श्रीमद्‌भागवत महापुराण

दशमः स्कंधः - एकोन्त्रिंशोऽध्यायः

वेणुनादं श्रुत्वा आगतानां गोपीनां श्रीकृष्णेनसह संवादः;
रासारम्भः; तासां मानापनोदाय भगवतो अंतर्धानं च -

[ Right click to 'save audio as' for downloading Audio ]

शुक उवाच -
( अनुष्टुप् )
भगवान् अपि ता रात्रीः शरदोत्फुल्लमल्लिकाः ।
वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ १ ॥
( मिश्र )
तदोडुराजः ककुभः करैर्मुखं
     प्राच्या विलिम्पन्नरुणेन शन्तमैः ।
स चर्षणीनामुदगाच्छुचो मृजन्
     प्रियः प्रियाया इव दीर्घदर्शनः ॥ २ ॥
दृष्ट्‍वा कुमुद्वन्तमखण्डमण्डलं
     रमाननाभं नवकुङ्‌कुमारुणम् ।
वनं च तत्कोमलगोभिरञ्जितं
     जगौ कलं वामदृशां मनोहरम् ॥ ३ ॥
निशम्य गीतां तदनङ्‌गवर्धनं
     व्रजस्त्रियः कृष्णगृहीतमानसाः ।
आजग्मुरन्योन्यमलक्षितोद्यमाः
     स यत्र कान्तो जवलोलकुण्डलाः ॥ ४ ॥
( अनुष्टुप् )
दुहन्त्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः ।
पयोऽधिश्रित्य संयावमनुद्वास्यापरा ययुः ॥ ५ ॥
परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून् पयः ।
शुश्रूषन्त्यः पतीन् काश्चिदश्नन्त्योऽपास्य भोजनम् ॥ ६ ॥
लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने ।
व्यत्यस्तवस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः ॥ ७ ॥
ता वार्यमाणाः पतिभिः पितृभिर्भ्रातृबन्धुभिः ।
गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥ ८ ॥
अन्तर्गृहगताः काश्चिद् गोप्योऽलब्धविनिर्गमाः ।
कृष्णं तद्‍भावनायुक्ता दध्युर्मीलितलोचनाः ॥ ९ ॥
दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः ।
ध्यानप्राप्ताच्युताश्लेषनिर्वृत्याक्षीणमङ्‌गलाः ॥ १० ॥
तमेव परमात्मानं जारबुद्ध्यापि सङ्‌गताः ।
जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११ ॥
परीक्षिदुवाच -
कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने ।
गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥ १२ ॥
शुक उवाच -
उक्तं पुरस्तादेतत्ते चैद्यः सिद्धिं यथा गतः ।
द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३ ॥
नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप ।
अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४ ॥
कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च ।
नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५ ॥
न चैवं विस्मयः कार्यो भवता भगवत्यजे ।
योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥ १६ ॥
ता दृष्ट्‍वान्तिकमायाता भगवान् व्रजयोषितः ।
अवदद् वदतां श्रेष्ठो वाचः पेशैर्विमोहयन् ॥ १७ ॥
श्रीभगवानुवाच -
स्वागतं वो महाभागाः प्रियं किं करवाणि वः ।
व्रजस्यानामयं कच्चिद् ब्रूतागमनकारणम् ॥ १८ ॥
रजन्येषा घोररूपा घोरसत्त्वनिषेविता ।
प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥ १९ ॥
मातरः पितरः पुत्रा भ्रातरः पतयश्च वः ।
विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् ॥ २० ॥
दृष्टं वनं कुसुमितं राकेशकररञ्जितम् ।
यमुना अनिललीलैजत्तरुपल्लवशोभितम् ॥ २१ ॥
तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः ।
क्रन्दन्ति वत्सा बालाश्च तान् पाययत दुह्यत ॥ २२ ॥
अथवा मदभिस्नेहाद् भवत्यो यन्त्रिताशयाः ।
आगता ह्युपपन्नं वः प्रीयन्ते मयि जन्तवः ॥ २३ ॥
भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया ।
तद्‍बन्धूनां च कल्याणः प्रजानां चानुपोषणम् ॥ २४ ॥
दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा ।
पतिः स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी ॥ २५ ॥
अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम् ।
जुगुप्सितं च सर्वत्र ह्यौपपत्यं कुलस्त्रियः ॥ २६ ॥
श्रवणाद् दर्शनाद् ध्यानान्मयि भावोऽनुकीर्तनात् ।
न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ २७ ॥
शुक उवाच -
इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् ।
विषण्णा भग्नसङ्‌कल्पाश्चिन्तामापुर्दुरत्ययाम् ॥ २८ ॥
( वसंततिलका )
कृत्वा मुखान्यव शुचः श्वसनेन शुष्यद्-
     बिम्बाधराणि चरणेन भुवः लिखन्त्यः ।
अस्रैरुपात्तमषिभिः कुचकुङ्‌कुमानि
     तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥ ॥
प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं
     कृष्णं तदर्थविनिवर्तितसर्वकामाः ।
नेत्रे विमृज्य रुदितोपहते स्म किञ्चित्-
     संरम्भगद्‍गदगिरोऽब्रुवतानुरक्ताः ॥ ३० ॥
गोप्य ऊचुः -
मैवं विभोऽर्हति भवान् गदितुं नृशंसं
     सन्त्यज्य सर्वविषयांस्तव पादमूलम् ।
भक्ता भजस्व दुरवग्रह मा त्यजास्मान्
     देवो यथाऽऽदिपुरुषो भजते मुमुक्षून् ॥ ३१ ॥
यत्पत्यपत्यसुहृदामनुवृत्तिरङ्‌ग
     स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् ।
अस्त्वेवमेतदुपदेशपदे त्वयीशे
     प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा ॥ ३२ ॥
कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन्
     नित्यप्रिये पतिसुतादिभिरार्तिदैः किम् ।
तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या
     आशां धृतां त्वयि चिरादरविन्दनेत्र ॥ ३३ ॥
चित्तं सुखेन भवतापहृतं गृहेषु
     यन्निर्विशत्युत करावपि गृह्यकृत्ये ।
पादौ पदं न चलतस्तव पादमूलाद्
     यामः कथं व्रजमथो करवाम किं वा ॥ ३४ ॥
सिञ्चाङ्‌ग नस्त्वदधरामृतपूरकेण
     हासावलोककलगीतजहृच्छयाग्निम् ।
नो चेद् वयं विरहजाग्न्युपयुक्तदेहा
     ध्यानेन याम पदयोः पदवीं सखे ते ॥ ३५ ॥
यर्ह्यम्बुजाक्ष तव पादतलं रमाया
     दत्तक्षणं क्वचिदरण्यजनप्रियस्य ।
अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग
     स्थातुं त्वयाभिरमिता बत पारयामः ॥ ३६ ॥
श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या
     लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् ।
यस्याः स्ववीक्षण कृतेऽन्यसुरप्रयास-
     स्तद्वद् वयं च तव पादरजः प्रपन्नाः ॥ ३७ ॥
तन्नः प्रसीद वृजिनार्दन तेऽङ्‌घ्रिमूलं
     प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः ।
त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम-
     तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ ३८ ॥
वीक्ष्यालकावृतमुखं तव कुण्डलश्री-
     गण्डस्थलाधरसुधं हसितावलोकम् ।
दत्ताभयं च भुजदण्डयुगं विलोक्य
     वक्षः श्रियैकरमणं च भवाम दास्यः ॥ ३९ ॥
का स्त्र्यङ्‌ग ते कलपदायतमूर्च्छितेन
     सम्मोहिताऽऽर्यचरितान्न चलेत्त्रिलोक्याम् ।
त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं
     यद् गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् ॥ ४० ॥
व्यक्तं भवान् व्रजभयार्तिहरोऽभिजातो
     देवो यथाऽऽदिपुरुषः सुरलोकगोप्ता ।
तन्नो निधेहि करपङ्‌कजमार्तबन्धो
     तप्तस्तनेषु च शिरस्सु च किङ्‌करीणाम् ॥ ४१ ॥
शुक उवाच -
( अनुष्टुप् )
इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः ।
प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत् ॥ ४२ ॥
( मिश्र )
ताभिः समेताभिरुदारचेष्टितः
     प्रियेक्षणोत्फुल्लमुखीभिरच्युतः ।
उदारहासद्विजकुन्ददीधिति-
     र्व्यरोचतैणाङ्‌क इवोडुभिर्वृतः ॥ ४३ ॥
( अनुष्टुप् )
उपगीयमान उद्‍गायन् वनिताशतयूथपः ।
मालां बिभ्रद् वैजयन्तीं व्यचरन्मण्डयन् वनम् ॥ ४४ ॥
नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकम् ।
रेमे तत्तरलानन्दकुमुदामोदवायुना ॥ ४५ ॥
( वसंततिलका )
बाहुप्रसारपरिरम्भकरालकोरु-
     नीवीस्तनालभननर्मनखाग्रपातैः ।
क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणा-
     मुत्तम्भयन् रतिपतिं रमयाञ्चकार ॥ ४६ ॥
( अनुष्टुप् )
एवं भगवतः कृष्णाल्लब्धमाना महात्मनः ।
आत्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि ॥ ४७ ॥
तासां तत् सौभगमदं वीक्ष्य मानं च केशवः ।
प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ ४८ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे एकोन्त्रिंशोऽध्यायः ॥ २९ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP