श्रीमद्भागवत महापुराण
अष्टमः स्कन्धः - पञ्चदशोऽध्यायः
बलिकर्तृकः स्वर्गविजयः, देवानां पलायनं च -
[ Right click to 'save audio as' for downloading Audio ]
राजोवाच -
(अनुष्टुप्)
बलेः पदत्रयं भूमेः कस्माद् हरिरयाचत ।
भूतेश्वरः कृपणवत् लब्धार्थोऽपि बबन्ध तम् ॥ १ ॥
एतद् वेदितुमिच्छामो महत्कौतूहलं हि नः ।
यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागसः ॥ २ ॥
शुक उवाच -
पराजितश्रीरसुभिश्च हापितो
हीन्द्रेण राजन् भृगुभिः स जीवितः ।
सर्वात्मना तान् अभजद्भृगून् बलिः
शिष्यो महात्मार्थनिवेदनेन ॥ ३ ॥
तं ब्राह्मणा भृगवः प्रीयमाणा
अयाजयन् विश्वजिता त्रिणाकम् ।
जिगीषमाणं विधिनाभिषिच्य
महाभिषेकेण महानुभावाः ॥ ४ ॥
ततो रथः काञ्चनपट्टनद्धो
हयाश्च हर्यश्वतुरङ्गवर्णाः ।
ध्वजश्च सिंहेन विराजमानो
हुताशनादास हविर्भिरिष्टात् ॥ ५ ॥
धनुश्च दिव्यं पुरटोपनद्धं
तूणावरिक्तौ कवचं च दिव्यम् ।
पितामहस्तस्य ददौ च मालां
अम्लानपुष्पां जलजं च शुक्रः ॥ ६ ॥
एवं स विप्रार्जितयोधनार्थः
तैः कल्पितस्वस्त्ययनोऽथ विप्रान् ।
प्रदक्षिणीकृत्य कृतप्रणामः
प्रह्रादमामंत्र्य नमश्चकार ॥ ७ ॥
(अनुष्टुप्)
अथारुह्य रथं दिव्यं भृगुदत्तं महारथः ।
सुस्रग्धरोऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः ॥ ८ ॥
हेमाङ्गदलसद्बाहुः स्फुरन्मकरकुण्डलः ।
रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट् ॥ ९ ॥
तुल्यैश्वर्यबलश्रीभिः स्वयूथैर्दैत्ययूथपैः ।
पिबद्भिरिव खं दृग्भिः दद्भिः परिधीनिव ॥ १० ॥
वृतो विकर्षन् महतीमासुरीं ध्वजिनीं विभुः ।
ययौ इंद्रपुरीं स्वृद्धां कंपयन्निव रोदसी ॥ ११ ॥
रम्यां उपवन उद्यानैः श्रीमद्भिःनन्दनादिभिः ।
कूजद् विहङ्गमिथुनैः गायन् मत्तमधुव्रतैः ॥ १२ ॥
प्रवालफलपुष्पोरु भारशाखामरद्रुमैः ।
हंससारसचक्राह्व कारण्डवकुलाकुलाः ।
नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः ॥ १३ ॥
आकाशगङ्गया देव्या वृतां परिखभूतया ।
प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च ॥ १४ ॥
रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः ।
जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम् ॥ १५ ॥
सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्युताम् ।
शृङ्गाटकैर्मणिमयैः वज्रविद्रुमवेदिभिः ॥ १६ ॥
यत्र नित्यवयोरूपाः श्यामा विरजवाससः ।
भ्राजन्ते रूपवन्नार्यो ह्यर्चिर्भिरिव वह्नयः ॥ १७ ॥
सुरस्त्रीकेशविभ्रष्ट नवसौगन्धिकस्रजाम् ।
यत्रामोदमुपादाय मार्ग आवाति मारुतः ॥ १८ ॥
हेमजालाक्षनिर्गच्छद् धूमेनागुरुगन्धिना ।
पाण्डुरेण प्रतिच्छन्न मार्गे यान्ति सुरप्रियाः ॥ १९ ॥
मुक्तावितानैर्मणिहेमकेतुभिः
नानापताकावलभीभिरावृताम् ।
शिखण्डिपारावतभृंहनादितां
वैमानिकस्त्रीकलगीतमङ्गलाम् ॥ २० ॥
मृदङ्ग शंखानकदुन्दुभिस्वनैः
सतालवीणामुरजेष्टवेणुभिः ।
नृत्यैः सवाद्यैः उपदेवगीतकैः
मनोरमां स्वप्रभया जितप्रभाम् ॥ २१ ॥
(अनुष्टुप्)
यां न व्रजन्त्यधर्मिष्ठाः खला भूतद्रुहः शठाः ।
मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत् ॥ २२ ॥
तां देवधानीं स वरूथिनीपतिः
बहिः समन्ताद् रुरुधे पृतन्यया ।
आचार्यदत्तं जलजं महास्वनं
दध्मौ प्रयुञ्जन् भयमिन्द्रयोषिताम् ॥ २३ ॥
(अनुष्टुप्)
मघवान् तमभिप्रेत्य बलेः परममुद्यमम् ।
सर्वदेवगणोपेतो गुरुं एतदुवाच ह ॥ २४ ॥
भगवन् उद्यमो भूयान् बलेर्नः पूर्ववैरिणः ।
अविषह्यमिमं मन्ये केनासीत् तेजसोर्जितः ॥ २५ ॥
नैनं कश्चित्कुतो वापि प्रतिव्योढुमधीश्वरः ।
पिबन्निव मुखेनेदं लिहन्निव दिशो दश ।
दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः ॥ २६ ॥
ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपोः ।
ओजः सहो बलं तेजो यत एतत्समुद्यमः ॥ २७ ॥
श्रीगुरुरुवाच -
जानामि मघवन् शत्रोः उन्नतेरस्य कारणम् ।
शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभिः ॥ २८ ॥
भवद्विधो भवान्वापि वर्जयित्वेश्वरं हरिम् ।
नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः ॥ २९ ॥
तस्मान्निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् ।
यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः ॥ ३० ॥
एष विप्रबलोदर्कः सम्प्रत्यूर्जितविक्रमः ।
तेषां एवापमानेन सानुबन्धो विनङ्क्ष्यति ॥ ३१ ॥
एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना ।
हित्वा त्रिविष्टपं जग्मुः गीर्वाणाः कामरूपिणः ॥ ३२ ॥
देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम् ।
देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम् ॥ ३३ ॥
तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः ।
शतेन हयमेधानामनुव्रतमयाजयन् ॥ ३४ ॥
ततस्तदनुभावेन भुवनत्रयविश्रुताम् ।
कीर्तिं दिक्षुवितन्वानः स रेज उडुराडिव ॥ ३५ ॥
बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम् ।
कृतकृत्यमिवात्मानं मन्यमानो महामनाः ॥ ३६ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे पञ्चदशोऽध्यायः ॥ १५ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
GO TOP
|