ब्रह्मवैवर्तपुराणम्
तृतीयं गणपतिखण्डम् - द्वाविंशोऽध्यायः
लक्ष्मीस्तवकवचपूजाकथनम् -
नारद उचाव
आविर्भूय हरिस्तस्मै किं स्तोत्रं कवचं ददौ ।
महालक्ष्म्याश्च लक्ष्मीशस्तन्मे ब्रूहि तपोधन ॥ १ ॥
नारायण उवाच
पुष्करे च तपस्तप्त्वा विरराम सुरेश्वरः ।
आविर्बभूव तत्रैव क्लिष्टं दृष्ट्वा हरिः स्वयम ॥ २ ॥
तमुवाच हृषीकेशो वरं वृणु यथेप्सितम् ।
स च वव्रे वरं लक्ष्मीमीशस्तस्मै ददौ मुदा ॥ ३ ॥
वरं दत्ता हृषीकेशः प्रवक्तुश्चपचक्रमे ।
हितं सत्यं च सारं च परिणामसुखावहम् ॥ ४ ॥
मधुसूदन उवाच
गृहाण कवचं शक्र सर्वदुःखविनाशनम् ।
परमैश्वर्यजनकं सर्वशत्रुविमर्दनम् ॥ ५ ॥
ब्रह्मणे च पुरा दत्तं विष्टपे च जलप्लुते ।
यद्धृत्वा जगतां श्रेष्ठः सर्वैश्वर्ययुतो विधिः ॥ ६ ॥
बभवुर्मनवः सर्वे सर्वैश्वर्ययुता यतः ।
सर्वैश्वर्यप्रदस्यास्य कवचस्य ऋषिर्विधिः ॥ ७ ॥
पङ्क्तिश्छन्दश्च सा देवी स्वयं पद्मालया वरा ।
सिद्ध्यैश्वर्यसुखेष्वेव विनियोगः प्रकीर्तितः ॥ ८ ॥
यद्धृत्वा कवचं लोकः सर्वत्र विजयी भवेत् ।
मस्तकं पातु मे पद्मा कण्ठं पातु हरिप्रिया ॥ ९ ॥
नासिकां पातु मे लक्ष्मीः कमला पातु लोचने ।
केशात्केशवकान्ता च कपालं कमलालया ॥ १० ॥
जगत्प्रसूर्गण्डयुग्मं स्कन्धं संपत्प्रदा सदा ।
ॐ श्रीं कमलवासिन्यै स्वाहा पृष्ठं सदाऽवतु ॥ ११ ॥
ॐ ह्रीं श्रीं पद्मालयायै स्वाहा वक्षः सदाऽवतु ।
पातु श्रीर्मम कङ्कालं बाहुयुग्मं च ते नमः ॥ १२ ॥
ॐ ह्रीं श्रीं लक्ष्म्यै नमः पादौ पातु मे संततं चिरम् ।
ॐ ह्रीं श्रीं नमः पद्मायै स्वाहा पातु नितम्बकम् ॥ १३ ॥
ॐ श्रीमहालक्ष्म्यै स्वाहा सर्वाङ्गं पातु मे सदा ।
ॐ श्रीं क्लीं महालक्ष्म्यै स्वाहा मां पातु सर्वतः ॥ १४ ॥
इति ते कथितं वत्स सर्वसंपत्करं परम् ।
सर्वैश्वर्यप्रदं नाम कवचं परमाद्भुतम् ॥ १५ ॥
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ।
कण्ठे वा दक्षिणे बाहौ स सर्वविजयी भवेत् ॥ १६ ॥
महालक्ष्मीर्गृहं तस्य न जहाति कदाचन ।
तस्य च्छायेव सततं सा च जन्मनि जन्मनि ॥ १७ ॥
इदं कवचमज्ञात्वा भजेल्लक्ष्मीं स मन्दधीः ।
शतलक्षप्रजापेऽपि न मन्त्रः सिद्धिदायकः ॥ १८ ॥
नारायण उवाच
दत्त्वा तस्मै च कवचं मन्त्रं वै षोडशाक्षरम् ।
संतुष्टश्च जगन्नाथो जगतां हितकारणम् ॥ १९ ॥
ॐ ह्रीं श्रीं क्लीं नमो महालक्ष्म्यै स्वाहा ।
ददौ तस्मै च कृपया चेन्द्राय च महामुने ॥ २० ॥
ध्यानं च सामवेदोक्तं गोपनीयं सुदुर्लभम् ।
सिद्धैर्मुनीन्द्रैर्दुष्प्राप्यं ध्रुवं सिद्धिप्रदं शुभम् ॥ २१ ॥
श्वेतचम्पकवर्णाभां शतचन्द्रसमप्रभाम् ।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥ २२ ॥
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ।
कस्तूरीबिन्दुमध्यस्थं सिन्दूरं भषणं मया ॥ २३ ॥
अमूल्यरत्नरचितकुण्डलोज्ज्वलभूषणम् ।
बिभ्रती कबरीभारं मालतीमाल्यशोभितम् ॥ २४ ॥
सहस्रदलपद्मस्थां स्वस्थां च सुमनोहराम् ।
शान्तां च श्रीहरेः कान्तां ता भजेज्जगतां प्रसूम् ॥ २५ ॥
ध्यानेनानेन देवेन्द्र ध्यात्वा लक्ष्मीं मनोहराम् ।
भक्त्या संपूज्य तस्यै च चोपचारांस्तु षोडश ॥ २६ ॥
स्तुत्वाऽनेन स्तवेनैव वक्ष्यमाणेन वासव ।
नत्वा वरं गृहीत्वा च लभिष्यसि च निर्वृतिम् ॥ २७ ॥
स्तवनं शृणु देवेन्द्र महालक्ष्म्याः सुखप्रदम् ।
कथयामि सुगोप्यं च त्रिषु लोकेषु दुर्लभम् ॥ २८ ॥
नारायण उवाच
देवि त्वां स्तोतुमिच्छामि न क्षमाः स्तोतुमीश्वराः ।
बुद्धेरगोचरां सूक्ष्मां तेजोरूपां सनातनीम् ।
अत्यनिर्वचनीयां च को वा निर्वक्तुमीश्वरः ॥ २९ ॥
स्येच्छामयीं निराकारां भक्तानुग्रहविग्रहाम् ।
स्तौमि वाङ्मनसोः पारां किंवाऽहं जगदम्बिके ॥ ३० ॥
परां चतुर्णां वेदानां पारबीजं भवार्णवे ।
सर्वसस्याधिदेवीं च सर्वासामपि संपदाम् ॥ ३१ ॥
योगिनां चैव योगानां ज्ञानानां ज्ञानिनां तथा ।
वेदानां वै वेदविदां जननीं वर्णयामि किम् ॥ ३२ ॥
यया विना जगत्सर्वमबीजं निष्फलं ध्रुवम् ।
यथा स्तनंधयाना च विना मात्रा सुखं भवेत् ॥ ३३ ॥
प्रसीद जगतां माता रक्षास्मानतिकातरान् ।
वयं त्वच्चरणाम्भोजे प्रपन्नाः शरणं गताः ॥ ३४ ॥
नमः शक्तिस्वरूपायै जगन्मात्रे नमो नमः ।
ज्ञानदायै बुद्धिदायै सर्वदायै नमो नमः ॥ ३५ ॥
हरिभक्तिप्रदायिन्यै मुक्तिदायै नमो नमः ।
सर्वज्ञायै सर्वदायै महालक्ष्यै नमो नमः ॥ ३६ ॥
कुपुत्राः कुत्रचित्सन्ति न कुत्रापि कुमातरः ।
कुत्र माता पुत्रदोषं तं विहाय च गच्छति ॥ ३७ ॥
स्तनंधयेभ्य इव मे हे मातर्देहि दर्शनम् ।
कृपां कुरु कृपासिन्धो त्वमस्मान्भक्तवत्सले ॥ ३८ ॥
इत्येवं कथितं वत्स पद्मायाश्च शुभावहम् ।
सुखदं मोक्षदं सारं शुभदं संपदः प्रदम् ॥ ३९ ॥
इदं स्तोत्रं महापुण्यं पूजाकाले च यः पठेत् ।
महालक्ष्मीर्गृहं तस्य न जहाति कदाचन ॥ ४० ॥
इत्युक्त्वा श्रीहरिस्तं च तत्रैवान्तरधीयत ।
देवो जगाम क्षीरोदं सुरैः सार्धं तदाज्ञया ॥ ४१ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे लक्ष्मीस्तवकवचपूजाकथनं
नाम द्वाविंशोऽध्यायः ॥ २२ ॥
GO TOP
|