श्रीमद्‌भागवत महापुराण

दशमः स्कंधः - चत्वारिंशोऽध्यायः

अक्रूरकृता भगवत् स्तुति -

[ Right click to 'save audio as' for downloading Audio ]

अक्रूर उवाच -
( मिश्र )
नतोऽस्म्यहं त्वाखिलहेतुहेतुं
     नारायणं पूरुषमाद्यमव्ययम् ।
यन्नाभिजातादरविन्दकोषाद्
     ब्रह्माऽऽविरासीद् यत एष लोकः ॥ १ ॥
भूस्तोयमग्निः पवनं खमादि-
     र्महानजादिर्मन इन्द्रियाणि ।
सर्वेन्द्रियार्था विबुधाश्च सर्वे
     ये हेतवस्ते जगतोऽङ्‌गभूताः ॥ २ ॥
नैते स्वरूपं विदुरात्मनस्ते
     ह्यजादयोऽनात्मतया गृहीताः ।
अजोऽनुबद्धः स गुणैरजाया
     गुणात् परं वेद न ते स्वरूपम् ॥ ३ ॥
( अनुष्टुप् )
त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् ।
साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ ४ ॥
त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः ।
यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥ ५ ॥
एके त्वाखिलकर्माणि सन्न्यस्योपशमं गताः ।
ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् ॥ ६ ॥
अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते ।
यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्येकमूर्तिकम् ॥ ७ ॥
त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् ।
बह्वाचार्यविभेदेन भगवन् समुपासते ॥ ८ ॥
सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् ।
येऽप्यन्यदेवताभक्ता यद्यप्यन्यधियः प्रभो ॥ ९ ॥
यथाद्रिप्रभवा नद्यः पर्जन्यापूरिताः प्रभो ।
विशन्ति सर्वतः सिन्धुं तद्वत्त्वां गतयोऽन्ततः ॥ १० ॥
सत्त्वं रजस्तम इति भवतः प्रकृतेर्गुणाः ।
तेषु हि प्राकृताः प्रोता आब्रह्मस्थावरादयः ॥ ११ ॥
( मिश्र )
तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये
     सर्वात्मने सर्वधियां च साक्षिणे ।
गुणप्रवाहोऽयमविद्यया कृतः
     प्रवर्तते देवनृतिर्यगात्मसु ॥ १२ ॥
अग्निर्मुखं तेऽवनिरङ्‌घ्रिरीक्षणं
     सूर्यो नभो नाभिरथो दिशः श्रुतिः ।
द्यौः कं सुरेन्द्रास्तव बाहवोऽर्णवाः
     कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥ १३ ॥
रोमाणि वृक्षौषधयः शिरोरुहा
     मेघाः परस्यास्थिनखानि तेऽद्रयः ।
निमेषणं रात्र्यहनी प्रजापति-
     मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते ॥ १४ ॥
त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता
     लोकाः सपाला बहुजीवसङ्‌कुलाः ।
यथा जले सञ्जिहते जलौकसो-
     ऽप्युदुम्बरे वा मशका मनोमये ॥ १५ ॥
( अनुष्टुप् )
यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि ।
तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ॥ १६ ॥
नमः कारणमत्स्याय प्रलयाब्धिचराय च ।
हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥ १७ ॥
अकूपाराय बृहते नमो मन्दरधारिणे ।
क्षित्युद्धारविहाराय नमः सूकरमूर्तये ॥ १८ ॥
नमस्तेऽद्‍भुतसिंहाय साधुलोकभयापह ।
वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ १९ ॥
नमो भृगूणां पतये दृप्तक्षत्रवनच्छिदे ।
नमस्ते रघुवर्याय रावणान्तकराय च ॥ २० ॥
नमस्ते वासुदेवाय नमः सङ्‌कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ २१ ॥
नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने ।
म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥ २२ ॥
भगवञ्जीवलोकोऽयं मोहितस्तव मायया ।
अहंममेत्यसद्‍ग्राहो भ्राम्यते कर्मवर्त्मसु ॥ २३ ॥
अहं चात्मात्मजागारदारार्थस्वजनादिषु ।
भ्रमामि स्वप्नकल्पेषु मूढः सत्यधिया विभो ॥ २४ ॥
अनित्यानात्मदुःखेषु विपर्ययमतिर्ह्यहम् ।
द्वन्द्वारामस्तमोविष्टो न जाने त्वाऽऽत्मनः प्रियम् ॥ २५ ॥
यथाबुधो जलं हित्वा प्रतिच्छन्नं तदुद्‍भवैः ।
अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्‌मुखः ॥ २६ ॥
नोत्सहेऽहं कृपणधीः कामकर्महतं मनः ।
रोद्धुं प्रमाथिभिश्चाक्षैर्ह्रियमाणमितस्ततः ॥ २७ ॥
( वसंततिलका )
सोऽहं तवाङ्‌घ्र्युपगतोऽस्म्यसतां दुरापं
     तच्चाप्यहं भवदनुग्रह ईश मन्ये ।
पुंसो भवेद् यर्हि संसरणापवर्ग-
     त्वय्यब्जनाभ सदुपासनया मतिः स्यात् ॥ २८ ॥
( अनुष्टुप् )
नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे ।
पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये ॥ २९ ॥
नमस्ते वासुदेवाय सर्वभूतक्षयाय च ।
हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो ॥ ३० ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरस्तुतिर्नाम चत्वारिंशोऽध्यायः ॥ ४० ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP