ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - द्विषष्टितमोऽध्यायः
दुर्गोपाख्याने सुरथमेधःसंवादे सुरथवैश्ययोरभिलषितसिद्धिः -
नारद उवाच
कथं राजा महाज्ञानं संप्राप मुनिसत्तमात् ।
वैश्यो मुक्तिं मेधसश्च तन्मे व्याख्यातुमर्हसि ॥ १ ॥
नारायण उवाच
ध्रुवस्य पौत्रो बलवान्नन्दिरुत्कलनन्दनः ।
स्वायंभुवमनोर्वश्यः सत्यवादी जितेन्द्रियः ॥ २ ॥
अक्षौहिणीनां शतकं गृहीत्वा सैन्यमेव च ।
कोलां च वेष्टयामास सुरथस्य महामतेः ॥ ३ ॥
युद्धं बभूव नियतं पूर्णमब्दं च नारद ।
चिरंजीवी वैष्णवश्च जिगाय सुरथं नृपः ॥ ४ ॥
एकाकी सुरथो भीतो नन्दिना च बहिष्कृतः ।
निशायां हयमारुह्य जगाम गहनं वनम् ॥ ५ ॥
ददर्श तत्र वैश्यं च पुष्पभद्रानदीतटे ।
तयोर्बभूव सप्रीतिः कृतबान्धवयोर्मुने ॥ ६ ॥
वैश्येन सार्धं नृपतिरगच्छन्मेधसाश्रमम् ।
पुष्करं दुष्करं पुण्यक्षेत्रं वै भारते सताम् ॥ ७ ॥
ददर्श तत्र नृपतिर्मुनीन्द्रं तीव्रतेजसम् ।
शिष्येभ्यश्च प्रवोचन्तं ब्रह्मतत्त्वं सुदुर्लभम् ॥ ८ ॥
राजा ननाम वैश्यश्च शिरसा मुनिपुंगवम् ।
मुनिस्तौ पूजयामास ददौ ताभ्यां शुभाशिषम् ॥ ९ ॥
प्रश्नं चकार कुशलं जातिनाम पृथक्पृथक् ।
ददौ प्रत्युत्तरं राजा क्रमेण मुनिपुंगवम् ॥ १० ॥
सुरथ उवाच
राजाहं सुरथो ब्रह्मंश्चैत्रवंशसमुद्भवः ।
बहिष्कृतः स्वराज्याच्च नन्दिना बलिनाऽधुना ॥ ११ ॥
कमुपायं करिष्यामि कथं राज्यं भवेन्मम ।
तन्मां ब्रूहि महाभाग त्वामेव शरणागतम् ॥ १२ ॥
अयं वैश्यः समाधिश्च स्वगृहाच्च बहिष्कृतः ।
पुत्रैः कलत्रैर्दैवेन धनलोभेन धार्मिकः ॥ १३ ॥
ब्राह्मणाय ददौ नित्यं रत्नकोटिं दिने दिने ।
निषिध्यमानः पुत्रैश्च कलत्रैर्बान्धवैरयम् ॥ १४ ॥
कोपान्निराकृतस्तैश्च पुनरन्वेषितः शुचा ।
अयं गृहं च न ययौ विरक्तो ज्ञानवाञ्छुचिः ॥ १५ ॥
पुत्राश्च पितृशोकेन गृहं त्यक्त्वा ययुर्वनम् ।
दत्त्वा धनानि विप्रेभ्यो विरक्ताः सर्वकर्मसु ॥ १६ ॥
सुदुर्लभं हरेर्दास्यं वैश्यस्यास्य च वाञ्छितम् ।
कथं प्राप्नोति निष्कामस्तन्मे व्याख्यातुमर्हसि ॥ १७ ॥
मेधा उवाच
करोति मायया छन्नं विष्णुमाया दुरत्यया ।
निर्गुणस्य च कृष्णस्य त्रिगुणा विश्वमाज्ञया ॥ १८ ॥
कृपां करोति येषां सा धर्मिणां च कृपामयी ।
तेभ्यो ददाति कृपया कृष्णभक्तिं सुदुर्लभाम् ॥ १९ ॥
येषां मायाविनां माया न करोति कृपां नृप ।
मायया तान्निबध्नाति मोहजालेन दुर्गतान् ॥ २० ॥
नश्वरे नित्यसंसारे भ्रामयेद्बर्बरा सदा ।
कुर्वती नित्यबुद्धिं च विहाय परमेश्वरम् ॥ २१ ॥
देवमन्यं निषेवन्ते तन्मन्त्रं च जपन्ति च ।
मिथ्या किंचिन्निमित्तं च कृत्वा मनसि लोभतः ॥ २२ ॥
सप्तजन्मसु संसेव्य देवताश्च हरेः कलाः ।
तदा प्रकृत्याः कृपया सेवन्ते प्रकृतिं सदा ॥ २३ ॥
सप्तजन्मसु संसेव्य विष्णुमायां कृपामयीम् ।
शिवे भक्तिं लभन्ते ते ज्ञानानन्दे सनातने ॥ २४ ॥
ज्ञानाधिष्ठातृदेवं च हरेः संसेव्य शंकरम् ।
अचिराद्विष्णुभक्ति च प्राप्नुवन्ति महेश्वरात् ॥ २५ ॥
सेवन्ते सगुणं सत्त्वं विष्णुं विषयिणं तदा ।
सत्त्वज्ञानाच्च पश्यन्ति ज्ञानं वै निर्मलं नराः ॥ २६ ॥
निषेव्य सगुणं विष्णुं सात्त्विका वैष्णवा नराः ।
लभन्ते निर्गुणे भक्तिं श्रीकृष्णे प्रकृतेः परे ॥ २७ ॥
गृह्णन्ति सन्तस्तद्भक्ता मन्त्रं तस्य निरामयम् ।
निषेव्य निर्गुणं देवं ते भवन्ति च निर्गुणाः ॥ २८ ॥
असंख्यब्रह्मणां पातं ते च पश्यन्ति वैष्णवाः ।
दास्यं कुर्वन्ति सततं गोलोके च निरामये ॥ २९ ॥
कृष्णभक्तात्कृष्णमन्त्रं यो गृह्णाति नरोत्तमः ।
पुरुषाणां सहस्रं च स्वपितृणां समुद्धरेत् ॥ ३० ॥
मातामहानां साहस्रमुद्धरेन्मातरं तथा ।
दासादिकं समुद्धृत्य गोलोकं स प्रयाति च ॥ ३१ ॥
भवार्णवे महाघोरे कर्णधारस्वरूपिणी ।
दीनान्पारयते नित्यं कृष्णभक्त्या च नौकया ॥ ३२ ॥
स्वकर्मबन्धनं छेत्तुं वैष्णवानां च वैष्णवी ।
तीक्ष्णशस्त्रस्वरूपा सा कृष्णस्य परमात्मनः ॥ ३३ ॥
विवेचिका चाऽऽवरणी शक्तेः शक्तिर्द्विधा नृप ।
पूर्वं ददाति भक्ताय चेतराय परात्परा ॥ ३४ ॥
सत्यस्वरूपः श्रीकृष्णस्तस्मात्सर्वं च नश्वरम् ।
बुद्धिर्विवेचिकेत्येवं वैष्णवानां सतामपि ॥ ३५ ॥
नित्यरूपा ममेयं श्रीरिति चाऽऽवरणी च धीः ।
अवैष्णवानामसतां कर्मभोगभुजामहो ॥ ३६ ॥
अहं प्रचेतसः पुत्रः पौत्रश्च ब्रह्मणो नृप ।
भजामि कृष्णमात्मानं ज्ञानं संप्राप्य शंकरात् ॥ ३७ ॥
गच्छ राजन्नदीतीरं भज दुर्गां सनातनीम् ।
बुद्धिमावरणीं तुभ्यं देवी दास्यति कामिने ॥ ३८ ॥
निष्कामाय च वैश्याय वैष्णवाय च वैष्णवी ।
बुद्धिं विवेचिकां शुद्धां दास्यत्येव कृपामयी ॥ ३९ ॥
इत्युक्त्वा च मुनिश्रेष्ठो ददौ ताभ्यां कृपानिधिः ।
पूजाविधानं दुर्गायाः स्तोत्रं च कवचं मनुम् ॥ ४० ॥
वैश्यो मुक्तिं च संप्राप तां निषेव्य कृपामयीम् ।
राजा राज्यं मनुत्वं च परमैश्वर्यमीप्सितम् ॥ ४१ ॥
इत्येवं कथितं सर्वं दुर्गोपाख्यानमुत्तमम् ।
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥ ४२ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे दुर्गोपाख्याने सुरथमेधःसंवादे
सुरथवैश्ययोरभिलषितसिद्धिर्नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥
GO TOP
|