श्रीमद्‌भागवत महापुराण

दशमः स्कंधः - चतुर्दशोऽध्यायः

ब्रह्मणा कृता भगवतः स्तुतिर्वत्सवत्सपालानयनंच -

[ Right click to 'save audio as' for downloading Audio ]

( वसंततिलका )
ब्रह्मोवाच -
नौमीड्य तेऽभ्रवपुषे तडिदम्बराय
     गुञ्जावतंसपरिपिच्छलसन्मुखाय ।
वन्यस्रजे कवलवेत्रविषाणवेणु-
     लक्ष्मश्रिये मृदुपदे पशुपाङ्‌गजाय ॥ १ ॥
अस्यापि देव वपुषो मदनुग्रहस्य
     स्वेच्छामयस्य न तु भूतमयस्य कोऽपि ।
नेशे महि त्ववसितुं मनसाऽऽन्तरेण
     साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥ २ ॥
ज्ञाने प्रयासमुदपास्य नमन्त एव
     जीवन्ति सन्मुखरितां भवदीयवार्ताम् ।
स्थाने स्थिताः श्रुतिगतां तनुवाङ्‌मनोभि-
     र्ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ॥ ३ ॥
( इंद्रवंशा )
श्रेयःसृतिं भक्तिमुदस्य ते विभो
     क्लिश्यन्ति ये केवलबोधलब्धये ।
तेषामसौ क्लेशल एव शिष्यते
     नान्यद् यथा स्थूलतुषावघातिनाम् ॥ ४ ॥
पुरेह भूमन् बहवोऽपि योगिन-
     स्त्वदर्पितेहा निजकर्मलब्धया ।
विबुध्य भक्त्यैव कथोपनीतया
     प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥ ५ ॥
तथापि भूमन् महिमागुणस्य ते
     विबोद्धुमर्हत्यमलान्तरात्मभिः ।
अविक्रियात् स्वानुभवादरूपतो
     ह्यनन्यबोध्यात्मतया न चान्यथा ॥ ६ ॥
( मिश्र )
गुणात्मनस्तेऽपि गुणान् विमातुं
     हितावतीर्णस्य क ईशिरेऽस्य ।
कालेन यैर्वा विमिताः सुकल्पै-
     र्भूपांशवः खे मिहिका द्युभासः ॥ ७ ॥
तत्तेऽनुकम्पां सुसमीक्षमाणो
     भुञ्जान एवात्मकृतं विपाकम् ।
हृद्वाग्वपुर्भिर्विदधन्नमस्ते
     जीवेत यो मुक्तिपदे स दायभाक् ॥ ८ ॥
पश्येश मेऽनार्यमनन्त आद्ये
     परात्मनि त्वय्यपि मायिमायिनि ।
मायां वितत्येक्षितुमात्मवैभवं
     ह्यहं कियानैच्छमिवार्चिरग्नौ ॥ ९ ॥
( वंशस्था )
अतः क्षमस्वाच्युत मे रजोभुवो
     ह्यजानतस्त्वत्पृथगीशमानिनः ।
अजावलेपान्धतमोऽन्धचक्षुष
     एषोऽनुकम्प्यो मयि नाथवानिति ॥ १० ॥
( वसंततिलका )
क्वाहं तमोमहदहंखचराग्निवार्भू-
     संवेष्टिताण्डघटसप्तवितस्तिकायः ।
क्वेदृग्विधाविगणिताण्डपराणुचर्या-
     वाताध्वरोमविवरस्य च ते महित्वम् ॥ ११ ॥
( मिश्र )
उत्क्षेपणं गर्भगतस्य पादयोः
     किं कल्पते मातुरधोक्षजागसे ।
किमस्तिनास्तिव्यपदेशभूषितं
     तवास्ति कुक्षेः कियदप्यनन्तः ॥ १२ ॥
जगत्‌त्रयान्तोदधिसम्प्लवोदे
     नारायणस्योदरनाभिनालात् ।
विनिर्गतोऽजस्त्विति वाङ्‌ न वै मृषा
     किं त्वीश्वर त्वन्न विनिर्गतोऽस्मि ॥ १३ ॥
नारायणस्त्वं न हि सर्वदेहिना-
     मात्मास्यधीशाखिललोकसाक्षी ।
नारायणोऽङ्‌गं नरभूजलायना-
     त्तच्चापि सत्यं न तवैव माया ॥ १४ ॥
( इंद्रवज्रा )
तच्चेज्जलस्थं तव सज्जगद्वपुः
     किं मे न दृष्टं भगवंस्तदैव ।
किं वा सुदृष्टं हृदि मे तदैव
     किं नो सपद्येव पुनर्व्यदर्शि ॥ १५ ॥
अत्रैव मायाधमनावतारे
     ह्यस्य प्रपञ्चस्य बहिः स्फुटस्य ।
कृत्स्नस्य चान्तर्जठरे जनन्या
     मायात्वमेव प्रकटीकृतं ते ॥ १६ ॥
( अनुष्टुप् )
यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा ।
तत्त्वय्यपीह तत् सर्वं किमिदं मायया विना ॥ १७ ॥
( शार्दूलविक्रीडित )
अद्यैव त्वदृतेऽस्य किं मम न ते
     मायात्वमादर्शित-
मेकोऽसि प्रथमं ततो व्रजसुहृद्
     वत्साः समस्ता अपि ।
तावन्तोऽसि चतुर्भुजास्तदखिलैः
     साकं मयोपासिता-
स्तावन्त्येव जगन्त्यभूस्तदमितं
     ब्रह्माद्वयं शिष्यते ॥ १८ ॥
( उपेंद्रवज्रा )
अजानतां त्वत्पदवीमनात्म-
     न्यात्माऽऽत्मना भासि वितत्य मायाम् ।
सृष्टाविवाहं जगतो विधान
     इव त्वमेषोऽन्त इव त्रिनेत्रः ॥ १९ ॥
( मिश्र )
सुरेष्वृषिष्वीश तथैव नृष्वपि
     तिर्यक्षु यादस्स्वपि तेऽजनस्य ।
जन्मासतां दुर्मदनिग्रहाय
     प्रभो विधातः सदनुग्रहाय च ॥ २० ॥
को वेत्ति भूमन् भगवन् परात्मन्
     योगेश्वरोतीर्भवतस्त्रिलोक्याम् ।
क्व वा कथं वा कति वा कदेति
     विस्तारयन् क्रीडसि योगमायाम् ॥ २१ ॥
( वसंततिलका )
तस्मादिदं जगदशेषमसत्स्वरूपं
     स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् ।
त्वय्येव नित्यसुखबोधतनावनन्ते
     मायात उद्यदपि यत् सदिवावभाति ॥ २२ ॥
( मिश्र )
एकस्त्वमात्मा पुरुषः पुराणः
     सत्यः स्वयंज्योतिरनन्त आद्यः ।
नित्योऽक्षरोऽजस्रसुखो निरञ्जनः
     पूर्णाद्वयो मुक्त उपाधितोऽमृतः ॥ २३ ॥
( इंद्रवंशा )
एवंविधं त्वां सकलात्मनामपि
     स्वात्मानमात्मात्मतया विचक्षते ।
गुर्वर्कलब्धोपनिषत्सुचक्षुषा
     ये ते तरन्तीव भवानृताम्बुधिम् ॥ २४ ॥
आत्मानमेवात्मतयाविजानतां
     तेनैव जातं निखिलं प्रपञ्चितम् ।
ज्ञानेन भूयोऽपि च तत् प्रलीयते
     रज्ज्वामहेर्भोगभवाभवौ यथा ॥ २५ ॥
( मिश्र )
अज्ञानसंज्ञौ भवबन्धमोक्षौ
     द्वौ नाम नान्यौ स्त ऋतज्ञभावात् ।
अजस्रचित्यात्मनि केवले परे
     विचार्यमाणे तरणाविवाहनी ॥ २६ ॥
( अनुष्टुप् )
त्वामात्मानं परं मत्वा परमात्मानमेव च ।
आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताज्ञता ॥ २७ ॥
( मिश्र )
अन्तर्भवेऽनन्त भवन्तमेव
     ह्यतत्त्यजन्तो मृगयन्ति सन्तः ।
असन्तमप्यन्त्यहिमन्तरेण
     सन्तं गुणं तं किमु यन्ति सन्तः ॥ २८ ॥
अथापि ते देव पदाम्बुजद्वय-
     प्रसादलेशानुगृहीत एव हि ।
जानाति तत्त्वं भगवन् महिम्नो
     न चान्य एकोऽपि चिरं विचिन्वन् ॥ २९ ॥
तदस्तु मे नाथ स भूरिभागो
     भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।
येनाहमेकोऽपि भवज्जनानां
     भूत्वा निषेवे तव पादपल्लवम् ॥ ३० ॥
अहोऽतिधन्या व्रजगोरमण्यः
     स्तन्यामृतं पीतमतीव ते मुदा ।
यासां विभो वत्सतरात्मजात्मना
     यत्तृप्तयेऽद्यापि न चालमध्वराः ॥ ३१ ॥
( अनुष्टुप् )
अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ ३२ ॥
( वसंततिलका )
एषां तु भाग्यमहिमाच्युत तावदास्ता-
     मेकादशैव हि वयं बत भूरिभागाः ।
एतद्‌धृषीकचषकैरसकृत् पिबामः
     शर्वादयोऽङ्‌घ्र्युदजमध्वमृतासवं ते ॥ ३३ ॥
तद्‍भूरिभाग्यमिह जन्म किमप्यटव्यां
     यद् गोकुलेऽपि कतमाङ्‌घ्रिरजोऽभिषेकम् ।
यज्जीवितं तु निखिलं भगवान् मुकुन्द-
     स्त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥ ३४ ॥
( शार्दूलविक्रीडित )
एषां घोषनिवासिनामुत भवान्
     किं देव रातेति न-
श्चेतो विश्वफलात् फलं त्वदपरं
     कुत्राप्ययन् मुह्यति ।
सद्वेषादिव पूतनापि सकुला
     त्वामेव देवापिता
यद्धामार्थसुहृत्प्रियात्मतनय
     प्राणाशयास्त्वत्कृते ॥ ३५ ॥
( अनुष्टुप् )
तावद् रागादयः स्तेनास्तावत् कारागृहं गृहम् ।
तावन्मोहोऽङ्‌घ्रिनिगडो यावत् कृष्ण न ते जनाः ॥ ३६ ॥
प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले ।
प्रपन्नजनतानन्दसन्दोहं प्रथितुं प्रभो ॥ ३७ ॥
जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ।
मनसो वपुषो वाचो वैभवं तव गोचरः ॥ ३८ ॥
अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक् ।
त्वमेव जगतां नाथो जगदेतत्तवार्पितम् ॥ ३९ ॥
( वसंततिलका )
श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन्
     क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन् ।
उद्धर्मशार्वरहर क्षितिराक्षसध्रु-
     गाकल्पमार्कमर्हन् भगवन् नमस्ते ॥ ४० ॥
शुक उवाच -
( अनुष्टुप् )
इत्यभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः ।
नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत ॥ ४१ ॥
ततोऽनुज्ञाप्य भगवान् स्वभुवं प्रागवस्थितान् ।
वत्सान् पुलिनमानिन्ये यथापूर्वसखं स्वकम् ॥ ४२ ॥
एकस्मिन्नपि यातेऽब्दे प्राणेशं चान्तराऽऽत्मनः ।
कृष्णमायाहता राजन् क्षणार्धं मेनिरेऽर्भकाः ॥ ४३ ॥
किं किं न विस्मरन्तीह मायामोहितचेतसः ।
यन्मोहितं जगत् सर्वमभीक्ष्णं विस्मृतात्मकम् ॥ ४४ ॥
ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा ।
नैकोऽप्यभोजि कवल एहीतः साधु भुज्यताम् ॥ ४५ ॥
ततो हसन् हृषीकेशोऽभ्यवहृत्य सहार्भकैः ।
दर्शयंश्चर्माजगरं न्यवर्तत वनाद् व्रजम् ॥ ४६ ॥
( वसंततिलका )
बर्हप्रसून नवधातुविचित्रिताङ्‌गः
     प्रोद्दामवेणुदलशृङ्‌गरवोत्सवाढ्यः ।
वत्सान् गृणन्ननुगगीतपवित्रकीर्ति-
     र्गोपीदृगुत्सवदृशिः प्रविवेश गोष्ठम् ॥ ४७ ॥
( अनुष्टुप् )
अद्यानेन महाव्यालो यशोदानन्दसूनुना ।
हतोऽविता वयं चास्मादिति बाला व्रजे जगुः ॥ ४८ ॥
राजोवाच -
ब्रह्मन् परोद्‍भवे कृष्णे इयान् प्रेमा कथं भवेत् ।
योऽभूतपूर्वस्तोकेषु स्वोद्‍भवेष्वपि कथ्यताम् ॥ ४९ ॥
शुक उवाच -
सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः ।
इतरेऽपत्यवित्ताद्यास्तद्वल्लभतयैव हि ॥ ५० ॥
तद् राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम् ।
न तथा ममतालम्बिपुत्रवित्तगृहादिषु ॥ ५१ ॥
देहात्मवादिनां पुंसामपि राजन्यसत्तम ।
यथा देहः प्रियतमस्तथा न ह्यनु ये च तम् ॥ ५२ ॥
देहोऽपि ममताभाक् चेत्तर्ह्यसौ नात्मवत् प्रियः ।
यज्जीर्यत्यपि देहेऽस्मिन् जीविताशा बलीयसी ॥ ५३ ॥
तस्मात् प्रियतमः स्वात्मा सर्वेषामपि देहिनाम् ।
तदर्थमेव सकलं जगदेतच्चराचरम् ॥ ५४ ॥
कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् ।
जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥ ५५ ॥
वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च ।
भगवद्‌रूपमखिलं नान्यद् वस्त्विह किञ्चन ॥ ५६ ॥
सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः ।
तस्यापि भगवान् कृष्णः किमतद्वस्तु रूप्यताम् ॥ ५७ ॥
( मिश्र )
समाश्रिता ये पदपल्लवप्लवं
     महत्पदं पुण्ययशो मुरारेः ।
भवाम्बुधिर्वत्सपदं परं पदं
     पदं पदं यद् विपदां न तेषाम् ॥ ५८ ॥
( अनुष्टुप् )
एतत्ते सर्वमाख्यातं यत् पृष्टोऽहमिह त्वया ।
यत् कौमारे हरिकृतं पौगण्डे परिकीर्तितम् ॥ ५९ ॥
( मिश्र )
एतत्सुहृद्‌भिश्चरितं मुरारे-
     रघार्दनं शाद्वलजेमनं च ।
व्यक्तेतरद् रूपमजोर्वभिष्टवं
     शृण्वन् गृणन्नेति नरोऽखिलार्थान् ॥ ६० ॥
( अनुष्टुप् )
एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे ।
निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः ॥ ६१ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे चतुर्दशोऽध्यायः ॥ १४ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP