ब्रह्मवैवर्तपुराणम्
तृतीयं गणपतिखण्डम् - त्रिंशोऽध्यायः
परशुरामस्य शिवदत्तास्त्रशस्त्रादिप्राप्तिवर्णनम् -
शंकर उवाच
कस्त्वं बटो कस्य पुत्रः क्व वासः स्तवनं कथम् ।
किं वा तेऽहं करिष्यामि वाञ्छितं वद सांप्रतम् ॥ १ ॥
पार्वत्युवाच
शोकाकुलं त्वां पश्यामि विमनस्कं सुविस्मितम् ।
वयसाऽतिशिशुं शान्तं गुणेन गुणिनां वरम् ॥ २ ॥
भृगुरुवाच
जमदग्निसुतोऽहं च भृगुवंशसमुद्भवः ।
रेणुकाऽम्बा मे परशुरामोऽहं नामतः प्रभो ॥ ३ ॥
क्रीणीहि मां दयासिन्धो विद्यापण्येन किंकरम् ।
त्वामीश शरणापन्नं रक्ष मां दीनवत्सल ॥ ४ ॥
मृगयामागतं भूपं पिता मे चोपवासिनम् ।
चकाराऽऽतिथ्यमानीय कपिलादत्तवस्तुभिः ॥ ५ ॥
राजा तं कपिला लोभाद्घातयामास मन्दधीः ।
कपिला तं मृतं दृष्ट्वा गोलोकं च जगाम सा ॥ ६ ॥
माताऽनुगमनं चक्रे ह्यनाथोऽहं च सांप्रतम् ।
त्वं मे पिता शिवा माता रक्ष मां पुत्रवत्प्रभो ॥ ७ ॥
मया कृता प्रतिज्ञा च शोकेनैवातिदुष्करा ।
त्रिःसप्तकृत्वो निर्भूपां करिष्यामि महीमिति ॥ ८ ॥
कार्तवीर्यं हनिष्यामि समरे तातघातकम् ।
इत्येतत्परिपूर्णं मे भगवान्कर्तुमर्हति ॥ ९ ॥
ब्राह्मणस्य वचः श्रुत्वा दृष्ट्त्वा दुर्गामुखं हरः ।
बभूवाऽऽनमवक्त्रश्च सा च शुष्कौष्ठतालुका ॥ १० ॥
पार्वत्युवाच
तपस्विन्विप्रपुत्र क्ष्मां निर्भूपां कर्तुमिच्छसि ।
त्रिःसप्तकृत्वः कोपेन साहसस्ते महान्बटो ॥ ११ ॥
हन्तुमिच्छसि निःशस्त्रः सहस्रार्जुनमीश्वरम् ।
भ्रूभङ्गलीलया यस्य रावणस्य पराजयः ॥ १२ ॥
तस्मै प्रदत्तं दत्तेन श्रीहरेः कवचं बटो ।
शक्तिरव्यर्थरूपा च यया ते हिंसितः पिता ॥ १ ३ ॥
हरेर्मन्त्रं संस्तवनं ध्यायते च दिवानिशम् ।
को वा शक्नोति तं हन्तुं न पश्यामीह भूतले ॥ १४ ॥
अये विप्र गृहं गच्छ किं करिष्यति शंकरः ।
अन्ये भूयाश्च मद्भृत्या का भीस्तेषां मयि स्थिते ॥ १५ ॥
भद्रकाल्युवाच
अये विप्रबटो जाल्म निर्भूपां कर्तुमिच्छसि ।
यथा हि वामनश्चन्द्रं करेणाऽहर्तुमिच्छति ॥ १६ ॥
कृतयज्ञान्महापुण्यान्महाबलपराक्रमान् ।
दिगम्बरसहायेन मद्भृत्यान्हन्तुमिच्छसि ॥ १७ ॥
स तयोर्वचनं श्रुत्वा रुरोदोच्चैश्च शोकतः ।
सहसा पुरतस्तेषां प्राणांस्त्यक्तुं समुद्यतः ॥ १८ ॥
विप्रस्य रोदनं श्रुत्वा शंकरः करुणानिधिः ।
पश्यन्दुर्गां च कालीं च ज्ञात्वाऽऽशयमथो विभुः ॥ १९ ॥
तयोरनुमतिं प्राप्य सर्वेशो भक्तवत्सलः ।
जमदग्निसुतं सद्यः प्रवक्तुमुपचक्रमे ॥ २० ॥
शंकर उवाच
अद्यप्रभृति हे वत्स त्वं मे पुत्रसमो महान् ।
दास्यामि मन्त्रं गुह्यं ते त्रिषु लोकेषु दुर्लभम् ॥ २ १ ॥
एवंभूतं च कवचं दास्यामि परमाद्भुतम् ।
लीलया मत्प्रसादेन कार्तवीर्यं हनिष्यसि ॥ २२ ॥
त्रिःसप्तकृत्वो निर्भूपां करिष्यसि महीं द्विज ।
जगत्ते यशसा पूर्णं भविष्यति न संशयः ॥ २३ ॥
इत्युक्त्वा शंकरस्तस्मै ददौ मन्त्रं सुदुर्लभम् ।
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥ २४ ॥
स्तवं पूजाविधानं च पुरश्चरणपूर्वकम् ।
मन्त्रसिद्धेरनुष्ठानं यथावन्नियमक्रमम् ॥ २५ ॥
सिद्धिस्थानं कालसंख्यां कथयामास नारद ।
वेदवेदाङ्गादिकं च पालयामास तत्क्षणम् ॥ २६ ॥
नागपाशं पाशुपतं ब्रह्मास्त्रं च सुदुर्लभम् ।
नारायणास्त्रमाग्नेयं वायव्यं वारुणं तथा ॥ २७ ॥
गान्धर्वं गारुडं चैव जृम्भणास्त्रं तथैव च ।
गदां शक्तिं च परशुं शूलमव्यर्थमुत्तमम् ॥ २८ ॥
नानाप्रकारशस्त्रास्त्रं मन्त्रं च विधिपूर्वकम् ।
शस्त्रास्त्राणां च संहारं तूणी चाक्षयसायकौ ॥ २९ ॥
आत्मरक्षणसंधानं संग्रामविजयक्रमम् ।
मायायुद्धं च विविधं हुंकारं मन्त्रपूर्वकम् ॥ ३० ॥
रक्षणं च स्वसैन्यानां परसैन्यविमर्दनम् ।
नानाप्रकारमतुलमुपायं रणसंकटे ॥
संहारे मोहिनीं विद्यां ददौ मृत्युहरां हरः ॥ ३१ ॥
स्थित्वा चिरं गुऽरोर्वासे सर्वविद्यां विबोध्य सः ।
तीर्थे कृत्वा मन्त्रसिद्धिं तांश्च नत्वा जगाम सः ॥ ३२ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे परशुरामस्य
शिवदत्तास्त्रशस्त्रादिप्राप्तिवर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥
GO TOP
|