श्रीमद्‌भागवत महापुराण

अथ त्र्यशीतितमोऽध्यायः

द्रौपदीं प्रति श्रीकृष्णपत्‍नीनां स्वस्वोद्वाहवृत्तांतवर्णनम् -

[ Right click to 'save audio as' for downloading Audio ]

शुक उवाच -
( अनुष्टुप् )
तथानुगृह्य भगवान् गोपीनां स गुरुर्गतिः ।
युधिष्ठिरमथापृच्छत् सर्वांश्च सुहृदोऽव्ययम् ॥ १ ॥
त एवं लोकनाथेन परिपृष्टाः सुसत्कृताः ।
प्रत्यूचुर्हृष्टमनसस्तत्पादेक्षाहतांहसः ॥ २ ॥
( मिश्र )
कुतोऽशिवं त्वच्चरणाम्बुजासवं
     महन्मनस्तो मुखनिःसृतं क्वचित् ।
पिबन्ति ये कर्णपुटैरलं प्रभो
     देहंभृतां देहकृदस्मृतिच्छिदम् ॥ ३ ॥
( वसंततिलका )
हित्वाऽऽत्मधामविधुतात्मकृतत्र्यवस्थ-
     मानन्दसम्प्लवमखण्डमकुण्ठबोधम् ।
कालोपसृष्टनिगमावन आत्तयोग-
     मायाकृतिं परमहंसगतिं नताः स्म ॥ ४ ॥
ऋषिरुवाच -
( मिश्र )
इत्युत्तमश्लोकशिखामणिं जने-
     ष्वभिष्टुवत्स्वन्धककौरवस्त्रियः ।
समेत्य गोविन्दकथा मिथोऽगृणं-
     स्त्रिलोकगीताः शृणु वर्णयामि ते ॥ ५ ॥
द्रौपद्युवाच -
( अनुष्टुप् )
हे वैदर्भ्यच्युतो भद्रे हे जाम्बवति कौसले ।
हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे ॥ ६ ॥
हे कृष्णपत्‍न्य एतन्नो ब्रूते वो भगवान् स्वयम् ।
उपयेमे यथा लोकमनुकुर्वन् स्वमायया ॥ ७ ॥
रुक्मिण्युवाच -
( वसंततिलका )
चैद्याय मार्पयितुमुद्यतकार्मुकेषु
     राजस्वजेयभटशेखरिताङ्‌घ्रिरेणुः ।
निन्ये मृगेन्द्र इव भागमजावियूथात्
     तच्छ्रीनिकेतचरणोऽस्तु ममार्चनाय ॥ ८ ॥
सत्यभामोवाच -
यो मे सनाभिवधतप्तहृदा ततेन
     लिप्ताभिशापमपमार्ष्टुमुपाजहार ।
जित्वर्क्षराजमथ रत्‍नमदात् स तेन
     भीतः पितादिशत मां प्रभवेऽपि दत्ताम् ॥ ९ ॥
जाम्बवत्युवाच -
प्राज्ञाय देहकृदमुं निजनाथदैवं
     सीतापतिं त्रिणवहान्यमुनाभ्ययुध्यत् ।
ज्ञात्वा परीक्षित उपाहरदर्हणं मां
     पादौ प्रगृह्य मणिनाहममुष्य दासी ॥ १० ॥
कालिन्द्युवाच -
( अनुष्टुप् )
तपश्चरन्तीमाज्ञाय स्वपादस्पर्शनाशया ।
सख्योपेत्याग्रहीत् पाणिं योऽहं तद्‌गृहमार्जनी ॥ ११ ॥
मित्रविन्दोवाच -
( वसंततिलका )
यो मां स्वयंवर उपेत्य विजित्य भूपान्
     निन्ये श्वयूथगमिवात्मबलिं द्विपारिः ।
भ्रातॄंश्च मेऽपकुरुतः स्वपुरं श्रियौक-
     तस्यास्तु मेऽनुभवमङ्‌घ्र्यवनेजनत्वम् ॥ १२ ॥
सत्योवाच -
सप्तोक्षणोऽतिबलवीर्यसुतीक्ष्णशृङ्‌गान्
     पित्रा कृतान् क्षितिपवीर्यपरीक्षणाय ।
तान् वीरदुर्मदहनस्तरसा निगृह्य
     क्रीडन् बबन्ध ह यथा शिशवोऽजतोकान् ॥ १३ ॥
( अनुष्टुप् )
य इत्थं वीर्यशुल्कां मां दासीभिश्चतुरङ्‌गिणीम् ।
पथि निर्जित्य राजन्यान् निन्ये तद्दास्यमस्तु मे ॥ १४ ॥
भद्रोवाच -
पिता मे मातुलेयाय स्वयमाहूय दत्तवान् ।
कृष्णे कृष्णाय तच्चित्तामक्षौहिण्या सखीजनैः ॥ १५ ॥
अस्य मे पादसंस्पर्शो भवेज्जन्मनि जन्मनि ।
कर्मभिर्भ्राम्यमाणाया येन तच्छ्रेय आत्मनः ॥ १६ ॥
लक्ष्मणोवाच -
( मिश्र )
ममापि राज्ञ्यच्युतजन्मकर्म
     श्रुत्वा मुहुर्नारदगीतमास ह ।
चित्तं मुकुन्दे किल पद्महस्तया
     वृतः सुसंमृश्य विहाय लोकपान् ॥ १७ ॥
( अनुष्टुप् )
ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सलः ।
बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत् ॥ १८ ॥
यथा स्वयंवरे राज्ञि मत्स्यः पार्थेप्सया कृतः ।
अयं तु बहिराच्छन्नो दृश्यते स जले परम् ॥ १९ ॥
श्रुत्वैतत्सर्वतो भूपा आययुर्मत्पितुः पुरम् ।
सर्वास्त्रशस्त्रतत्त्वज्ञाः सोपाध्यायाः सहस्रशः ॥ २० ॥
पित्रा सम्पूजिताः सर्वे यथावीर्यं यथावयः ।
आददुः सशरं चापं वेद्धुं पर्षदि मद्धियः ॥ २१ ॥
आदाय व्यसृजन् केचित् सज्यं कर्तुमनीश्वराः ।
आकोटि ज्यां समुत्कृष्य पेतुरेकेऽमुना हताः ॥ २२ ॥
सज्यं कृत्वापरे वीरा मागधाम्बष्ठचेदिपाः ।
भीमो दुर्योधनः कर्णो नाविन्दन् तदवस्थितिम् ॥ २३ ॥
मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तदवस्थितिम् ।
पार्थो यत्तोऽसृजद्‌ बाणं नाच्छिनत् पस्पृशे परम् ॥ २४ ॥
राजन्येषु निवृत्तेषु भग्नमानेषु मानिषु ।
भगवान् धनुरादाय सज्यं कृत्वाथ लीलया ॥ २५ ॥
तस्मिन् सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज्जले ।
छित्त्वेषुणापातयत्तं सूर्ये चाभिजिति स्थिते ॥ २६ ॥
दिवि दुन्दुभयो नेदुः जयशब्दयुता भुवि ।
देवाश्च कुसुमासारान् मुमुचुर्हर्षविह्वलाः ॥ २७ ॥
( वसंततिलका )
तद् रङ्‌गमाविशमहं कलनूपुराभ्यां
     पद्‌भ्यां प्रगृह्य कनकोज्ज्वलरत्‍नमालाम् ।
नूत्‍ने निवीय परिधाय च कौशिकाग्र्ये
     सव्रीडहासवदना कबरीधृतस्रक् ॥ २८ ॥
उन्नीय वक्त्रमुरुकुन्तलकुण्डलत्विड्
     गण्डस्थलं शिशिरहासकटाक्षमोक्षैः ।
राज्ञो निरीक्ष्य परितः शनकैर्मुरारे-
     रंसेऽनुरक्तहृदया निदधे स्वमालाम् ॥ २९ ॥
( अनुष्टुप् )
तावन्मृदङ्‌गपटहाः शङ्खभेर्यानकादयः ।
निनेदुर्नटनर्तक्यो ननृतुर्गायका जगुः ॥ ३० ॥
एवं वृते भगवति मयेशे नृपयूथपाः ।
न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्छयातुराः ॥ ३१ ॥
मां तावद् रथमारोप्य हयरत्‍नचतुष्टयम् ।
शार्ङ्‌गमुद्यम्य सन्नद्धस्तस्थावाजौ चतुर्भुजः ॥ ३२ ॥
दारुकश्चोदयामास काञ्चनोपस्करं रथम् ।
मिषतां भूभुजां राज्ञि मृगाणां मृगराडिव ॥ ३३ ॥
तेऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन ।
संयत्ता उद्धृतेष्वासा ग्रामसिंहा यथा हरिम् ॥ ३४ ॥
ते शार्ङ्‌गच्युतबाणौघैः कृत्तबाह्वङ्‌घ्रिकन्धराः ।
निपेतुः प्रधने केचिदेके सन्त्यज्य दुद्रुवुः ॥ ३५ ॥
( प्रभावती )
ततः पुरीं यदुपतिरत्यलङ्‌कृतां
     रविच्छदध्वजपटचित्रतोरणाम् ।
कुशस्थलीं दिवि भुवि चाभिसंस्तुतां
     समाविशत्तरणिरिव स्वकेतनम् ॥ ३६ ॥
( अनुष्टुप् )
पिता मे पूजयामास सुहृत्संबन्धिबान्धवान् ।
महार्हवासोऽलङ्‌कारैः शय्यासनपरिच्छदैः ॥ ३७ ॥
दासीभिः सर्वसंपद्‌भिः भटेभरथवाजिभिः ।
आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः ॥ ३८ ॥
आत्मारामस्य तस्येमा वयं वै गृहदासिकाः ।
सर्वसङ्‌गनिवृत्त्याद्धा तपसा च बभूविम ॥ ३९ ॥
महिष्य ऊचुः -
( वसंततिलका )
भौमं निहत्य सगणं युधि तेन रुद्धा
     ज्ञात्वाथ नः क्षितिजये जितराजकन्याः ।
निर्मुच्य संसृतिविमोक्षमनुस्मरन्तीः
     पादाम्बुजं परिणिनाय य आप्तकामः ॥ ४० ॥
( अनुष्टुप् )
न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यमप्युत ।
वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥ ४१ ॥
कामयामह एतस्य श्रीमत्पादरजः श्रियः ।
कुचकुङ्‌कुमगन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः ॥ ४२ ॥
व्रजस्त्रियो यद् वाञ्छन्ति पुलिन्द्यस्तृणवीरुधः ।
गावश्चारयतो गोपाः पदस्पर्शं महात्मनः ॥ ४३ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
त्र्यशीतितमोऽध्यायः ॥ ८३ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP