्मोवाच
शृणु राम प्रवक्ष्यामि सर्वसंपत्करं परम् ।
काण्वशाखोक्तवचनं सत्यं वै सर्वसंमतम् ॥८३॥
पूज्यानामेव सर्वेषामिष्टः पूज्यतमः परः ।
जनको जन्मदानाच्च पालनाच्च पिता स्मृतः ॥८४॥
गरीयाञ्जन्मदातुश्च सोऽन्नदाता पिता मुने ।
विनाऽन्नं नश्वरो देहो न नित्यं पितुरुद्‌भवः ॥८५॥
तयोः शतगुणं माता पूज्या मान्या च वन्दिता ।
गर्भधारणपोषाभ्यां सैव प्रोक्ता गरीयसी ॥८६॥
तेभ्यः शतगुणं पूज्योऽभीष्टदेवः श्रुतौ श्रुतः ।
ज्ञानविद्यामन्त्रदाताऽभीष्टदेवात्परो गुरुः ॥८७॥
गुरुवद्‌गुरुपुत्रश्च गुरुपत्‍नी ततोऽधिका ।
देवे रुष्टे गुरू रक्षेद् गुरौ रुष्टे न कश्चन ॥८८॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः, ।
गुरुरेव परं ब्रह्म ब्राह्मणेभ्यः प्रियः परः ॥८९॥
गुरुर्ज्ञान ददात्येव ज्ञानं च हरिभक्तिदम् ।
हरिभक्तिप्रदाता यः को वा बन्धुस्ततः परः ॥९०॥
अज्ञानतिमिराच्छन्नो ज्ञानदीप यतो लभेत् ।
लब्ध्वा च निर्मलं पश्येत्को वा बन्धुस्ततः परः ॥९१॥
गुरुदत्तं सुमन्त्रं च जप्त्वा ज्ञानं ततो लभेत् ।
सर्वज्ञत्वाच्च सिद्धिं च को वा बन्धुस्ततोऽधिकः ॥९२॥
सुखं जयति सर्वत्र विद्यया गुरुदत्तया ।
ययापूज्योऽपि जगति को वा बन्धुस्ततोऽधिकः ॥९३॥
विद्यान्धो वा धनान्धो वा योमूढो न यजेद्‌गुरुम् ।
ब्रह्महत्यादिकं पापं लभते नात्र संशयः ॥९४॥
दरिद्रं पतितं क्षुद्रं नरबुद्ध्या भजेद्‌गुरुम् ।
तिर्थस्नातोऽपि न शुचिर्नाधिकारी च कर्मसु ॥९५॥
अभीष्टदेवः श्रीकृष्णो गुरुस्ते शंकरः स्वयम् ।
शरणं गच्छ हे पुत्र देवपूज्यतमं गुरुम् ॥९६॥
त्रिःसप्तकृत्वो निर्भूपा त्वया पृथ्वी कृता यतः ।
प्राप्ता त्वया हरेर्भक्तिस्तं शिवं शरणं व्रज ॥९७॥
शिवां च शिवरूपं च शिवदं शिवकारणम् ।
शिवाराध्यं शिवं शान्तं गुरुं त्वं शरणं व्रज ॥९८॥
गोलोकनाथो भगवानंशेन शिवरूपधृक् ।
य इष्टदेवः स गुरुस्तमेव शरणं व्रज ॥९९॥
आत्मा कृष्णः शिवो ज्ञानं मनोऽहं सर्वजीविषु ।
प्राणाविष्णुः साप्रकृतिः सर्व शक्तियुतासुत ॥ १००॥
ज्ञानदं ज्ञानरूपं च ज्ञानबीजं सनातनम् ।
मृत्युंजयं कालकालं तं गुरुं शरणं व्रज ॥ १०१॥
ब्रह्मज्योतिः स्वरूपं तं भक्तानुग्रहविग्रहम् ।
शरणं व्रज सर्वज्ञं भगवन्तं सनातनम् ॥१०२॥
प्रकृतिर्लक्षवर्षं च तपस्तप्त्वा यमीश्वरम् ।
कान्तं प्रियपतिं लेभे तं गुरुं शरणं व्रज ॥१०३॥
इत्युक्त्वा मुनिभिः सार्धं जगाम कमलोद्‌भवः ।
रामश्च गन्तुं कैलासं मनश्चक्रे च नारद ॥ १०४॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे भृगोः कैलासगमनोपदेशो
नाम चत्वारिंशोऽध्यायः ॥४०॥


GO TOP