श्रीमद्‌भागवत महापुराण

अथ चतुःषष्टितमोऽध्यायः

नृगस्योद्धारः -

[ Right click to 'save audio as' for downloading Audio ]

शुक उवाच -
( अनुष्टुप् )
एकदोपवनं राजन् जग्मुर्यदुकुमारकाः ।
विहर्तुं साम्बप्रद्युम्नचारुभानुगदादयः ॥ १ ॥
क्रीडित्वा सुचिरं तत्र विचिन्वन्तः पिपासिताः ।
जलं निरुदके कूपे ददृशुः सत्त्वमद्‌भुतम् ॥ २ ॥
कृकलासं गिरिनिभं वीक्ष्य विस्मितमानसाः ।
तस्य चोद्धरणे यत्‍नं चक्रुस्ते कृपयान्विताः ॥ ३ ॥
चर्मजैस्तान्तवैः पाशैर्बद्ध्वा पतितमर्भकाः ।
नाशक्नुवन् समुद्धर्तुं कृष्णायाचख्युरुत्सुकाः ॥ ४ ॥
तत्रागत्यारविन्दाक्षो भगवान् विश्वभावनः ।
वीक्ष्योज्जहार वामेन तं करेण स लीलया ॥ ५ ॥
( मिश्र )
स उत्तमःश्लोककराभिमृष्टो
     विहाय सद्यः कृकलासरूपम् ।
सन्तप्तचामीकरचारुवर्णः
     स्वर्ग्यद्‌भुतालङ्‌करणाम्बरस्रक् ॥ ६ ॥
पप्रच्छ विद्वानपि तन्निदानं
     जनेषु विख्यापयितुं मुकुन्दः ।
कस्त्वं महाभाग वरेण्यरूपो
     देवोत्तमं त्वां गणयामि नूनम् ॥ ७ ॥
दशामिमां वा कतमेन कर्मणा
     संप्रापितोऽस्यतदर्हः सुभद्र ।
आत्मानमाख्याहि विवित्सतां नो
     यन्मन्यसे नः क्षममत्र वक्तुम् ॥ ८ ॥
शुक उवाच -
( अनुष्टुप् )
इति स्म राजा संपृष्टः कृष्णेनानन्तमूर्तिना ।
माधवं प्रणिपत्याह किरीटेनार्कवर्चसा ॥ ९ ॥
नृग उवाच -
नृगो नाम नरेन्द्रोऽहमिक्ष्वाकुतनयः प्रभो ।
दानिष्वाख्यायमानेषु यदि ते कर्णमस्पृशम् ॥ १० ॥
किं नु तेऽविदितं नाथ सर्वभूतात्मसाक्षिणः ।
कालेनाव्याहतदृशो वक्ष्येऽथापि तवाज्ञया ॥ ११ ॥
यावत्यः सिकता भूमेः यावत्यो दिवि तारकाः ।
यावत्यो वर्षधाराश्च तावतीरददां स्म गाः ॥ १२ ॥
( मिश्र )
पयस्विनीस्तरुणीः शीलरूप-
     गुणोपपन्नाः कपिला हेमशृङ्‌गीः ।
न्यायार्जिता रूप्यखुराः सवत्सा
     दुकूलमालाभरणा ददावहम् ॥ १३ ॥
स्वलङ्‌कृतेभ्यो गुणशीलवद्‌भ्यः
     सीदत्कुटुम्बेभ्य ऋतव्रतेभ्यः ।
तपःश्रुतब्रह्मवदान्यसद्‌भ्यः
     प्रादां युवभ्यो द्विजपुङ्‌गवेभ्यः ॥ १४ ॥
गोभूहिरण्यायतनाश्वहस्तिनः
     कन्याः सदासीस्तिलरूप्यशय्याः ।
वासांसि रत्‍नानि परिच्छदान् रथा-
     निष्टं च यज्ञैश्चरितं च पूर्तम् ॥ १५ ॥
( अनुष्टुप् )
कस्यचिद् द्विजमुख्यस्य भ्रष्टा गौर्मम गोधने ।
संपृक्ताविदुषा सा च मया दत्ता द्विजातये ॥ १६ ॥
तां नीयमानां तत्स्वामी दृष्ट्‍वोवाच ममेति तम् ।
ममेति परिग्राह्याह नृगो मे दत्तवानिति ॥ १७ ॥
विप्रौ विवदमानौ मामूचतुः स्वार्थसाधकौ ।
भवान् दातापहर्तेति तच्छ्रुत्वा मेऽभवद्‌ भ्रमः ॥ १८ ॥
अनुनीतावुभौ विप्रौ धर्मकृच्छ्रगतेन वै ।
गवां लक्षं प्रकृष्टानां दास्याम्येषा प्रदीयताम् ॥ १९ ॥
भवन्तावनुगृह्णीतां किङ्‌करस्याविजानतः ।
समुद्धरतं मां कृच्छ्रात् पतन्तं निरयेऽशुचौ ॥ २० ॥
नाहं प्रतीच्छे वै राजन्नित्युक्त्वा स्वाम्यपाक्रमत् ।
नान्यद्‌ गवामप्ययुतमिच्छामीत्यपरो ययौ ॥ २१ ॥
एतस्मिन्नन्तरे यामैर्दूतैर्नीतो यमक्षयम् ।
यमेन पृष्टस्तत्राहं देवदेव जगत्पते ॥ २२ ॥
पूर्वं त्वमशुभं भुङ्‌क्षे उताहो नृपते शुभम् ।
नान्तं दानस्य धर्मस्य पश्ये लोकस्य भास्वतः ॥ २३ ॥
पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति सः ।
तावदद्राक्षमात्मानं कृकलासं पतन् प्रभो ॥ २४ ॥
ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव ।
स्मृतिर्नाद्यापि विध्वस्ता भवत्सन्दर्शनार्थिनः ॥ २५ ॥
( वसंततिलका )
स त्वं कथं मम विभोऽक्षिपथः परात्मा
     योगेश्वरः श्रुतिदृशामलहृद्विभाव्यः ।
साक्षादधोक्षज उरुव्यसनान्धबुद्धेः
     स्यान्मेऽनुदृश्य इह यस्य भवापवर्गः ॥ २६ ॥
( अनुष्टुप् )
देवदेव जगन्नाथ गोविन्द पुरुषोत्तम ।
नारायण हृषीकेश पुण्यश्लोकाच्युताव्यय ॥ २७ ॥
अनुजानीहि मां कृष्ण यान्तं देवगतिं प्रभो ।
यत्र क्वापि सतश्चेतो भूयान्मे त्वत्पदास्पदम् ॥ २८ ॥
नमस्ते सर्वभावाय ब्रह्मणेऽनन्तशक्तये ।
कृष्णाय वासुदेवाय योगानां पतये नमः ॥ २९ ॥
इत्युक्त्वा तं परिक्रम्य पादौ स्पृष्ट्‍वा स्वमौलिना ।
अनुज्ञातो विमानाग्र्यमारुहत् पश्यतां नृणाम् ॥ ३० ॥
कृष्णः परिजनं प्राह भगवान् देवकीसुतः ।
ब्रह्मण्यदेवो धर्मात्मा राजन्याननुशिक्षयन् ॥ ३१ ॥
दुर्जरं बत ब्रह्मस्वं भुक्तमग्नेर्मनागपि ।
तेजीयसोऽपि किमुत राज्ञामीश्वरमानिनाम् ॥ ३२ ॥
नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया ।
ब्रह्मस्वं हि विषं प्रोक्तं नास्य प्रतिविधिर्भुवि ॥ ३३ ॥
हिनस्ति विषमत्तारं वह्निरद्‌भिः प्रशाम्यति ।
कुलं समूलं दहति ब्रह्मस्वारणिपावकः ॥ ३४ ॥
ब्रह्मस्वं दुरनुज्ञातं भुक्तं हन्ति त्रिपूरुषम् ।
प्रसह्य तु बलाद्‌ भुक्तं दश पूर्वान् दशापरान् ॥ ३५ ॥
राजानो राजलक्ष्म्यान्धा नात्मपातं विचक्षते ।
निरयं येऽभिमन्यन्ते ब्रह्मस्वं साधु बालिशाः ॥ ३६ ॥
गृह्णन्ति यावतः पांसून् क्रन्दतामश्रुबिन्दवः ।
विप्राणां हृतवृत्तीनां वदान्यानां कुटुंबिनाम् ॥ ३७ ॥
राजानो राजकुल्याश्च तावतोऽब्दान्निरङ्‌कुशाः ।
कुंभीपाकेषु पच्यन्ते ब्रह्मदायापहारिणः ॥ ३८ ॥
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेच्च यः ।
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ ३९ ॥
न मे ब्रह्मधनं भूयाद् यद् गृध्वाल्पायुषो नराः ।
पराजिताश्च्युता राज्याद्‌ भवन्त्युद्वेजिनोऽहयः ॥ ४० ॥
विप्रं कृतागसमपि नैव द्रुह्यत मामकाः ।
घ्नन्तं बहु शपन्तं वा नमस्कुरुत नित्यशः ॥ ४१ ॥
यथाहं प्रणमे विप्राननुकालं समाहितः ।
तथा नमत यूयं च योऽन्यथा मे स दण्डभाक् ॥ ४२ ॥
ब्राह्मणार्थो ह्यपहृतो हर्तारं पातयत्यधः ।
अजानन्तमपि ह्येनं नृगं ब्राह्मणगौरिव ॥ ४३ ॥
एवं विश्राव्य भगवान् मुकुन्दो द्वारकौकसः ।
पावनः सर्वलोकानां विवेश निजमंदिरम् ॥ ४४ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
नृगोपाखानं नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP