श्रीमद्‌भागवत महापुराण

दशमः स्कंधः - पञ्चाशत्तमोऽध्यायः

रामकृष्णयोर्जरासन्धेन सह युद्धं, द्वारकादुर्गनिर्माणंच -

[ Right click to 'save audio as' for downloading Audio ]

शुक उवाच -
( अनुष्टुप् )
अस्तिः प्राप्तिश्च कंसस्य महिष्यौ भरतर्षभ ।
मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर्गृहान् ॥ १ ॥
पित्रे मगधराजाय जरासन्धाय दुःखिते ।
वेदयाञ्चक्रतुः सर्वमात्मवैधव्यकारणम् ॥ २ ॥
स तदप्रियमाकर्ण्य शोकामर्षयुतो नृप ।
अयादवीं महीं कर्तुं चक्रे परममुद्यमम् ॥ ३ ॥
अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृतः ।
यदुराजधानीं मथुरां न्यरुणत् सर्वतो दिशम् ॥ ४ ॥
निरीक्ष्य तद्‍बलं कृष्ण उद्वेलमिव सागरम् ।
स्वपुरं तेन संरुद्धं स्वजनं च भयाकुलम् ॥ ५ ॥
चिन्तयामास भगवान् हरिः कारणमानुषः ।
तद्देशकालानुगुणं स्वावतारप्रयोजनम् ॥ ६ ॥
हनिष्यामि बलं ह्येतद् भुवि भारं समाहितम् ।
मागधेन समानीतं वश्यानां सर्वभूभुजाम् ॥ ७ ॥
अक्षौहिणीभिः सङ्‌ख्यातं भटाश्वरथकुञ्जरैः ।
मागधस्तु न हन्तव्यो भूयः कर्ता बलोद्यमम् ॥ ८ ॥
एतदर्थोऽवतारोऽयं भूभारहरणाय मे ।
संरक्षणाय साधूनां कृतोऽन्येषां वधाय च ॥ ९ ॥
अन्योऽपि धर्मरक्षायै देहः संभ्रियते मया ।
विरामायाप्यधर्मस्य काले प्रभवतः क्वचित् ॥ १० ॥
एवं ध्यायति गोविन्द आकाशात् सूर्यवर्चसौ ।
रथौ उपस्थितौ सद्यः ससूतौ सपरिच्छदौ ॥ ११ ॥
आयुधानि च दिव्यानि पुराणानि यदृच्छया ।
दृष्ट्‍वा तानि हृषीकेशः सङ्‌कर्षणमथाब्रवीत् ॥ १२ ॥
पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो ।
एष ते रथ आयातो दयितान्यायुधानि च ॥ १३ ॥
यानमास्थाय जह्येतद् व्यसनात् स्वान् समुद्धर ।
एतदर्थं हि नौ जन्म साधूनामीश शर्मकृत् ॥ १४ ॥
त्रयोविंशत्यनीकाख्यं भूमेर्भारमपाकुरु ।
एवं संमंत्र्य दाशार्हौ दंशितौ रथिनौ पुरात् ॥ १५ ॥
निर्जग्मतुः स्वायुधाढ्यौ बलेनाल्पीयसाऽऽवृतौ ।
शङ्‌खं दध्मौ विनिर्गत्य हरिर्दारुकसारथिः ॥ १६ ॥
ततोऽभूत् परसैन्यानां हृदि वित्रासवेपथुः ।
तावाह मागधो वीक्ष्य हे कृष्ण पुरुषाधम ॥ १७ ॥
न त्वया योद्धुमिच्छामि बालेनैकेन लज्जया ।
गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धुहन् ॥ १८ ॥
तव राम यदि श्रद्धा युध्यस्व धैर्यमुद्वह ।
हित्वा वा मच्छरैश्छिन्नं देहं स्वर्याहि मां जहि ॥ १९ ॥
श्रीभगवानुवाच -
न वै शूरा विकत्थन्ते दर्शयन्त्येव पौरुषम् ।
न गृह्णीमो वचो राजन्नतुरस्य मुमूर्षतः ॥ २० ॥
शुक उवाच -
( मिश्र )
जरासुतस्तावभिसृत्य माधवौ
     महाबलौघेन बलीयसाऽऽवृणोत् ।
ससैन्ययानध्वजवाजिसारथी
     सूर्यानलौ वायुरिवाभ्ररेणुभिः ॥ २१ ॥
सुपर्णतालध्वजचिह्नितौ रथा-
     वलक्षयन्त्यो हरिरामयोर्मृधे ।
स्त्रियः पुराट्टालकहर्म्यगोपुरं
     समाश्रिताः संमुमुहुः शुचार्दितः ॥ २२ ॥
हरिः परानीकपयोमुचां मुहुः
     शिलीमुखात्युल्बणवर्षपीडितम् ।
स्वसैन्यमालोक्य सुरासुरार्चितं
     व्यस्फूर्जयच्छार्ङ्‌गशरासनोत्तमम् ॥ २३ ॥
गृह्णन् निशङ्‌गादथ सन्दधच्छरान्
     विकृष्य मुञ्चञ्छितबाणपूगान् ।
निघ्नन् रथान् कुञ्जरवाजिपत्तीन्
     निरन्तरं यद्वदलातचक्रम् ॥ २४ ॥
निर्भिन्नकुम्भाः करिणो निपेतु-
     रनेकशोऽश्वाः शरवृक्णकन्धराः ।
रथा हताश्वध्वजसूतनायकाः
     पदायतश्छिन्नभुजोरुकन्धराः ॥ २५ ॥
सञ्छिद्यमानद्विपदेभवाजिना-
     मङ्‌गप्रसूताः शतशोऽसृगापगाः ।
भुजाहयः पूरुषशीर्षकच्छपा
     हतद्विपद्वीपहयग्रहाकुलाः ॥ २६ ॥
करोरुमीना नरकेशशैवला
     धनुस्तरङ्‌गायुधगुल्मसङ्‌कुलाः ।
अच्छूरिकावर्तभयानका महा-
     मणिप्रवेकाभरणाश्मशर्कराः ॥ २७ ॥
प्रवर्तिता भीरुभयावहा मृधे
     मनस्विनां हर्षकरीः परस्परम् ।
विनिघ्नतारीन् मुषलेन दुर्मदान्
     सङ्‌कर्षणेनापरीमेयतेजसा ॥ २८ ॥
बलं तदङ्‌गार्णवदुर्गभैरवं
     दुरन्तपारं मगधेन्द्रपालितम् ।
क्षयं प्रणीतं वसुदेवपुत्रयो-
     एविक्रीडितं तज्जगदीशयोः परम् ॥ २९ ॥
स्थित्युद्‍भवान्तं भुवनत्रयस्य यः
     समीहितेऽनन्तगुणः स्वलीलया ।
न तस्य चित्रं परपक्षनिग्रह-
     स्तथापि मर्त्यानुविधस्य वर्ण्यते ॥ ३० ॥
( अनुष्टुप् )
जग्राह विरथं रामो जरासन्धं महाबलम् ।
हतानीकावशिष्टासुं सिंहः सिंहमिवौजसा ॥ ३१ ॥
बध्यमानं हतारातिं पाशैर्वारुणमानुषैः ।
वारयामास गोविन्दस्तेन कार्यचिकीर्षया ॥ ३२ ॥
सा मुक्तो लोकनाथाभ्यां व्रीडितो वीरसम्मतः ।
तपसे कृतसङ्‌कल्पो वारितः पथि राजभिः ॥ ३३ ॥
वाक्यैः पवित्रार्थपदैर्नयनैः प्राकृतैरपि ।
स्वकर्मबन्धप्राप्तोऽयं यदुभिस्ते पराभवः ॥ ३४ ॥
हतेषु सर्वानीकेषु नृपो बार्हद्रथस्तदा ।
उपेक्षितो भगवता मगधान् दुर्मना ययौ ॥ ३५ ॥
मुकुन्दोऽप्यक्षतबलो निस्तीर्णारिबलार्णवः ।
विकीर्यमाणः कुसुमैस्त्रीदशैरनुमोदितः ॥ ३६ ॥
माथुरैः उपसङ्‌गम्य विज्वरैर्मुदितात्मभिः ।
उपगीयमानविजयः सूतमागधवन्दिभिः ॥ ३७ ॥
शङ्‌खदुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः ।
वीणावेणुमृदङ्‌गानि पुरं प्रविशति प्रभौ ॥ ३८ ॥
सिक्तमार्गां हृष्टजनां पताकाभिरलङ्‌कृताम् ।
निर्घुष्टां ब्रह्मघोषेण कौतुकाबद्धतोरणाम् ॥ ३९ ॥
निचीयमानो नारीभिर्माल्यदध्यक्षताङ्‌कुरैः ।
निरीक्ष्यमाणः सस्नेहं प्रीत्युत्कलितलोचनैः ॥ ४० ॥
आयोधनगतं वित्तमनन्तं वीरभूषणम् ।
यदुराजाय तत् सर्वमाहृतं प्रादिशत्प्रभुः ॥ ४१ ॥
एवं सप्तदशकृत्वस्तावत्यक्षौहिणीबलः ।
युयुधे मागधो राजा यदुभिः कृष्णपालितैः ॥ ४२ ॥
अक्षिण्वंस्तद्बलं सर्वं वृष्णयः कृष्णतेजसा ।
हतेषु स्वेष्वनीकेषु त्यक्तोऽयादरिभिर्नृपः ॥ ४३ ॥
अष्टादशमसङ्‌ग्रामे आगामिनि तदन्तरा ।
नारदप्रेषितो वीरो यवनः प्रत्यदृश्यत ॥ ४४ ॥
रुरोध मथुरामेत्य तिसृभिर्म्लेच्छकोटिभिः ।
नृलोके चाप्रतिद्वन्द्वो वृष्णीह्छ्रुत्वात्मसम्मितान् ॥ ४५ ॥
तं दृष्ट्‍वाचिन्तयत् कृष्णः सङ्‌कर्षणसहायवान् ।
अहो यदूनां वृजिनं प्राप्तं ह्युभयतो महत् ॥ ४६ ॥
यवनोऽयं निरुन्धेऽस्मानद्य तावन्महाबलः ।
मागधोऽप्यद्य वा श्वो वा परश्वो वाऽऽगमिष्यति ॥ ४७ ॥
आवयोर्युध्यतोरस्य यद्यागन्ता जरासुतः ।
बन्धून् वधिष्यत्यथवा नेष्यते स्वपुरं बली ॥ ४८ ॥
तस्मादद्य विधास्यामो दुर्गं द्विपददुर्गमम् ।
तत्र ज्ञातीन् समाधाय यवनं घातयामहे ॥ ४९ ॥
इति संमंत्र्य भगवान् दुर्गं द्वादशयोजनम् ।
अन्तःसमुद्रे नगरं कृत्स्नाद्‍भुतमचीकरत् ॥ ५० ॥
दृश्यते यत्र हि त्वाष्ट्रं विज्ञानं शिल्पनैपुणम् ।
रथ्याचत्वरवीथीभिर्यथावास्तु विनिर्मितम् ॥ ५१ ॥
सुरद्रुमलतोद्यानविचित्रोपवनान्वितम् ।
हेमशृङ्‌गैर्दिविस्पृग्भिः स्फटिकाट्टालगोपुरैः ॥ ५२ ॥
राजतारकुटैः कोष्ठैर्हेमकुम्भैरलङ्‌कृतैः ।
रत्‍नकूटैर्गृहैर्हेमैर्महामरकतस्थलैः ॥ ५३ ॥
वास्तोष्पतीनां च गृहैर्वल्लभीभिश्च निर्मितम् ।
चातुर्वर्ण्यजनाकीर्णं यदुदेवगृहोल्लसत् ॥ ५४ ॥
सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद्धरेः ।
यत्र चावस्थितो मर्त्यो मर्त्यधर्मैर्न युज्यते ॥ ५५ ॥
श्यामैककर्णान् वरुणो हयाञ्छुक्लान् मनोजवान् ।
अष्टौ निधिपतिः कोशान् लोकपालो निजोदयान् ॥ ५६ ॥
यद् यद् भगवता दत्तमाधिपत्यं स्वसिद्धये ।
सर्वं प्रत्यर्पयामासुर्हरौ भूमिगते नृप ॥ ५७ ॥
तत्र योगप्रभावेण नीत्वा सर्वजनं हरिः ।
प्रजापालेन रामेण कृष्णः समनुमन्त्रितः ।
निर्जगाम पुरद्वारात् पद्ममाली निरायुधः ॥ ५८ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे दुर्गनिवेशनं नाम पञ्चाशोऽध्यायः ॥ ५० ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP