ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - चतुर्थोऽध्यायः

पुण्यकव्रतविधानम् -


नारायण उवाच
श्रुत्वा व्रतविधानं च दुर्गा संहृष्टमानसा ।
सर्वं व्रतविधानं च संप्रष्टुमुपचक्रमे ॥ १ ॥
पार्वत्युवाच
सर्वं व्रतविधानं मां वद वेदविदां वर ।
हे नाथ करुणासिन्धो दीनबन्धो परात्पर ॥ २ ॥
कानि व्रतोपयुक्तानि द्रव्याणि च फलानि च ।
समयं नियमं भक्ष्यं विधानं तत्फलं प्रभो ॥ ३ ॥
देहि मह्यं विनीतायै नियुक्तं सत्पुरोहितम् ।
पुष्पोपहारान्विप्रांश्च द्रव्याहरणकिंकरान् ॥ ४ ॥
अन्यानि चोपयुक्तानि मयाऽज्ञातानि यानि च ।
संनियोजय तत्सर्वं स्त्रीणां स्वामी च सर्वदः ॥ ५ ॥
पिता कौमारकाले च सदा पालनकारकः ।
भर्ता मध्ये सुतः शेषे त्रिधाऽवस्था सुयोषिताम् ॥ ६ ॥
तातोऽशोकः प्राणतुल्यां दत्त्वा सत्स्वामिने सुताम् ।
स्वामी निवृत्तिमाप्नोति संन्यस्य स्वसुते प्रियाम् ॥ ७ ॥
बन्धुत्रययुता या स्त्री सा च भाग्यवती परा ।
किंचिद्विहीना मध्या च सर्वहीनाऽधमा भुवि ॥ ८ ॥
एतेषां च समीपस्था प्रशंस्या सा जगत्‌त्रये ।
निन्दिताऽन्येषु संन्यस्ता सर्वमेतच्छ्रुतौ श्रुतम् ॥ ९ ॥
सर्वात्मा भगवांस्त्वं च सर्वसाक्षी च सर्ववित् ।
देहि मह्यं पुत्रवरं स्वात्मनिर्वृतिहेतुकम् ॥ १० ॥
स्वात्मबोधानुमानेन महात्मनि निवेदितम् ।
सर्वान्तराभिप्रायज्ञं भवन्तं बोधयामि किम् ॥ ११ ॥
इत्युक्त्वा पार्वती प्रीत्या पपात स्वामिनः पदे ।
कृपासिन्धुश्च भगवान्प्रवक्तुमुपचक्रमे ॥ १२ ॥
महादेव उवाच
शृणु देवि प्रवक्ष्यामि विधानं नियमं फलम् ।
फलानि चैव द्रव्याणि व्रतयोग्यानि यानि च ॥ १३ ॥
विप्राणां शतकं शुद्धं फलपुष्पोपहारकम् ।
किंकराणां च शतकं द्रव्याहरणकारकम् ॥ १४ ॥
दासीनां शतकं लक्षं नियुक्तं च पुरोहितम् ।
सर्वव्रतविधानज्ञं वेदवेदाङ्‌गपारगम् ॥ १५ ॥
प्रवरं हरिभक्तानां सर्वज्ञं ज्ञानिनां वरम् ।
सनत्कुमारं मत्तुल्यं गृहाण व्रतहेतवे ॥ १६ ॥
देवि शुद्धे च काले च परं नियमपूर्वकम् ।
माघशुक्लत्रयोदश्यां व्रतारम्भः शुभः प्रिये ॥ १७ ॥
गात्रं सुनिर्मलं कृत्वा शिरः संस्कारपूर्वकम् ।
उपोष्य पूर्वदिवसे वस्त्रं संशोध्य यत्‍नतः ॥ १८ ॥
अरुणोदयवेलायां तल्पादुत्थाय सुव्रती ।
मुखप्रक्षालनं कृत्वा स्नात्वा वै निर्मले जले ॥ १९ ॥
आचम्य यत्‍नपूतो हि हरिस्मरणपूर्वकम् ।
दत्त्वाऽर्घ्यं हरये भक्त्या गृहमागत्य सत्वरम् ॥ २० ॥
धौते च वाससी धृत्वा ह्युपविश्याऽऽसने शुचौ ।
आचम्य तिलकं धृत्वा समाप्य स्वाह्निकं पुनः ॥ २१ ॥
घटं संस्थाप्य विधिवत्स्वस्तिवाचनपूर्वकम् ।
पुरोहितस्य वरणं पुरः कृत्वा प्रयत्‍नतः ॥ २२ ॥
संकल्प वेदविहितं व्रतमेतत्समाचरेत् ।
व्रते द्रव्याणि नित्यानि चोपचारास्तु षोडश ।
देयानि नित्यं देवेशि कृष्णाय परमात्मने ॥ २३ ॥
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।
स्नानीयं मधुपर्कं च वस्त्राण्याभरणानि च ॥ २४ ॥
सुगन्धिपुष्पधूपं च दीपनैवेद्यचन्दनम् ।
यज्ञसूत्रं च ताम्बूलं कर्पूरादिसुवासितम् ॥ २५ ॥
द्रव्याण्येतानि पूजायाश्चाङ्‌गरूपाणि सुन्दरि ।
देवि किंचिद्विहीनेन चाङ्‌गहानिः प्रजायते ॥ २६ ॥
अङ्‌गहीनं च यत्कर्म चाङ्‌गहीनो यथा नरः ।
अङ्‌गहीने च कार्ये च फलहानिः प्रजायते ॥ २७ ॥
अष्टोत्तरशतं पुष्पं पारिजातस्य विष्णवे ।
देयं प्रतिदिनं दुर्गे स्वात्मनो रूपहेतवे ॥ २८ ॥
श्वेतचम्पकपुष्पाणां लक्षमक्षतमीप्सितम् ।
प्रदेयं हरये भक्त्या वर्णसौन्दर्यहेतवे ॥ २९ ॥
सहस्रपत्रपद्मानामक्षतं लक्षकं तथा ।
भक्त्या देयं च हरये मुखसौन्दर्यहेतवे ॥ ३० ॥
अमूल्यरत्‍नरचितं दर्पणानां सहस्रकम् ।
देयं नारायणायैव नेत्रयोर्दीप्तिहेतवे ॥ ३१ ॥
नीलोत्पलानां लक्षं च देयं कृष्णाय भक्तितः ।
व्रताङ्‌गभूतं देवेशि चक्षुषो रूपहेतवे ॥ ३२ ॥
हिमालयोद्‌भवं लक्षं रुचिरं श्वेतचामरम् ।
प्रदेयं केशवायैव केशसौन्दर्यहेतवे ॥ ३३ ॥
अमूल्यरत्‍नरचितं पुटकानां सहस्रकम् ।
प्रदेयं गोपिकेशाय नासासौन्दर्यहेतवे ॥ ३४ ॥
बन्धूकपुष्पलक्षं च देयं राधेश्वराय च ।
सौम्यौष्ठाधरयोश्चैव वर्णसौन्दर्यहेतवे ॥ ३५ ॥
मुक्ताफलानां लक्षं च दन्तसौन्दर्यहेतवे ।
देयं गोलोकनाथाय शैलजे भक्तिपूर्वकम् ॥ ३६ ॥
रत्‍नगेन्दुकलक्षं च गण्डसौन्दर्यहेतवे ।
महेश्वराय दातव्यं व्रते शैलेन्द्रकन्यके ॥ ३७ ॥
रत्‍नपाशकलक्षं च देयं ब्रह्मेश्वराय च ।
ओष्ठाधः स्थलरूपाय व्रती प्राणेशि भक्तितः ॥ ३८ ॥
कर्णभूषणलक्षं च रत्‍नसारविनिर्मितम् ।
देयं सर्वेश्वरायैव कर्णसौन्दर्यहेतवे ॥ ३९ ॥
माध्वीककलशानां च लक्षं रत्‍नविनिर्मितम् ।
देयं विश्वेश्वरायैव स्वरसौन्दर्यहेतवे ॥ ४० ॥
सुधापूर्णं च कुम्भानां सहस्रं रत्‍ननिर्मितम् ।
देयं कृष्णाय देवेशि वाक्यसौन्दर्यहेतवे ॥ ४१ ॥
रत्‍नप्रदीपलक्षं च गोपवेषविधायिने ।
देयं किशोरवेषाय दृष्टिसौन्दर्यहेतवे ॥ ४२ ॥
धत्तूरकुसुमाकारं रत्‍नपात्रसहस्रकम् ।
देयं गोरक्षकायैव गलसौन्दर्यहेतवे ॥ ४३ ॥
सद्‌रत्‍नसाररचितं पद्मनालसहस्रकम् ।
देयं चण्डकपालाय बाहुसौन्दर्यहेतवे ॥ ४४ ॥
लक्षं च रक्तपद्मानां करसौन्दर्यहेतवे ।
देयं गोपाङ्‌गनेशाय नारायणि हरिव्रते ॥ ४५ ॥
अङ्‌गलीयकलक्षं च रत्‍नसारविनिर्मितम् ।
अङ्‌गुलीनां च रूपार्थं देयं देवेश्वराय च ॥ ४६ ॥
मणीन्द्रसारलक्षं च श्वेतवर्णं मनोहरम् ।
देयं मुनीन्द्रनाथाय नखसौन्दर्यहेतवे ॥ ४७ ॥
सद्‌रत्‍नसारहाराणां लक्षं चातिमनोहरम् ।
देयं मदनमोहाय वक्षःर्सौदर्यहेतवे ॥ ४८ ॥
सुपक्वश्रीफलानां च लक्षं च सुमनोहरम् ।
देयं सिद्धेन्द्रनाथाय स्तनसौन्दर्यहेतवे ॥ ४९ ॥
सद्‌रत्‍नवर्तुलाकारपत्रलक्षं मनोहरम् ।
देयं पद्मालयेशाय देहसौन्दर्यहेतवे ॥ ५० ॥
सद्‌रत्‍नसाररचितं नाभीनां च सहस्रकम् ।
प्रदेयं पद्मनाभाय नाभिसौन्दर्यहेतवे ॥ ५१ ॥
सद्‌रत्‍नसाररचितं रथचक्रसहस्रकम् ।
नितम्बसौन्दर्यार्थं च देयं वै चक्रपाणये ॥ ५२ ॥
सुवर्णरम्भास्तम्भानां लक्षं च सुमनोहरम् ।
प्रदेयं श्रीनिवासाय श्रोणिसौन्दर्यहेतवे ॥ ५३ ॥
शतपत्रस्थलाब्जानां लक्षमम्लानमक्षतम् ।
प्रदेयं पद्मनेत्राय पादसौन्दर्यहेतवे ॥ ५४ ॥
सुवर्णरचितानां च खञ्जनानां सहस्रकम् ।
गतिसौन्दर्यहेत्वर्थं देयं लक्ष्मीश्वराय च ॥ ५५ ॥
राजहंससहस्रं च गजेन्द्राणां सहस्रकम् ।
सुवर्णरचितं देयं हरये गतिहेतवे ॥ ५६ ॥
सुवर्णच्छत्रलक्षं च देयं नारायणाय च ।
विचित्रं रत्‍नसारेण मूर्धसौन्दर्यहेतवे ॥ ५७ ॥
मालतीनां च कुसुममक्षतं लक्षमीश्वरि ।
देयं वृन्दावनेशाय हास्यसौन्दर्यहेतवे ॥ ५८ ॥
अमूल्यरत्‍नलक्षं च देयं नारायणाय वै ।
सुव्रते व्रतपूर्णार्थं शीलसौन्दर्यहेतवे ॥ ५९ ॥
स्वच्छस्फटिकसंकाशं मणीन्द्रश्रेष्ठलक्षकम् ।
देयं मुनीन्द्रनाथाय मनःसौन्दर्यहेतवे ॥ ६० ॥
प्रवालसारसंकाशं मणिसारसहस्रकम् ।
देयं कृष्णाय भक्त्या च प्रियरागविवृद्धये ॥ ६ १ ॥
माणिक्यसारलक्षं च देयं कृष्णाय यत्‍नतः ।
जन्मनः कोटिपर्यन्तं स्वामिसौभाग्यहेतवे ॥ ६२ ॥
कूष्माण्डं नारिकेलं च जम्बीरं श्रीफलं तथा ।
फलान्येतानि देयानि हरये पुत्रहेतवे ॥ ६३ ॥
रत्‍नेन्द्रसारलक्षं च देयं कृष्णाय यत्‍नतः ।
असंख्यजन्मपर्यन्तं स्वामिनो धनवृद्धये ॥ ६४ ॥
वाद्यं नानाप्रकारं च कांस्यतालादिकं परम् ।
व्रते संपत्तिवृद्ध्यर्थं श्रीहरिं श्रावयेद्‌व्रती ॥ ६५ ॥
पायसं पिष्टकं सर्पिः शर्कराक्तं मनोहरम् ।
प्रदेयं हरये भक्त्या स्वामिनो भोगवृद्धये ॥ ६६ ॥
सुगन्धिपुष्पमालानां लक्षमक्षतमीप्सितम् ।
प्रदेयं हरये भक्त्या हरिभक्तिविवृद्धये ॥ ६७ ॥
नैवेद्यानि च देयानि स्वादूनि मधुराणि च ।
श्रीकृष्णप्रीतिप्राप्त्यर्थं दुर्गे नानाविधानि च ॥ ६८ ॥
नानाविधानि पुष्पाणि तुलसीसंयुतानि च ।
श्रीकृष्णप्रीतये भक्त्या व्रते देयानि सुव्रते ॥ ६९ ॥
ब्राह्मणानां सहस्रं च प्रत्यहं भोजयेद्‌व्रती ।
स्वात्मनः सस्यवृद्ध्यर्थं व्रते जन्मनि जन्मनि ॥ ७० ॥
पुष्पाञ्जलिशतं देयं नित्यं पूर्णं च पूजने ।
प्रणामशतकं देवि कर्तव्यं भक्तिवृद्धये ॥ ७१ ॥
षण्मासांश्च हविष्यान्नं मासान्पञ्च फलादिकम् ।
हविः पक्षं जलं पक्षं व्रते भक्षेच्च सुव्रते ॥ ७२ ॥
रत्‍नप्रदीपशतकं वह्निं दद्याद्‌दिवानिशम् ।
रात्रौ कुशासनं कृत्वा नित्यं जागरणं व्रते ॥ ७३ ॥
ज्ञानवृद्धिर्जागरणे सुबुद्धिर्मूलभोजने ।
लोभमोहकामक्रोधभयशोकविवादकम् ॥ ७४ ॥
स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरित्यपि ॥ ७५ ॥
विविधं मैथुनं त्याज्यं व्रतिना व्रतशुद्धये ।
कलहश्च परित्याज्यो व्रते क्रीडाविवृद्धये ॥ ७६ ॥
संपूर्णे च व्रते देवि प्रतिष्ठा तदनन्तरम् ।
त्रिशतं वै षष्ट्यधिकं रत्‍न्लकं वस्त्रसंयुतम् ॥ ७७ ॥
सभोज्यं सोपवीतं च सोपहारं ददात्वयम् ।
त्रिशतं वै षष्ट्यधिकसहस्रं विप्रभोजनम् ॥ ७८ ॥
त्रिशतं वै षष्ट्यधिकं सहस्रं तिलहोमकम् ।
त्रिशतं वै षष्ट्यधिकं सहस्रं स्वर्णमेव च ॥ ७९ ॥
देया व्रतसमाप्तौ च दक्षिणा विधिबोधिता ।
अन्यां समाप्तिदिवसे कथयिष्यामि दक्षिणाम् ॥ ८० ॥
एतदव्रतफलं देवि दृढा भक्तिर्हरौ भवेत् ।
हरितुल्यो भवेत्पुत्रो विख्यातो भुवनत्रये ॥ ८१ ॥
सौन्दर्यं स्वामिसौभाग्यमैश्वर्यं विपुलं धनम् ।
सर्ववाञ्छितसिद्धीनां बीजं जन्मनि जन्मनि ॥ ८२ ॥
इत्येवं कथितं देवि व्रतं कुरु महेश्वरि ।
पुत्रस्ते भविता साध्वीत्युक्त्वा स विररामह ॥ ८३ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे नारदनारायणसंवादे
पुण्यकव्रतविधानं नाम चतुर्थोऽध्यायः ॥ ४ ॥


GO TOP