ब्रह्मवैवर्तपुराणम्
तृतीयं गणपतिखण्डम् - पञ्चविंशोऽध्यायः
जमदग्निकार्तवीर्ययुद्धारम्भवर्णनम् -
नारायण उवाच
हरिं स्मरन्कार्तवीर्यो हृदयेन विदूयता ।
दूतं प्रस्थापयामास कुपितो मुनिसंनिधिम् ॥ १ ॥
युद्धं देहि मुनिश्रेष्ठ किंवा धेनुं च वाञ्छिताम् ।
मह्यं भृत्यायातिथये सुविचार्य यथोचितम् ॥ २ ॥
दूतस्य ववनं श्रुत्वा जहास मुनिपुंगवः ।
हितं सत्यं नीतिसारं सर्वं दूतमुवाच ह ॥ ३ ॥
मुनिरुवाच
दृष्टो नृपो निराहारः समानीतो मया गृहम् ।
विविधं च यथाशक्त्या भोजितश्च यथोचितम् ॥ ४ ॥
कपिलां याचते राजा मम प्राणाधिकां बलात् ।
तां दातुमक्षमो दूत युद्धं दास्यामि निश्चितम् ॥ ५ ॥
मुनेस्तद्वचनं श्रुत्वा दूतः सर्वमुवाच ह ।
नृपेन्द्र च सभामध्ये सनाहैः संयुतं भिया ॥ ६ ॥
मुनिश्च कपिलामाह सांप्रतं किं करोम्यहम् ।
कर्णधारं विना नौका तथा सैन्यं विना मया ॥ ७ ॥
कपिला च ददौ तस्मै शस्त्राणि विविधानि च ।
युद्धशास्त्रोपदेशं च संधानं चौपयोगिकम् ॥ ८ ॥
जयो भवतु ते विप्र युद्धे जेष्यसि निश्चितम् ।
तव मृत्युर्न भविता सत्यमस्त्रं विना मुने ॥ ९ ॥
नृपेण सार्धं ते युद्धमयुक्तं ब्राह्मणस्य च ।
दत्तात्रेयस्य शिष्येण व्यर्थं वै शक्तिधारिणा ।
इत्युक्त्वाकपिला बह्मन्विरराम मनस्विनी ॥ १० ॥
मुनिर्मनस्वो सैन्यं च सज्जीकृत्य ततो मुने ।
गृहीत्वा सर्वसैन्यं च स जगाम रणाजिरम् ॥ ११ ॥
राजा जगाम युद्धाय ननाम मनिपुंगवम् ।
उभयोः सैन्ययोर्युद्धं बभूव बहुदुष्करम् ॥ १२ ॥
राजसैन्यं जितं सर्वं कपिलासेनया बलात् ।
विचित्रं च रथं राज्ञो बभञ्जे लीलया रणे ॥ १३ ॥
धनुश्चिच्छेद संनाहं सा सेना कापिली मुदा ।
नृपेन्द्र कापिलेयानि जेतुं सैन्यानि चाक्षमः ॥ १४ ॥
सैन्यान्वितं शस्त्रवृष्ट्या न्यस्तशस्त्रं चकार सा ।
शरवृष्ट्या शस्त्रवृष्ट्या राजा मूर्च्छामवापह ॥ १५ ॥
किंचिच्छिष्टं बलं राज्ञः किंचिदेव पलायितम् ।
मुनीन्द्रो मूर्च्छितं दृष्ट्वा नृपेन्द्रमतिथिं मुने ॥ १६ ॥
कृपानिधिश्च कृपया तत्सैन्यं संजहार च ।
गत्वा सैन्यं विलीनं च कपिलायां च कृत्रिमम् ॥ १७ ॥
नृपाय मुनिना शीघ्रं दत्ताश्चरणरेणवः ।
आशीर्वादं प्रदत्तं च जयोऽस्त्विति कृपालुना ॥ १८ ॥
कमण्डलुजलं प्रोक्ष्य जीवयामास तं नृपम् ।
स राजा चेतनां प्राप्य समुत्थाय रणाजिरात् ॥ १९ ॥
मूर्छा ननाम भक्त्या च मुनिश्रेष्ठं कृताञ्जलिः ।
मुनिः शुभाशिषं दत्त्वा राजानं त्वालिलिङ्ग सः ॥ २० ॥
पुनस्तं स्नापयित्वा च भोजयामास यत्नतः ।
नवनीतं हि हृदयं ब्राह्मणानां तु सततम् ॥ २१ ॥
अन्येषां क्षुरधाराभमसाध्यं दारुणं सदा ।
उवाच तं मुनिश्रेष्ठो गृहं गच्छ धराधिप ॥ ॥ २२ ॥
राजोवाच
रणं देहि महाबाहो धेनुं किंवा मयेप्सिताम् ॥ २३ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे जमदग्निकार्तवीर्यार्जुनयुद्धवर्णनं
नाम पञ्चविंशोऽध्यायः ॥ २५ ॥
GO TOP
|