श्रीमद्‌भागवत महापुराण

अष्टमः स्कन्धः - प्रथमोऽध्यायः

स्वायंभुवादि मन्वन्तरचतुष्टयवर्णनं यज्ञावतारचरितं च -

[ Right click to 'save audio as' for downloading Audio ]

राजोवाच -
(अनुष्टुप्)
स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच्छ्रुतः ।
यत्र विश्वसृजां सर्गो मनूनन्यान्वदस्व नः ॥ १ ॥
यत्र यत्र हरेर्जन्म कर्माणि च महीयसः ।
गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम् ॥ २ ॥
यद्यस्मिन्नंतरे ब्रह्मन् भगवान्विश्वभावनः ।
कृतवान्कुरुते कर्ता ह्यतीतेऽनागतेऽद्य वा ॥ ३ ॥
ऋषिरुवाच -
मनवोऽस्मिन्व्यतीताः षट् कल्पे स्वायम्भुवादयः ।
आद्यस्ते कथितो यत्र देवादीनां च सम्भवः ॥ ४ ॥
आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनोः ।
धर्मज्ञानोपदेशार्थं भगवान्पुत्रतां गतः ॥ ५ ॥
कृतं पुरा भगवतः कपिलस्यानुवर्णितम् ।
आख्यास्ये भगवान्यज्ञो यच्चकार कुरूद्वह ॥ ६ ॥
विरक्तः कामभोगेषु शतरूपापतिः प्रभुः ।
विसृज्य राज्यं तपसे सभार्यो वनमाविशत् ॥ ७ ॥
सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन् ।
तप्यमानस्तपो घोरमिदमन्वाह भारत ॥ ८ ॥
मनुरुवाच -
येन चेतयते विश्वं विश्वं चेतयते न यम् ।
यो जागर्ति शयानेऽस्मिन्नायं तं वेद वेद सः ॥ ९ ॥
आत्मावास्यमिदं विश्वं यत् किञ्चिज्जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १० ॥
यं पश्यति न पश्यन्तं चक्षुर्यस्य न रिष्यति ।
तं भूतनिलयं देवं सुपर्णं उपधावत ॥ ११ ॥
न यस्याद्यन्तौ मध्यं च स्वः परो नान्तरं बहिः ।
विश्वस्यामूनि यत् यस्माद् विश्वं च तदृतं महत् ॥ १२ ॥
स विश्वकायः पुरुहूत ईशः
     सत्यः स्वयंज्योतिरजः पुराणः ।
धत्तेऽस्य जन्माद्यजयाऽऽत्मशक्त्या
     तां विद्यया उदस्य निरीह आस्ते ॥ १३ ॥
अथाग्रे ऋषयः कर्माणि ईहन्तेऽकर्महेतवे ।
ईहमानो हि पुरुषः प्रायोऽनीहां प्रपद्यते ॥ १४ ॥
ईहते भगवानीशो न हि तत्र विषज्जते ।
आत्मलाभेन पूर्णार्थो नावसीदन्ति येऽनु तम् ॥ १५ ॥
तमीहमानं निरहंकृतं बुधं
     निराशिषं पूर्णमनन्यचोदितम् ।
नॄञ्छिक्षयन्तं निजवर्त्मसंस्थितं
     प्रभुं प्रपद्येऽखिलधर्मभावनम् ॥ १६ ॥
शुक उवाच -
(अनुष्टुप्)
इति मंत्रोपनिषदं व्याहरन्तं समाहितम् ।
दृष्ट्‍वासुरा यातुधाना जग्धुमभ्यद्रवन् क्षुधा ॥ १७ ॥
तांस्तथावसितान् वीक्ष्य यज्ञः सर्वगतो हरिः ।
यामैः परिवृतो देवैर्हत्वाशासत् त्रिविष्टपम् ॥ १८ ॥
स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतो अभवत् ।
द्युमतसुषेणरोचिष्मत्प्रमुखास्तस्य चात्मजाः ॥ १९ ॥
तत्र इन्द्रो रोचनस्त्वासीद् देवाश्च तुषितादयः ।
ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः ॥ २० ॥
ऋषेस्तु वेदशिरसस्तुषिता नाम पत्‍न्यभूत् ।
तस्यां जज्ञे ततो देवः विभुरित्यभिविश्रुतः ॥ २१ ॥
अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः ।
अन्वशिक्षन्व्रतं तस्य कौमारब्रह्मचारिणः ॥ २२ ॥
तृतीय उत्तमो नाम प्रियव्रत सुतो मनुः ।
पवनः सृञ्जयो यज्ञहोत्राद्यास्तत्सुता नृप ॥ २३ ॥
वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः ।
सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥ २४ ॥
धर्मस्य सूनृतायां तु भगवान्पुरुषोत्तमः ।
सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह ॥ २५ ॥
सोऽनृतव्रतदुःशीलानसतो यक्षराक्षसान् ।
भूतद्रुहो भूतगणांस्त्ववधीत् सत्यजित्सखः ॥ २६ ॥
चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामसः ।
पृथुः ख्यातिः नरः केतुरित्याद्या दश तत्सुताः ॥ २७ ॥
सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः ।
ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे ॥ २८ ॥
देवा वैधृतयो नाम विधृतेस्तनया नृप ।
नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा ॥ २९ ॥
तत्रापि जज्ञे भगवान्हरिण्यां हरिमेधसः ।
हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात् ॥ ३० ॥
राजोवाच -
बादरायण एतत् ते श्रोतुमिच्छामहे वयम् ।
हरिर्यथा गजपतिं ग्राह ग्रस्तममूमुचत् ॥ ३१ ॥
तत्कथा सुमहत् पुण्यं धन्यं स्वस्त्ययनं शुभम् ।
यत्र यत्र उत्तमश्लोको भगवान्गीयते हरिः ॥ ३२ ॥
सूत उवाच -
परीक्षितैवं स तु बादरायणिः
     प्रायोपविष्टेन कथासु चोदितः ।
उवाच विप्राः प्रतिनन्द्य पार्थिवं
     मुदा मुनीनां सदसि स्म शृण्वताम् ॥ ३३ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे मन्वन्तरानुचरिते प्रथमोध्याऽयः ॥ १ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP