श्रीमद्‌भागवत महापुराण

पञ्चमः स्कन्धः - चतुर्विंशोऽध्यायः

राह्वादिस्थितिबिलस्वर्गमर्यादानिरूपणम् -

[ Right click to 'save audio as' for downloading Audio ]

श्रीशुक उवाच
अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रवच्चरतीत्येके
योऽसावमरत्वं ग्रहत्वं चालभत भगवदनुकम्पया
स्वयमसुरापसदः सैंहिकेयो ह्यतदर्हस्तस्य
तात जन्मकर्माणि चोपरिष्टाद्वक्ष्यामः ॥ १ ॥
यददस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो
योजनायुतमाचक्षते द्वादशसहस्रं सोमस्य
त्रयोदशसहस्रं राहोर्यः पर्वणि तद्व्यवधान-
कृद्वैरानुबन्धः सूर्याचन्द्रमसावभिधावति ॥ २ ॥
तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं
सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा दुर्विषहं
मुहुः परिवर्तमानमभ्यवस्थितो मुहूर्तमुद्विजमान-
श्चकितहृदय आरादेव निवर्तते तदुपरागमिति वदन्ति
लोकाः ॥ ३ ॥
ततोऽधस्तात्सिद्धचारणविद्याधराणां
सदनानि तावन्मात्र एव ॥ ४ ॥
ततोऽधस्ताद्यक्षरक्षः पिशाचप्रेतभूतगणानां
विहाराजिरमन्तरिक्षं यावद्वायुः प्रवाति यावन्मेघा
उपलभ्यन्ते ॥ ५ ॥
ततोऽ धस्ताच्छतयोजनान्तर इयं पृथिवी
यावद्धंसभासश्येनसुपर्णादयः पतत्त्रिप्रवरा
उत्पतन्तीति ॥ ६ ॥
उपवर्णितं भूमेर्यथासंनिवेशावस्थानमवने-
रप्यधस्तात् सप्त भूविवरा एकैकशो योजनायुता -
न्तरेणायामविस्तारेणोपक्लृप्ता अतलं वितलं सुतलं
तलातलं महातलं रसातलं पातालमिति ॥ ७ ॥
एतेषु हि बिलस्वर्गेषु स्वर्गादप्यधिककाम -
भोगैश्वर्यानन्दभूतिविभूतिभिः सुसमृद्धभवनोद्याना-
क्रीडविहारेषु दैत्यदानवकाद्रवेया नित्यप्रमुदिता -
नुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय ईश्वरा -
दप्यप्रतिहतकामा मायाविनोदा निवसन्ति ॥ ८ ॥
येषु महाराज मयेन मायाविना विनिर्मिताः पुरो
नानामणिप्रवरप्रवेकविरचितविचित्रभवनप्राकार -
गोपुरसभाचैत्यचत्वरायतनादिभिर्नागासुर -
मिथुनपारावतशुकसारिकाकर्णिकृत्रिमभूमिभि-
र्विवरेश्वरगृहोत्तमैः समलङ्कृताश्चकासति ॥ ९ ॥
उद्यानानि चातितरां मनइन्द्रियानन्दिभिः
कुसुमफलस्तबकसुभगकिसलयावनतरुचिर -
विटपविटपिनां लताङ्गालिङ्गिताना श्रीभिः समिथुन-
विविधविहङ्गमजलाशयानाममलजलपूर्णानां
झषकुलोल्लङ्घनक्षुभितनीरनीरजकुमुदकुवलय -
कह्लारनीलोत्पललोहितशतपत्रादिवनेषु कृतनिकेत-
नानामेकविहाराकुलमधुरविविधस्वनादिभि -
रिन्द्रियोत्सवैरमरलोकश्रियमतिशयितानि ॥ १० ॥
यत्र ह वाव न भयमहोरात्रादिभिः
कालविभागैरुपलक्ष्यते ॥ ११ ॥
यत्र हि महाहिप्रवरशिरोमणयः सर्वं तमः
प्रबाधन्ते ॥ १२ ॥
न वा एतेषु वसतां दिव्यौषधिरसरसायनान्न-
पानस्नानादिभिराधयो व्याधयो वलीपलित -
जरादयश्च देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानिरिति
वयोऽवस्थाश्च भवन्ति ॥ १३ ॥
न हि तेषां कल्याणानां प्रभवति कुतश्चन
मृत्युर्विना भगवत्तेजसश्चक्रापदेशात् ॥ १४ ॥
यस्मिन् प्रविष्टेऽसुरवधूनां प्रायः पुंसवनानि
भयादेव स्रवन्ति पतन्ति च ॥ १५ ॥
अथातले मयपुत्रोऽसुरो बलो निवसति
येन ह वा इह सृष्टाः षण्णवतिर्मायाः काञ्चनाद्यापि
