श्रीमद्‌भागवत महापुराण

सप्तमः स्कंधः - पंचमोऽध्यायः

हिरण्यकशिपु-प्रह्रादसंवादः, प्रह्रादवधार्थं हिरण्यकशिपो प्रय‌त्‍नः, प्रह्रादस्य पुनर्गुरुगृहे स्थापनं च -

[ Right click to 'save audio as' for downloading Audio ]

नारद उवाच -
(अनुष्टुप्)
पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः ।
षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके ॥ १ ॥
तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् ।
पाठयामासतुः पाठ्यानन्यांश्चासुरबालकान् ॥ २ ॥
यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च ।
न साधु मनसा मेने स्वपरासद्‍ग्रहाश्रयम् ॥ ३ ॥
एकदासुरराट् पुत्रमङ्‌कमारोप्य पाण्डव ।
पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्‍भवान् ॥ ४ ॥
प्रह्लाद उवाच -
तत्साधु मन्येऽसुरवर्य देहिनां
     सदा समुद्विग्नधियामसद्‍ग्रहात् ।
हित्वात्मपातं गृहमन्धकूपं
     वनं गतो यद्धरिमाश्रयेत ॥ ५ ॥
नारद उवाच -
(अनुष्टुप्)
श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः ।
जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः ॥ ६ ॥
सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभिः ।
विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा ॥ ७ ॥
गृहमानीतमाहूय प्रह्रादं दैत्ययाजकाः ।
प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः ॥ ८ ॥
वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा ।
बालानति कुतस्तुभ्यमेष बुद्धिविपर्ययः ॥ ९ ॥
बुद्धिभेदः परकृत उताहो ते स्वतोऽभवत् ।
भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन ॥ १० ॥
प्रह्राद उवाच -
स्वः परश्चेत्यसद्‍ग्राहः पुंसां यन्मायया कृतः ।
विमोहितधियां दृष्टस्तस्मै भगवते नमः ॥ ११ ॥
स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते ।
अन्य एष तथान्योऽहमिति भेदगतासती ॥ १२ ॥
स एष आत्मा स्वपरेत्यबुद्धिभि-
     र्दुरत्ययानुक्रमणो निरूप्यते ।
मुह्यन्ति यद्‌वर्त्मनि वेदवादिनो
     ब्रह्मादयो ह्येष भिनत्ति मे मतिम् ॥ १३ ॥
(अनुष्टुप्)
यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ ।
तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया ॥ १४ ॥
नारद उवाच -
एतावद्‌ब्राह्मणायोक्त्वा विरराम महामतिः ।
तं सन्निभर्त्स्य कुपितः स दीनो राजसेवकः ॥ १५ ॥
आनीयतामरे वेत्रमस्माकमयशस्करः ।
कुलाङ्‌गारस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दमः ॥ १६ ॥
दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः ।
यन्मूलोन्मूलपरशोर्विष्णोर्नालायितोऽर्भकः ॥ १७ ॥
इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः ।
प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम् ॥ १८ ॥
तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् ।
दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्‌कृतम् ॥ १९ ॥
पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः ।
परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् ॥ २० ॥
आरोप्याङ्‌कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः ।
आसिञ्चन् विकसद्वक्त्रमिदमाह युधिष्ठिर ॥ २१ ॥
हिरण्यकशिपुरुवाच -
प्रह्रादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम् ।
कालेनैतावताऽऽयुष्मन् यदशिक्षद्‍ गुरोर्भवान् ॥ २२ ॥
प्रह्राद उवाच -
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ २३ ॥
इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ।
क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥ २४ ॥
निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा ।
गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः ॥ २५ ॥
ब्रह्मबन्धो किमेतत्ते विपक्षं श्रयतासता ।
असारं ग्राहितो बालो मामनादृत्य दुर्मते ॥ २६ ॥
सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः ।
तेषामुदेत्यघं काले रोगः पातकिनामिव ॥ २७ ॥
गुरुपुत्र उवाच -
न मत्प्रणीतं न परप्रणीतं
     सुतो वदत्येष तवेन्द्रशत्रो ।
नैसर्गिकीयं मतिरस्य राजन्
     नियच्छ मन्युं कददाः स्म मा नः ॥ २८ ॥
नारद उवाच -
(अनुष्टुप्)
गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् ।
न चेद्‍गुरुमुखीयं ते कुतोऽभद्रासती मतिः ॥ २९ ॥
प्रह्राद उवाच -
मतिर्न कृष्णे परतः स्वतो वा
     मिथोऽभिपद्येत गृहव्रतानाम् ।
अदान्तगोभिर्विशतां तमिस्रं
     पुनः पुनश्चर्वितचर्वणानाम् ॥ ३० ॥
न ते विदुः स्वार्थगतिं हि विष्णुं
     दुराशया ये बहिरर्थमानिनः ।
अन्धा यथान्धैरुपनीयमाना
     वाचीशतन्त्यामुरुदाम्नि बद्धाः ॥ ३१ ॥
नैषां मतिस्तावदुरुक्रमाङ्‌घ्रिं
     स्पृशत्यनर्थापगमो यदर्थः ।
महीयसां पादरजोऽभिषेकं
     निष्किञ्चनानां न वृणीत यावत् ॥ ३२ ॥
(अनुष्टुप्)
इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा ।
अन्धीकृतात्मा स्वोत्सङ्‌गान्निरस्यत महीतले ॥ ३३ ॥
आहामर्षरुषाविष्टः कषायीभूतलोचनः ।
वध्यतामाश्वयं वध्यो निःसारयत नैर्ऋताः ॥ ३४ ॥
अयं मे भ्रातृहा सोऽयं हित्वा स्वान् सुहृदोऽधमः ।
पितृव्यहन्तुर्यः पादौ विष्णोर्दासवदर्चति ॥ ३५ ॥
विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जसः ।
सौहृदं दुस्त्यजं पित्रोरहाद्यः पञ्चहायनः ॥ ३६ ॥
परोऽप्यपत्यं हितकृद्यथौषधं
     स्वदेहजोऽप्यामयवत्सुतोऽहितः ।
छिन्द्यात्तदङ्‌गं यदुतात्मनोऽहितं
     शेषं सुखं जीवति यद्विवर्जनात् ॥ ३७ ॥
(अनुष्टुप्)
सर्वैरुपायैर्हन्तव्यः सम्भोजशयनासनैः ।
सुहृल्लिङ्‌गधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् ॥ ३८ ॥
नैर्ऋतास्ते समादिष्टा भर्त्रा वै शूलपाणयः ।
तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहाः ॥ ३९ ॥
नदन्तो भैरवान्नादांश्छिन्धि भिन्धीति वादिनः ।
आसीनं चाहनञ् शूलैः प्रह्रादं सर्वमर्मसु ॥ ४० ॥
परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि ।
युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रियाः ॥ ४१ ॥
प्रयासेऽपहते तस्मिन् दैत्येन्द्रः परिशङ्‌कितः ।
चकार तद्वधोपायान्निर्बन्धेन युधिष्ठिर ॥ ४२ ॥
दिग्गजैर्दन्दशूकैश्च अभिचारावपातनैः ।
मायाभिः सन्निरोधैश्च गरदानैरभोजनैः ॥ ४३ ॥
हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि ।
न शशाक यदा हन्तुमपापमसुरः सुतम् ।
चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत ॥ ४४ ॥
एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः ।
तैस्तैः द्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा ॥ ४५ ॥
वर्तमानोऽविदूरे वै बालोऽप्यजडधीरयम् ।
न विस्मरति मेऽनार्यं शुनः शेप इव प्रभुः ॥ ४६ ॥
अप्रमेयानुभावोऽयमकुतश्चिद्‍भयोऽमरः ।
नूनमेतद्विरोधेन मृत्युर्मे भविता न वा ॥ ४७ ॥
इति तच्चिन्तया किञ्चिन्म्लानश्रियमधोमुखम् ।
शण्डामर्कावौशनसौ विविक्त इति होचतुः ॥ ४८ ॥
जितं त्वयैकेन जगत्त्रयं भ्रुवो-
     र्विजृम्भणत्रस्तसमस्तधिष्ण्यपम् ।
न तस्य चिन्त्यं तव नाथ चक्ष्महे
     न वै शिशूनां गुणदोषयोः पदम् ॥ ४९ ॥
इमं तु पाशैर्वरुणस्य बद्ध्वा
     निधेहि भीतो न पलायते यथा ।
बुद्धिश्च पुंसो वयसाऽऽर्यसेवया
     यावद्‍गुरुर्भार्गव आगमिष्यति ॥ ५० ॥
(अनुष्टुप्)
तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् ।
धर्मो ह्यस्योपदेष्टव्यो राज्ञां ये गृहमेधिनाम् ॥ ५१ ॥
धर्ममर्थं च कामं च नितरां चानुपूर्वशः ।
प्रह्रादायोचतू राजन् प्रश्रितावनताय च ॥ ५२ ॥
यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम् ।
न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ॥ ५३ ॥
यदाऽऽचार्यः परावृत्तो गृहमेधीयकर्मसु ।
वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः ॥ ५४ ॥
अथ ताञ् श्लक्ष्णया वाचा प्रत्याहूय महाबुधः ।
उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव ॥ ५५ ॥
ते तु तद्‍गौरवात्सर्वे त्यक्तक्रीडापरिच्छदाः ।
बाला न दूषितधियो द्वन्द्वारामेरितेहितैः ॥ ५६ ॥
पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः ।
तानाह करुणो मैत्रो महाभागवतोऽसुरः ॥ ५७ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे प्रह्रादचरिते पंचमोऽध्यायः ॥ ५ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP