श्रीमद्‌भागवत महापुराण

दशमः स्कंधः - त्रयोत्रिंशोऽध्यायः

महारासवर्णनं; परीक्षित्कृत शंकायाः शुकद्वारा समाधानं च -

[ Right click to 'save audio as' for downloading Audio ]

शुक उवाच -
( अनुष्टुप् )
इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः ।
जहुर्विरहजं तापं तदङ्‌गोपचिताशिषः ॥ १ ॥
तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः ।
स्त्रीरत्‍नैरन्वितः प्रीतैरन्योन्याबद्धबाहुभिः ॥ २ ॥
रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः ।
योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः ।
प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः ॥ ३ ॥
यं मन्येरन् नभस्तावद् विमानशतसङ्‌कुलम् ।
दिवौकसां सदाराणामौत्सुक्यापहृतात्मनाम् ॥ ४ ॥
ततो दुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टयः ।
जगुर्गन्धर्वपतयः सस्त्रीकास्तद्यशोऽमलम् ॥ ५ ॥
वलयानां नूपुराणां किङ्‌किणीनां च योषिताम् ।
सप्रियाणामभूच्छब्दस्तुमुलो रासमण्डले ॥ ६ ॥
तत्रातिशुशुभे ताभिर्भगवान् देवकीसुतः ।
मध्ये मणीनां हैमानां महामरकतो यथा ॥ ७ ॥
( शार्दूलविक्रीडित )
पादन्यासैर्भुजविधुतिभिः
     सस्मितैर्भ्रूविलासैः ।
भज्यन्मध्यैश्चलकुचपटैः
     कुण्डलैर्गण्डलोलैः ।
स्विद्यन्मुख्यः कबररसना
     ग्रन्थयः कृष्णवध्वो ।
गायन्त्यस्तं तडित इव ता
     मेघचक्रे विरेजुः ॥ ८ ॥
( अनुष्टुप् )
उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः ।
कृष्णाभिमर्शमुदिता यद्‍गीतेनेदमावृतम् ॥ ९ ॥
काचित् समं मुकुन्देन स्वरजातीरमिश्रिताः ।
उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति ।
तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥ १० ॥
काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः ।
जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ ११ ॥
तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् ।
चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ १२ ॥
कस्याश्चिन्नाट्यविक्षिप्तकुण्डलत्विषमण्डितम् ।
गण्डं गण्डे सन्दधत्या अदात्ताम्बूलचर्वितम् ॥ १३ ॥
नृत्यन्ती गायती काचित् कूजन्नूपुरमेखला ।
पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात् स्तनयोः शिवम् ॥ १४ ॥
गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् ।
गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥ १५ ॥
( वसंततिलका )
कर्णोत्पलालकविटङ्‌ककपोलघर्म
     वक्त्रश्रियो वलयनूपुरघोषवाद्यैः ।
गोप्यः समं भगवता ननृतुः स्वकेश-
     स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥ १६ ॥
( मिश्र )
एवं परिष्वङ्‌गकराभिमर्श-
     स्निग्धेक्षणोद्दामविलासहासैः ।
रेमे रमेशो व्रजसुन्दरीभि-
     र्यथार्भकः स्वप्रतिबिम्बविभ्रमः ॥ १७ ॥
तदङ्‌गसङ्‌गप्रमुदाकुलेन्द्रियाः
     केशान् दूकूलं कुचपट्टिकां वा ।
नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो
     विस्रस्तमालाभरणाः कुरूद्वह ॥ १८ ॥
( अनुष्टुप् )
कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः ।
कामार्दिताः शशाङ्‌कश्च सगणो विस्मितोऽभवत् ॥ १९ ॥
कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः ।
रेमे स भगवांस्ताभिः आत्मारामोऽपि लीलया ॥ २० ॥
तासामतिविहारेण श्रान्तानां वदनानि सः ।
प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्‌ग पाणिना ॥ २१ ॥
( वसंततिलका )
गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड्
     गण्डश्रिया सुधितहासनिरीक्षणेन ।
मानं दधत्य ऋषभस्य जगुः कृतानि
     पुण्यानि तत्कररुहस्पर्शप्रमोदाः ॥ २२ ॥
ताभिर्युतः श्रममपोहितुमङ्‌गसङ्‌ग-
     घृष्टस्रजः स कुचकुङ्‌कुमरञ्जितायाः ।
गन्धर्वपालिभिरनुद्रुत आविशद् वा
     श्रान्तो गजीभिरिभराडिव भिन्नसेतुः ॥ २३ ॥
सोऽम्भस्यलं युवतिभिः परिषिच्यमानः
     प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽङ्‌ग ।
वैमानिकैः कुसुमवर्षिभिरीड्यमानो
     रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः ॥ २४ ॥
( मिश्र )
ततश्च कृष्णोपवने जलस्थल-
     प्रसूनगन्धानिलजुष्टदिक्तटे ।
चचार भृङ्‌गप्रमदागणावृतो
     यथा मदच्युद् द्विरदः करेणुभिः ॥ २५ ॥
एवं शशाङ्‌कांशुविराजिता निशाः
     स सत्यकामोऽनुरताबलागणः ।
सिषेव आत्मन्यवरुद्धसौरतः
     सर्वाः शरत्काव्यकथारसाश्रयाः ॥ २६ ॥
परीक्षिदुवाच -
( अनुष्टुप् )
संस्थापनाय धर्मस्य प्रशमायेतरस्य च ।
अवतीर्णो हि भगवानंशेन जगदीश्वरः ॥ २७ ॥
स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता ।
प्रतीपमाचरद् ब्रह्मन् परदाराभिमर्शनम् ॥ २८ ॥
आप्तकामो यदुपतिः कृतवान् वै जुगुप्सितम् ।
किमभिप्राय एतं नः संशयं छिन्धि सुव्रत ॥ २९ ॥
शुक उवाच -
धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।
तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥ ३० ॥
नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः ।
विनश्यत्याचरन् मौढ्याद्यथारुद्रोऽब्धिजं विषम् ॥ ३१ ॥
ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् ।
तेषां यत् स्ववचोयुक्तं बुद्धिमांस्तत् समाचरेत् ॥ ३२ ॥
कुशलाचरितेनैषामिह स्वार्थो न विद्यते ।
विपर्ययेण वानर्थो निरहङ्‌कारिणां प्रभो ॥ ३३ ॥
किमुताखिलसत्त्वानां तिर्यङ्‌मर्त्यदिवौकसाम् ।
ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः ॥ ३४ ॥
( वसंततिलका )
यत्पादपङ्‌कजपरागनिषेवतृप्ता
     योगप्रभावविधुताखिलकर्मबन्धाः ।
स्वैरं चरन्ति मुनयोऽपि न नह्यमाना-
     तस्येच्छयाऽऽत्तवपुषः कुत एव बन्धः ॥ ३५ ॥
( अनुष्टुप् )
गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् ।
योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक् ॥ ३६ ॥
अनुग्रहाय भूतानां मानुषं देहमास्थितः ।
भजते तादृशीः क्रीड याः श्रुत्वा तत्परो भवेत् ॥ ३७ ॥
नासूयन् खलु कृष्णाय मोहितास्तस्य मायया ।
मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ ३८ ॥
ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः ।
अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः ॥ ३९ ॥
( वसंततिलका )
विक्रीडितं व्रजवधूभिरिदं च विष्णोः
     श्रद्धान्वितोऽनुशृणुयादथ वर्णयेद् यः ।
भक्तिं परां भगवति प्रतिलभ्य कामं
     हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ ४० ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं नाम त्रयोत्रिंशोऽध्यायः ॥ ३३ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP