श्रीमद्‌भागवत महापुराण

सप्तमः स्कंधः - नवमोऽध्यायः

प्रह्रादकृत भगवत्स्तुतिः -

[ Right click to 'save audio as' for downloading Audio ]

नारद उवाच -
एवं सुरादयः सर्वे ब्रह्मरुद्रपुरः सराः ।
नोपैतुमशकन्मन्यु संरम्भं सुदुरासदम् ॥ १ ॥
साक्षात्श्रीः प्रेषिता देवैर्दृष्ट्वा तं महदद्‍भुतम् ।
अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्‌किता ॥ २ ॥
प्रह्रादं प्रेषयामास ब्रह्मावस्थितमन्तिके ।
तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ॥ ३ ॥
तथेति शनकै राजन् महाभागवतोऽर्भकः ।
उपेत्य भुवि कायेन ननाम विधृताञ्जलिः ॥ ४ ॥
स्वपादमूले पतितं तमर्भकं
     विलोक्य देवः कृपया परिप्लुतः ।
उत्थाप्य तच्छीर्ष्ण्यदधात् कराम्बुजं
     कालाहिवित्रस्तधियां कृताभयम् ॥ ५ ॥
स तत्करस्पर्शधुताखिलाशुभः
     सपद्यभिव्यक्तपरात्मदर्शनः ।
तत्पादपद्मं हृदि निर्वृतो दधौ
     हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः ॥ ६ ॥
(अनुष्टुप्)
अस्तौषीद्धरिमेकाग्र मनसा सुसमाहितः ।
प्रेमगद्‍गदया वाचा तन्न्यस्तहृदयेक्षणः ॥ ७ ॥
प्रह्राद उवाच -
ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः
     सत्त्वैकतानमतयो वचसां प्रवाहैः ।
नाराधितुं पुरुगुणैः अधुनापि पिप्रुः
     किं तोष्टुमर्हति स मे हरिरुग्रजातेः ॥ ८ ॥
मन्ये धनाभिजनरूपतपःश्रुतौजः
     तेजःप्रभावबलपौरुषबुद्धियोगाः ।
नाराधनाय हि भवन्ति परस्य पुंसो
     भक्त्या तुतोष भगवान् गजयूथपाय ॥ ९ ॥
विप्राद् द्विषड्गुणयुताद् अरविन्दनाभ
     पादारविन्दविमुखात् श्वपचं वरिष्ठम् ।
मन्ये तदर्पितमनोवचनेहितार्थ
     प्राणं पुनाति स कुलं न तु भूरिमानः ॥ १० ॥
नैवात्मनः प्रभुरयं निजलाभपूर्णो
     मानं जनादविदुषः करुणो वृणीते ।
यद् यज्जनो भगवते विदधीत मानं
     तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥ ११ ॥
तस्मादहं विगतविक्लव ईश्वरस्य
     सर्वात्मना महि गृणामि यथा मनीषम् ।
नीचोऽजया गुणविसर्गमनुप्रविष्टः
     पूयेत येन हि पुमान् अनुवर्णितेन ॥ १२ ॥
सर्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो
     ब्रह्मादयो वयमिवेश न चोद्विजन्तः ।
क्षेमाय भूतय उतात्मसुखाय चास्य
     विक्रीडितं भगवतो रुचिरावतारैः ॥ १३ ॥
तद् यच्छ मन्युमसुरश्च हतस्त्वयाद्य
     मोदेत साधुरपि वृश्चिकसर्पहत्या ।
लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे
     रूपं नृसिंह विभयाय जनाः स्मरन्ति ॥ १४ ॥
नाहं बिभेम्यजित तेऽतिभयानकास्य
     जिह्वार्कनेत्र भ्रुकुटीरभसोग्रदंष्ट्रात् ।
आन्त्रस्रजःक्षतजकेशरशङ्‌कुकर्णान्
     निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥ १५ ॥
त्रस्तोऽस्म्यहं कृपणवत्सल दुःसहोग्र
     संसारचक्रकदनाद् ग्रसतां प्रणीतः ।
बद्धः स्वकर्मभिरुशत्तम तेऽङ्‌घ्रिमूलं
     प्रीतोऽपवर्गशरणं ह्वयसे कदा नु ॥ १६ ॥
यस्मात् प्रियाप्रियवियोगसंयोगजन्म
     शोकाग्निना सकलयोनिषु दह्यमानः ।
दुःखौषधं तदपि दुःखमतद्धियाहं
     भूमन्भ्रमामि वद मे तव दास्ययोगम् ॥ १७ ॥
सोऽहं प्रियस्य सुहृदः परदेवताया
     लीलाकथास्तव नृसिंह विरिञ्चगीताः ।
अञ्जस्तितर्म्यनुगृणन् गुणविप्रमुक्तो
     दुर्गाणि ते पदयुगालयहंससङ्‌गः ॥ १८ ॥
बालस्य नेह शरणं पितरौ नृसिंह
     नार्तस्य चागदमुदन्वति मज्जतो नौः ।
तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्टः
     तावद् विभो तनुभृतां त्वदुपेक्षितानाम् ॥ १९ ॥
यस्मिन्यतो यर्हि येन च यस्य यस्माद्
     यस्मै यथा यदुत यस्त्वपरः परो वा ।
भावः करोति विकरोति पृथक्‌स्वभावः
     सञ्चोदितस्तदखिलं भवतः स्वरूपम् ॥ २० ॥
माया मनः सृजति कर्ममयं बलीयः
     कालेन चोदितगुणानुमतेन पुंसः ।
छन्दोमयं यदजयार्पितषोडशारं
     संसारचक्रमज कोऽतितरेत् त्वदन्यः ॥ २१ ॥
स त्वं हि नित्यविजितात्मगुणः स्वधाम्ना
     कालो वशीकृतविसृज्यविसर्गशक्तिः ।
चक्रे विसृष्टमजयेश्वर षोडशारे
     निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् ॥ २२ ॥
दृष्टा मया दिवि विभोऽखिलधिष्ण्यपानाम्
     आयुः श्रियो विभव इच्छति यान्जनोऽयम् ।
येऽस्मत्पितुः कुपितहासविजृम्भितभ्रू
     विस्फूर्जितेन लुलिताः स तु ते निरस्तः ॥ २३ ॥
तस्मादमूस्तनुभृतां अहमाशिषोऽज्ञ
     आयुः श्रियं विभवमैन्द्रियमा विरिञ्च्यात् ।
नेच्छामि ते विलुलितानुरुविक्रमेण
     कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥ २४ ॥
कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपाः
     क्वेदं कलेवरमशेषरुजां विरोहः ।
निर्विद्यते न तु जनो यदपीति विद्वान्
     कामानलं मधुलवैः शमयन्दुरापैः ॥ २५ ॥
क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन्
     जातः सुरेतरकुले क्व तवानुकम्पा ।
न ब्रह्मणो न तु भवस्य न वै रमाया
     यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः ॥ २६ ॥
नैषा परावरमतिर्भवतो ननु स्याजत्
     जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथापि ।
संसेवया सुरतरोरिव ते प्रसादः
     सेवानुरूपमुदयो न परावरत्वम् ॥ २७ ॥
एवं जनं निपतितं प्रभवाहिकूपे
     कामाभिकाममनु यः प्रपतन् प्रसङ्‌गात् ।
कृत्वाऽऽत्मसात् सुरर्षिणा भगवन् गृहीतः
     सोऽहं कथं नु विसृजे तव भृत्यसेवाम् ॥ २८ ॥
मत्प्राणरक्षणमनन्त पितुर्वधश्च
     मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् ।
खड्गं प्रगृह्य यदवोचदसद् विधित्सुः
     त्वामीश्वरो मदपरोऽवतु कं हरामि ॥ २९ ॥
एकस्त्वमेव जगदेतममुष्य यत्त्वं
     आद्यन्तयोः पृथगवस्यसि मध्यतश्च ।
सृष्ट्वा गुणव्यतिकरं निजमाययेदं
     नानेव तैरवसितस्तदनुप्रविष्टः ॥ ३० ॥
त्वं वा इदं सदसदीश भवांस्ततोऽन्यो
     माया यदात्मपरबुद्धिरियं ह्यपार्था ।
यद् यस्य जन्म निधनं स्थितिरीक्षणं च
     तद् वै तदेव वसुकालवदष्टितर्वोः ॥ ३१ ॥
न्यस्येदमात्मनि जगद् विलयाम्बुमध्ये
     शेषैऽऽत्मना निजसुखानुभवो निरीहः ।
योगेन मीलितदृगात्मनिपीतनिद्रः
     तुर्ये स्थितो न तु तमो न गुणांश्च युङ्‌क्षे ॥ ३२ ॥
तस्यैव ते वपुरिदं निजकालशक्त्या
     सञ्चोदितप्रकृतिधर्मण आत्मगूढम् ।
अम्भस्यनन्तशयनाद् विरमत्समाधेः
     नाभेरभूत् स्वकणिकावटवन्महाब्जम् ॥ ३३ ॥
तत्सम्भवः कविरतोऽन्यदपश्यमानः
     त्वां बीजमात्मनि ततं स बहिर्विचिन्त्य ।
नाविन्ददब्दशतमप्सु निमज्जमानो
     जातेऽङ्‌कुरे कथमु होपलभेत बीजम् ॥ ३४ ॥
स त्वात्मयोनिरतिविस्मित आस्थितोऽब्जं
     कालेन तीव्रतपसा परिशुद्धभावः ।
त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं
     भूतेन्द्रियाशयमये विततं ददर्श ॥ ३५ ॥
एवं सहस्रवदनाङ्‌घ्रिशिरःकरोरु
     नासास्यकर्ण नयनाभरणायुधाढ्यम् ।
मायामयं सदुपलक्षितसन्निवेशं
     दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥ ३६ ॥
तस्मै भवान् हयशिरस्तनुवं च बिभ्रद्
     वेदद्रुहावतिबलौ मधुकैटभाख्यौ ।
हत्वाऽऽनयत् श्रुतिगणांश्च रजस्तमश्च
     सत्त्वं तव प्रियतमां तनुमामनन्ति ॥ ३७ ॥
इत्थं नृतिर्यग् ऋषिदेवझषावतारैः
     लोकान् विभावयसि हंसि जगत्प्रतीपान् ।
धर्मं महापुरुष पासि युगानुवृत्तं
     छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम् ॥ ३८ ॥
नैतन्मनस्तव कथासु विकुण्ठनाथ
     सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् ।
कामातुरं हर्षशोकभयैषणार्तं
     तस्मिन्कथं तव गतिं विमृशामि दीनः ॥ ३९ ॥
जिह्वैकतोऽच्युत विकर्षति मावितृप्ता
     शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ।
घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्तिः
     बह्व्यः सपत्‍न्य इव गेहपतिं लुनन्ति ॥ ४० ॥
एवं स्वकर्मपतितं भववैतरण्याम्
     अन्योन्यजन्म मरणाशनभीतभीतम् ।
पश्यन्जनं स्वपरविग्रहवैरमैत्रं
     हन्तेति पारचर पीपृहि मूढमद्य ॥ ४१ ॥
को न्वत्र तेऽखिलगुरो भगवन्प्रयास
     उत्तारणेऽस्य भवसम्भवलोपहेतोः ।
मूढेषु वै महदनुग्रह आर्तबन्धो
     किं तेन ते प्रियजनाननुसेवतां नः ॥ ४२ ॥
नैवोद्विजे पर दुरत्ययवैतरण्याः
     त्वद्वीर्यगायनमहामृतमग्नचित्तः ।
शोचे ततो विमुखचेतस इन्द्रियार्थ
     मायासुखाय भरमुद्वहतो विमूढान् ॥ ४३ ॥
प्रायेण देव मुनयः स्वविमुक्तिकामा
     मौनं चरन्ति विजने न परार्थनिष्ठाः ।
नैतान्विहाय कृपणान्विमुमुक्ष एको
     नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये ॥ ४४ ॥
यन्मैथुनादिगृहमेधिसुखं हि तुच्छं
     कण्डूयनेन करयोरिव दुःखदुःखम् ।
तृप्यन्ति नेह कृपणा बहुदुःखभाजः
     कण्डूतिवन्मनसिजं विषहेत धीरः ॥ ४५ ॥
मौनव्रतश्रुततपोऽध्ययनस्वधर्म
     व्याख्यारहोजपसमाधय आपवर्ग्याः ।
प्रायः परं पुरुष ते त्वजितेन्द्रियाणां
     वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् ॥ ४६ ॥
रूपे इमे सदसती तव वेदसृष्टे
     बीजाङ्‌कुराविव न चान्यदरूपकस्य ।
युक्ताः समक्षमुभयत्र विचक्षन्ते त्वां
     योगेन वह्निमिव दारुषु नान्यतः स्यात् ॥ ४७ ॥
त्वं वायुरग्निरवनिर्वियदम्बु मात्राः
     प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च ।
सर्वं त्वमेव सगुणो विगुणश्च भूमन्
     नान्यत् त्वदस्त्यपि मनोवचसा निरुक्तम् ॥ ४८ ॥
नैते गुणा न गुणिनो महदादयो ये
     सर्वे मनः प्रभृतयः सहदेवमर्त्याः ।
आद्यन्तवन्त उरुगाय विदन्ति हि त्वाम्
     एवं विमृश्य सुधियो विरमन्ति शब्दात् ॥ ४९ ॥
तत्तेऽर्हत्तम नमः स्तुतिकर्मपूजाः
     कर्म स्मृतिश्चरणयोः श्रवणं कथायाम् ।
संसेवया त्वयि विनेति षडङ्‌गया किं
     भक्तिं जनः परमहंसगतौ लभेत ॥ ५० ॥
नारद उवाच -
(अनुष्टुप्)
एतावद् वर्णितगुणो भक्त्या भक्तेन निर्गुणः ।
प्रह्रादं प्रणतं प्रीतो यतमन्युरभाषत ॥ ५१ ॥
श्रीभगवानुवाच -
प्रह्राद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम ।
वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम् ॥ ५२ ॥
मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे ।
दृष्ट्वा मां न पुनर्जन्तुः आत्मानं तप्तुमर्हति ॥ ५३ ॥
प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः ।
श्रेयस्कामा महाभाग सर्वासां आशिषां पतिम् ॥ ५४ ॥
श्रीनारद उवाच -
एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः ।
एकान्तित्वाद् भगवति नैच्छत्तानसुरोत्तमः ॥ ५५ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे प्रह्रादचरिते भगवत्सवो नवमोऽध्यायः ॥ ९ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP