ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - एकादशोऽध्यायः

गङ्गोपाख्यानम् -


नारद उवाच
कलेः पञ्चसहस्राब्दे समतीते सुरेश्वरी ।
क्व गता सा महाभागा तन्मे व्याख्यातुमर्हसि ॥ १ ॥
श्रीनारायण उवाच
भारतं भारतोशापात्समागत्येश्वरेच्छया ।
जगाम तं च वैकुण्ठं शापान्ते पुनरेव सा ॥ २ ॥
भारतं भारती त्यक्त्वा चागमत्तद्धरेः पदम् ।
पद्मावती च शापान्ते गङ्गायाश्चैव नारद ॥ ३ ॥
गङ्गा सरस्वती लक्ष्मीश्चैतास्तिस्रः प्रिया हरेः ।
तुलसीसहिता ब्रह्मंश्चतस्रः कीर्तिताः श्रुतौ ॥ ४ ॥
नारद उवाच
हेतुना केन दैवी वै विष्णुपादाब्जसंभवा ।
धातुः कमण्डलुस्था च शंकरस्य शिरोगता ॥ ५ ॥
बभूव सा मुनिथच्छे गङ्गा नारायणप्रिया ।
अहो केन प्रकारेण तन्मे व्याख्यातुमर्हसि ॥ ६ ॥
श्रीनारायण उवाच
पुरा बभूव गोलोके सा गङ्गा द्रवरूपिणी ।
राधाकृष्णाङ्गसंभूता तदंशा तत्स्वरूपिणी ॥ ७ ॥
द्रवाधिष्ठातृरूपा या रूपेणाप्रतिमा भुवि ।
नवयौवनसंपन्ना रत्‍नाभरणभूषिता ॥ ८ ॥
शरन्मध्याह्नपद्मास्या सस्मिता सुमनोहरा ।
तप्तकाञ्जनवर्णाभा शरचन्द्रसमप्रभा ॥ ९ ॥
स्निग्धप्रभाऽतिसुस्निग्धा शुद्धसत्त्वस्वरूपिणी ।
सुपीनकठिनश्रोणी सुनितम्बयुगं वरम् ॥ १० ॥
पीनोन्नतं सुकठिनं स्तनयुग्मं सुवर्तुलम् ।
सुचारुनेत्रयुगलं सुकटाक्षं सुवक्रिमम् ॥ ११ ॥
वक्रिमं कबरीभारं मालतीमाल्यसंयुतम् ।
सिन्दूरबिन्दुललितं सार्धं चन्दनबिन्दुभिः ॥ १२ ॥
कस्तूरीपत्रिकायुक्तं गण्डयुग्मं मनोहरम् ।
बन्धूककुसुमाकारमधरोष्ठं च सुन्दरम् ॥ १३ ॥
पक्वदाडिमबीजाभदन्तपङ्‍क्तिसमुज्ज्वलम् ।
वाससी वह्निशुद्धे च नीवीयुक्ते च बिभ्रती ॥ १४ ॥
सा सकामा कृष्णपार्श्वे समुत्तस्थे सुलज्जिता ।
वाससा मुखमाच्छाद्य लोचनाभ्यां विभोर्मुखम् ॥ १५ ॥
निमेषरहिताभ्यां च पिबन्ती सततं मुदा ।
प्रफुल्लवदना हर्षान्नवसंगमलालसा ॥ १६ ॥
मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा ।
एतस्मिन्नन्तरे तत्र विद्यमाना च राधिका ॥ १७ ॥
गोपीत्रिंशत्कोटियुक्ता कोटिचन्द्रसमप्रभा ।
कोपेन रक्तपद्मास्या रक्तपङ्‍कजलोचना ॥ १८ ॥
श्वेतचम्पकवर्णाभा मत्तवारणगामिनी ।
अमूल्यरत्‍नखचितनानाभरणभूषिता ॥ १९ ॥
माणिक्यखचितं हारममूल्यं वह्निशौचकम् ।
पीताभवस्त्रयुगलं नीवीयुक्तं च बिभ्रती ॥ २० ॥
स्थलपद्मप्रभाजुष्टं कोमलं च सुरञ्जितम् ।
कृष्णदत्तार्घ्यसंयुक्तं विन्यस्यन्ती पदाम्बुजम् ॥ २१ ॥
रत्‍नेन्द्रराजखचितविमानादवरुह्य च ।
सेव्यमाना च सखिभिः श्वेतचामरवायुना ॥ २२ ॥
कस्तूरीबिन्दुतिलकं चन्दनेन्दुसमन्वितम् ।
दीप्तदीपप्रभाकारं सिन्दूरारुणसुन्दरम् ॥ २३ ॥
दधती भालमध्ये च सीमान्ताधस्तदुज्ज्वलम् ।
पारिजातप्रसूनादिमालायुक्तं सुवक्रिमम् ॥ २४ ॥
सुधारुकबरीभारं कम्पयन्ती च कम्पिता ।
सुचारुनासा संयुक्तमोष्ठं कम्पयती रुषा ॥ २५ ॥
गत्वा तस्थौ कृष्णपार्श्वे रत्‍नसिंहासने वरे ।
सखीनां च समूहैश्च परिपूर्णा विभोः सभा ॥ २६ ॥
तां च दृष्ट्‍वा समुत्तस्थौ कृष्णः सादरमच्युतः ।
संभाष्य मधुरालापैःसस्मितश्चससंभ्रमः ॥ २७ ॥
प्रणेमुरतिभक्ताश्च गोपा नम्रात्मकंधराः ।
तुष्टुवुस्ते च भक्त्या तं तुष्टाव परमेश्वरः ॥ २८ ॥
उत्थाय गङ्गा सहसा संभाषां च चकार सा ।
कुशलं परिपप्रच्छ भीताऽतिविनयेन च ॥ २९ ॥
नमभावस्थिता त्रस्ता शुष्ककण्ठौष्ठतालुका ।
ध्यानेन शरणापन्ना श्रीकृष्णचरणाम्बुजे ॥ ३० ॥
तद्धृत्पद्मे स्थितः कृष्णो भीतायै चाभयं ददौ ।
बभूव स्थिरचित्ता सा सर्वेश्वरवरेण च ॥ ३१ ॥
ऊर्ध्वं सिहासनस्थां च राधां गङ्गा ददर्श सा ।
सुस्निग्धा सुखदृश्यां च ज्वलन्तीं ब्रह्मतेजसा ॥ ३२ ॥
असंख्यब्रह्मणामाद्यां चाऽऽदिसृष्टिं सनातनीम् ।
यथा द्वादशवर्षीयां कन्यां च नवयौवनाम् ॥ ३३ ॥
विश्ववृन्दे निरुपमां रूपेण च गुणेन च ।
शान्तां कान्तामनन्तां तामाद्यन्तरहितां सतीम् ॥ ३४ ॥
शुभां सुभद्रां सुभगां स्वामिसौभाग्यसंयुताम् ।
सौन्दर्यसुन्दरीं श्रेष्ठां सुन्दरीष्वखिलासु च ॥ ३५ ॥
कृष्णार्धाङ्गी कृषसमां तेजसा वयसा त्विषा ।
पूजितां च महालक्ष्म्या महालक्ष्मीश्वरेण च ॥ ३६ ॥
प्रच्छाद्यमानां प्रभया सभामीशस्य सुप्रभाम् ।
सखीदत्तं च ताम्बूलं गृह्णतीमन्यर्लभम् ॥ ३७ ॥
अजन्यां सर्वजननीं धन्यां मान्या च मानिनीम् ।
कृष्णप्राणाधिदेवीं च प्राणप्रियतमां रमाम् ॥ ३८ ॥
दृष्ट्‍वा रासेश्वरी तृप्तिं न जगाम सुरेश्वरी ।
निमेषरहिताभ्यां च लोचनाभ्यां पपौ च ताम् ॥ ३९ ॥
एतस्मिन्नन्तरे राधा जगदीशमुवाच सा ।
वाचा मधुरया शान्ता विनीता सस्मिता मुने ॥ ४० ॥
राधिकोवाच
केयं प्राणेश कल्याणी सस्मिता त्वन्मुखाम्बुजम् ।
पश्यन्तीं सततं पार्श्वे सकामा रक्तलोचना ॥ ४१ ॥
मूर्छां प्राप्नोति रूपेण पुलकाङ्कितविग्रहा ।
वस्त्रेण मुखमाच्छाद्य निरीक्षन्ती पुनः पुनः ॥ ४२ ॥
त्वं चापि मां संनिरीक्ष्य सकामः सस्मितः सदा ।
मयि जीवति गोलोके भूता दुर्वृत्तिरीदृशी ॥ ४३ ॥
त्वमेव चैवं दुर्वृत्तं वारं वारं करोषि च ।
क्षमां करोमि ते प्रेम्णा स्त्रीजातिः स्निग्धभाजसा ॥ ४४ ॥
संगृह्येमां प्रियामिष्टां गोलोकाद्‌गच्छ लम्पट ।
अन्यथा नहि ते भद्रं भविष्यसि सुरेश्वर ॥ ४५ ॥
दृष्टस्त्वं विरजायुक्तो मया चन्दनकानने ।
क्षता कृता मया पूर्वं सखीनां वचनादहो ॥ ४६ ॥
त्वया मच्छब्दमात्रेण तिरोधानं कृतं पुरा ।
देहं संत्यज्य विरजा नदीरूपा बभूव सा ॥ ४७ ॥
कोटियोजनविस्तीर्णा ततो दैर्घ्ये चतुर्गुणा ।
अद्यापि विद्यमाना सा तव सत्कीर्तिरूपिणी ॥ ४८ ॥
गृहं मयि गतायां च पुनर्गत्वा तदन्तिकम् ।
उच्चैररौषीर्विरजे विरजे चेति संस्मरन् ॥ ४९ ॥
तदा तोयात्समुत्थाय सा योगात्सिद्धयोगिनी ।
सालंकारा मूर्तिमती ददौ तुभ्यं च दर्शनम् ॥ ५० ॥
ततस्तां च समाश्लिष्य वीर्याधानं कृतं त्वया ।
ततो बभूवस्तस्यां च समुद्राः सप्त चैव हि ॥ ५१ ॥
दृष्टस्त्वं शोभया गोप्या युक्तश्चम्पककानने ।
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ॥ ५२ ॥
शोभा देहं परित्यज्य प्राविशच्चन्द्रमण्डलम् ।
ततस्तस्याः शरीरं च स्निग्धं तेजो बभूव ह ॥ ५३ ॥
संविभज्य त्वया दत्तं हृदयेन विदूयता ।
रत्‍नाय किंचित्स्वर्णाय किंचिन्सतिवराय च ॥ ५४ ॥
किंचित्स्त्रीणां मुखाब्जेभ्यः किंचिद्‌राज्ञे च किंचन ।
किंचित्प्रकृष्टवस्त्रेभ्यो रौप्येभ्यश्चापि किंचन ॥ ५५ ॥
किंचिच्चन्दनपङ्‍तेभ्यस्तोयेभ्यश्चापि किंचन ।
किंचित्किसलयेभ्यश्च पुष्पेभ्यश्चापि किंचन ॥ ५६ ॥
किंचित्फलेभ्यः सस्येभ्यः सुपक्वेभ्यश्च किंचन ।
नृपदेवगृहेभ्यश्च संस्कृतेभ्यश्च किंचन ॥
किंचिन्नूतनवस्त्रेभ्यो गोरसेभ्यश्च किंचन ॥ ५७ ॥
दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने ।
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ॥ ५८ ॥
प्रभा देहं परित्यज्य प्राविशत्सूर्यमण्डलम् ।
ततस्तस्याः शरीरं च तीक्ष्णं तेजो बभूव ह ॥ ५९ ॥
संविभज्य त्वया दत्तं प्रेम्णा च रुदता पुरा ।
विभज्य चक्षुषोर्दत्तं लज्जया मद्‌भयेन च ॥ ६० ॥
हुताशनाय किंचिच्च नृपेभ्यश्चापि किंचन ।
किंचित्पुरुषसंघेभ्यो देवेभ्यश्चापि किंचन ॥ ६१ ॥
किंचिद्‌दस्युगणेभ्यश्च नागेभ्यश्चापि किंचन ।
ब्राह्मणेभ्यो मुनिभ्यश्च तपस्विभ्यश्च किंचन ॥ ६२ ॥
स्त्रीभ्यः सौभाग्ययुक्ताभ्यो यशस्विभ्यश्च किंचन ।
तच्च दत्त्वा च सर्वेभ्यः पूर्वं रोदितुमुद्यतः ॥ ६३ ॥
शान्त्या गोप्या युतस्त्वं च दृष्टो वै रासमण्डले ।
वसन्ते पुष्पशय्यायां माल्यवांश्चन्दनोक्षितः ॥ ६४ ॥
रत्‍नप्रदीपैर्युक्तश्च रत्‍ननिर्मितमन्दिरे ।
रत्‍नभूषणभूषाढ्यो रत्‍नभूषितया सह ॥ ६५ ॥
त्वया दत्तं च ताम्बूलं भुक्तवत्यै सुवासितम् ।
तया दत्तं च ताम्बूलं भुक्तवांस्त्वं पुरा विभो ॥ ६६ ॥
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ।
शान्तिर्देहं परित्यज्य भिया लीना त्वयिप्रभो ॥ ६७ ॥
ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह ।
संविभज्य त्वया दत्तं प्रेम्णा च रुदता पुरा ॥ ६८ ॥
विश्वे विषयिणे किंचित्सत्त्वरूपाय विष्णवे ।
शुद्धसत्त्वस्वरूपायै किंक्तिलक्ष्म्यै पुरा विभो ॥ ६९ ॥
त्वन्मन्त्रोपासकेभ्यश्च वैष्णवेभ्यश्च किंचन ।
तपस्विभ्यश्च धर्माय धर्मिष्ठेभ्यश्च किंचन ॥ ७० ॥
मया पूर्वं हि दृष्टस्त्वं गोप्या च क्षमया सह ।
सुवेषवान्माल्यवांश्च गन्धचन्दनसंयुतः ॥ ७१ ॥
रत्‍नभूषितया चारुचन्दनोक्षितया तया ।
सुखेन मूर्च्छितस्तल्पे पुष्पचन्दनसंयुते ॥ ७२ ॥
श्लिष्टोऽभून्निद्रया सद्यः सुखेन नवसंगमात् ।
मया प्रबोधितौ सा च भवांश्च स्मरणं कुरु ॥ ७३ ॥
गृहीतं पीतवस्त्रं ते मुरली च मनोहरा ।
वनमाला कौस्तुभश्चाप्यमूल्यं रत्‍नकुण्डलम् ॥ ७४ ॥
पश्चात्प्रदत्तं प्रेम्णा च सखीनां वचनादहो ।
लज्जया कृष्णवर्णोऽभूदद्यापि च भवान्प्रभो ॥ ७५ ॥
क्षमा देहं परित्यज्य लज्जया पृथिवीं गता ।
ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह ॥ ७६ ॥
संविभज्य त्वया दत्तं प्रेम्णा च रुदता पुरा ।
किंचिद्‌दत्तं विष्णवे च वैष्णवेभ्यश्च किंचन ॥ ७७ ॥
धर्मिष्ठेभ्यश्च धर्माय दुर्बलेभ्यश्च किंचन ।
तपस्विभ्योऽपि देवेभ्यः पण्डितेभ्यश्च किंचन ॥ ७८ ॥
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।
त्वद्‌गुणं बहुविस्तारं जानामि च परं प्रभो ॥ ७९ ॥
इत्येवमुक्त्वा सा राधा रक्तपङ्कजलोचना ।
गङ्गा वक्तुं समारेभे नम्रास्यां लज्जिता सतीम् ॥ ८० ॥
गङ्गा रहस्यं योगेन ज्ञात्वा वै सिद्धयोगिनी ।
तिरोभूय सभामध्यात्स्वजलं प्रविवेश सा ॥ ८१ ॥
राधा योगेन विज्ञाय सर्वत्रावस्थितां च ताम् ।
पानं कर्तुं समारेभे गण्डूषात्सिद्धयोगिनी ॥ ८२ ॥
गङ्गा रहस्यं योगेन ज्ञात्वा वै सिद्धयोगिनी ।
श्रीकृष्णचरणाम्भोजं परमं शरणं ययौ ॥ ८३ ॥
गोलोकं चैव वैकुण्ठं ब्रह्मलोकादिकं तथा ।
ददर्श राधा सर्वत्र नैव गङ्गा ददर्श सा ॥ ८४ ॥
सर्वतो जलशून्यं च शुष्कं गोलोकपङ्कजम् ।
जलजन्तुसमहैश्च मृतदेहैः समिन्वतम् ॥ ८५ ॥
ब्रह्मविष्णुशिवानन्तधर्मेन्द्रेन्दुदिवाकराः ।
मनवो मानवाः सर्वे देवाः सिद्धास्तपस्विनः ॥ ८६ ॥
गोलोकं च समाजग्मुः शुष्ककण्ठौष्ठतालुकाः ।
सर्वे प्रणेमुर्गोविन्दं सर्वेशं प्रकृतेः परम् ॥ ८७ ॥
वरं वरेण्यं वरदं वरिष्ठं वरकारणम् ।
वरेशं च वरार्हं च सर्वेषां प्रवरं प्रभुम् ॥ ८८ ॥
निरीहं च निराकारं निर्लिप्तं च निराश्रयम् ।
निर्गुणं च निरुत्साहं निर्व्यूहं च निरञ्जनम् ॥ ८९ ॥
स्वेच्छामयं च साकारं भक्तानुग्रहविग्रहम् ।
सत्यस्वरूपं सत्येशं साक्षिरूपं सनातनम् ॥ ९० ॥
परं परेशं परमं परमात्मानमीश्वरम् ।
प्रणम्य तुष्टुवुः सर्वे भक्तिनम्रात्मकंधराः ॥ ९१ ॥
सगद्‌गदाः साश्रुनेत्राः पुलकाङ्कितविग्रहाः ।
सर्वे संस्तूय सर्वेशं भगवन्तं परं हरिम् ॥ ९२ ॥
ज्योतिर्मयं परं ब्रह्म सर्वकारणकारणम् ।
अमूल्यरत्‍नखचितचित्रसिंहासनस्थितम् ॥ ९३ ॥
सेव्यमानं च गोपालैः श्वेतचामरवायुना ।
गोपालिकानृत्यगीतं पश्यन्तं सस्मितं मुदा ॥ ९४ ॥
वल्गुवेषैः परिवृतं गोपैश्च शतकोटिभिः ।
चन्दनोक्षितसर्वाङ्गं रत्‍नभूषणभूषितम् ॥ ९५ ॥
नवीननीरदश्यामं किशोरं पीतवाससम् ।
यथा द्वादशवर्षीयं बालं गोपालरूपिणम् ॥ ९६ ॥
कोटिचन्द्रप्रभाजुष्टपुष्टश्रीयुक्तविग्रहम् ।
स्वतेजसा परिवृतं सुखदृश्यं मनोहरम् ॥ ९७ ॥
कोटिकन्दर्पसौन्दर्यलीलालावण्यविग्रहम् ।
दृश्यमानं च गोपीभिः सस्मिताभिश्च संततम् ॥ ९८ ॥
भूषणैर्भूषिताभिश्च महारत्‍नविनिर्मितैः ।
पिबन्तीभिर्लोचनाभ्यां मुखचन्द्रं प्रभोर्मुदा ॥ ९९ ॥
प्राणाधिकप्रियतमाराधावक्षःस्थलस्थितम् ।
तया प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ॥ १०० ॥
परिपूर्णतमं रासे ददृशुः सर्वतः सुराः ।
मुनयो मानवाः सिद्धास्तपसा च तपस्विनः ॥ १०१ ॥
प्रहृष्टमानसाः सर्वे जग्मुः परमविस्मयम् ।
परस्परं समालोच्य ते तमूचुश्चतुर्मुखम् ॥ १०२ ॥
निवेदितुं जगन्नाथं स्वाभिप्रायमभीप्सितम् ॥
ब्रह्मा तद्वचनं श्रुत्वा स्थितं विष्णोस्तु दक्षिणे ॥ १०३ ॥
वामतो वामदेवस्य चागमत्कृष्णमुत्तमम् ।
परमानन्दयुक्तं च परमानन्दरूपकम् ॥ १०४ ॥
सर्वं कृष्णमयं धाता चापश्यद्‌रासमण्डले ।
सर्वं समानवेषं च समानासनसंस्थितम् ॥ १०५ ॥
द्विभुजं मुरलीहस्तं वनमालाविभूषितम् ।
मयूरपुच्छचूडं च कौस्तुभेन विराजितम् ॥ १०६ ॥
अतीव कमनीयं च सुन्दरं शान्तविग्रहम् ।
गुणभूषणरूपेण तेजसा वयसा त्विषा ॥ १०७ ॥
वाससा यशसा कीर्त्या मूर्त्या सुन्दरया समम् ।
परिपूर्णतमं सर्वं सर्वैश्वर्यसमन्वितम् ॥ १०८ ॥
कः सेव्यः सेवको वेति दृष्ट्‍वा निर्वक्तुमक्षमः ।
क्षणं तेजः स्वरूपं च रूपराशियुतं क्षणम् ॥
निराकारं च साकारं ददर्श द्वैधलक्षणम् ॥ १०९ ॥
एकमेव क्षणं कृष्णं राधया सहितं परम् ।
प्रत्येकासनसंस्थं च तया च सहितं क्षणम् ॥ ११० ॥
राधारूपधरं कृष्णं कृष्णरूपकलत्रकम् ।
किं स्त्रीरूपं च पुंरूपं विधाता ध्यातुमक्षमः ॥ १११ ॥
हृत्पद्मस्थं च श्रीकृष्णं धाता ध्यानेन चेतसा ।
चकार स्तवनं भक्त्या प्रणम्याथ त्वनेकधा ॥ ११२ ॥
ततः स चक्षुरुन्मील्य पुनश्च तदनुज्ञया ।
अपश्यत्कृष्णमेकं च राधावक्षः स्थलस्थितम् ॥ ११३ ॥
स्वपार्षदैः परिवृतं गोपीमण्डलमण्डितम् ।
पुनः प्रणेमुस्तं दृष्ट्‍वा तुष्टुवुश्च पुनश्च ते ॥ ११४ ॥
विज्ञाय तदभिप्रायं तानुवाच सुरेश्वरः ।
सर्वा मा सर्वयज्ञेशः सर्वेशः सर्वभावनः ॥ ११५ ॥
श्रीभगवानुवाच
आगच्छ कुशलं ब्रह्मन्नागच्छ कमलायते ।
इहाऽऽगच्छ महादेव शश्वत्कुशलमस्तु वः ॥ ११६ ॥
आगताः स्थ महाभागा गङ्गानयनकारणात् ।
गङ्गा मच्चरणाम्भोजे भयेन शरणं गता ॥ ११७ ॥
राधेमां पातुमिच्छन्ती दृष्ट्‍वा मत्संनिधानतः ।
दास्यामीमां बहिः कृत्वा यूयं कुरुत निर्भयाम् ॥ ११८ ॥
श्रीकृष्णस्य वचः श्रुत्वा सस्मितः कमलोद्‌भवः ।
तुष्टाव सर्वाराध्यां तां राधां श्रीकृष्णपूजिताम् ॥ ११९ ॥
वक्त्रैश्चतुर्भिः संस्तूय भक्तिनम्रात्मकंधरः ।
धाता चतुर्णां वेदानामुवाच चतुराननः ॥ १ २० ॥
ब्रह्मोवाच
गङ्गा त्वदङ्गसंभूता प्रभोर्वै रासमण्डले ।
युवयोर्द्रवरूपा या मुग्धयोः शंकरः स्वराट् ॥ १२१ ॥
कृष्णांशा च त्वदंशा च त्वत्कन्यासदृशी प्रिया ।
त्वन्मन्त्रग्रहणं कृत्वा करोतु तव पूजनम् ॥ १२२ ॥
भविष्यति पतिस्तस्या वैकुण्ठे च चतुर्भुजः ।
भूगतायाः कलायाश्चलवणोदश्चवारिधिः ॥ १२३ ॥
गोलोकस्य च या राधा सर्वत्रस्था तथात्मिका ।
तदात्मिका त्वं देवेशि सर्वदा च तवाऽऽत्मजा ॥ १२४ ॥
ब्रह्मणो वचनं श्रुत्वा स्वीचकार च सस्मिता ।
वह्निर्बभूव सा कृष्णपादाङ्‌गुष्ठनखाग्रतः ॥ १२५ ॥
तत्रैव संवृता शान्ता तस्थौ तेषां च मध्यतः ।
उवास तोयादुत्थाय तदधिष्ठातृदेवता ॥ १२६ ॥
तत्तोयं ब्रह्मणा किंचित्स्थापितं च कमण्डलौ ।
किंचिद्‌दधार शिरसि चन्द्रार्धे चन्द्रशेखरः ॥ १२७ ॥
गङ्गायं राधिकामन्त्रं प्रददौ कमलोद्‌भवः ।
तत्स्तोत्र कवचं पूजाविधानं ध्यानमेव च ॥ १२८ ॥
सर्वं तत्सामवेदोक्तं पुरश्चर्याक्रमं तथा ।
गङ्गा तामेव संपूज्य वैकुण्ठं प्रययौ सती ॥ १२९ ॥
लक्ष्मीः सरस्वती गङ्गा तुलसी विश्वपावनी ।
एता नारायणस्यैवचतस्रो योषितो मुने ॥ १३० ॥
अथ तं सम्मितः कृष्णो ब्रह्माणं समुवाच ह ।
सर्वं कालस्य वृत्तान्तं दुर्बोध्यमविपश्चिताम् ॥ १३१ ॥
श्रीकृष्ण उवाच
गृहाण गङ्गा हे ब्रह्मन् हे विष्णो हे महेश्वर ।
शृणु कालस्य वृत्तान्तं यदतीतं निशामय ॥ १३२ ॥
यूयं च येऽन्यदेवाश्च मुनयो मनवस्तथा ।
सिद्धास्तपस्विनश्चैव ये येऽत्रैव समागताः ॥ १३३ ॥
ते ते जीवन्ति गोलोके कालचक्रविवर्जिते ।
जलप्लुत सर्वविश्वमागतं प्राकृते लये ॥ १३४ ॥
ब्रह्माद्या येऽन्यविश्वस्थास्ते लीना अधुना मयि ।
वैकुण्ठं च विना सर्वं सजलं पश्य पद्मज ॥ १३५ ॥
गत्वा सृष्टिं कुरु पुनर्ब्रह्मलोकादिकं परम् ।
सब्रह्माण्डं विरचय पश्चाद्‌गङ्गा च यास्यति ॥ १३६ ॥
एवमन्येषु विश्वेषु सृष्ट्‍वा ब्रह्मादिकं पुनः ।
करोम्यहं पुनः सृष्टिं गच्छ शीघ्रं सुरैः सह ॥ १३७ ॥
मच्चक्षुषोर्निमेषेण ब्रह्मणः पतनं भवेत् ।
गताः कतिविधास्ते च भविष्यन्ति च वेधसः ॥ १३८ ॥
इत्युक्त्वा राधिकानाथो जगामान्तःपुरं मुने ।
देवा गत्वा पुनः सृष्टिं चक्रुरेव प्रयत्‍नतः ॥ १३९ ॥
गोलोके च स्थिता गङ्गा वैकुण्ठे शिवलोकके ।
ब्रह्मलोके तथाऽन्यत्र यत्र यत्र पुरा स्थिता ॥ १४० ॥
तत्रैव सा गता गङ्गा चाऽज्ञया परमात्मनः ।
निर्गता विष्णुपादाब्जात्तेन विष्णुपदी स्मृता ॥ १४१ ॥
इत्येवं कथितं सर्वं गङ्गोपाख्यानमुत्तमम् ।
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥ १४२ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे गङ्गोपाख्यानं नामैकादशोऽध्यायः ॥ ११ ॥


GO TOP