मायाविनो धारयन्ति यस्य च जृम्भमाणस्य
मुखतस्त्रयःस्त्रीगणा उदपद्यन्त स्त्रैरिण्यः कामिन्यः
पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन
हाटकाख्येन साधयित्वा स्वविलासावलोकना-
नुरागस्मितसंलापोपगूहनादिभिः स्वैरं किल
रमयन्ति यस्मिन्नुपयुक्ते पुरुष ईश्वरोऽहं सिद्धोऽह-
मित्ययुतमहागजबलमात्मानमभिमन्यमानः
कत्थते मदान्ध इव ॥ १६ ॥
ततोऽधस्ताद्वितले हरो भगवान् हाटकेश्वरः
स्वपार्षदभूतगणावृतः प्रजापतिसर्गोपबृंहणाय
भवो भवान्या सह मिथुनीभूत आस्ते यतः प्रवृत्ता
सरित्प्रवरा हाटकी नाम भवयोर्वीर्येण यत्र
चित्रभानुर्मातरिश्वना समिध्यमान ओजसा पिबति
तन्निष्ठ्यूतं हाटकाख्यंसुवर्णं भूषणेनासुरेन्द्रावरोधेषु
पुरुषाः सह पुरुषीभिर्धारयन्ति ॥ १७ ॥
ततोऽधस्तात्सतले उदारश्रवाः पुण्यश्लोको
विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं
चिकर्षिमाणेनादितेर्लब्धकायो भूत्वा बटुवामन-
रूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव पुनः
प्रवेशित इन्द्रादिष्वविद्यमानया सुसमृद्धया
श्रियाभिजुष्टः स्वधर्मेणाराधयंस्तमेव भगवन्तम्
आराधनीयमपगतसाध्वस आस्तेऽधुनापि ॥ १८ ॥
नो एवैतत्साक्षात्कारो भूमिदानस्य
यत्तद्‌भगवत्यशेषजीवनिकायानां जीवभूतात्मभूते
परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया
श्रद्धया परमादरसमाहितमनसा सम्प्रतिपादितस्य
साक्षादपवर्गद्वारस्य यद्बिलनिलयैश्वर्यम् ॥ १९ ॥
यस्य ह वाव क्षुतपतनप्रस्खलनादिषु विवशः
सकृन्नामाभिगृणन् पुरुषः कर्मबन्धनमञ्जसा
विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवो-
ऽन्यथैवोपलभन्ते ॥ २० ॥
तद्‌भक्तानामात्मवतां सर्वेषामात्मन्यात्मद
आत्मतयैव ॥ २१ ॥
न वै भगवान्नूनममुष्यानुजग्राह यदुत
पुनरात्मानुस्मृतिमोषणं मायामयभोगैश्वर्य-
मेवातनुतेति ॥ २२ ॥
यत्तद्‌भगवतानधिगतान्योपायेन याञ्चाच्छलेना-
पहृतस्वशरीरावशेषितलोकत्रयो वरुणपाशैश्च
सम्प्रतिमुक्तो गिरिदर्यांचापविद्ध इति होवाच ॥ २३ ॥
नूनं बतायं भगवानर्थेषु न निष्णातो
योऽसाविन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो
बृहस्यतिस्तमतिहाय स्वयमुपेन्द्रेणात्मानमयाचता-
त्मनश्चाशिषो नो एव तद्दास्यमतिगम्भीरवयसः
कालस्य मन्वन्तरपरिवृत्तं कियल्लोकत्रयमिदम् ॥ २४ ॥
यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न
तु स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवतः
परमिति भगवतोपरते खलु स्वपितरि ॥ २५ ॥
तस्य महानुभावस्यानुपथममृजितकषायः
को वास्मद्विधः परिहीणभगवदनुगह
उपजिगमिषतीति ॥ २६ ॥
तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य
भगवान् स्वयमखिलजगद्‌गुरुर्नारायणो द्वारि
गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो
येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं
दिग्विजय उच्चाटितः ॥ २७ ॥
ततोऽधस्तात्तलातले मयो नाम दानवेन्द्र-
स्त्रिपुराधिपतिर्भगवता पुरारिणा त्रिलोकीशं
चिकीर्षुणा निर्दग्धस्वपुरत्रयस्तत्प्रसादाल्लब्धपदो
मायाविनामाचार्यो महादेवेन परिरक्षितो
विगतसुदर्शनभयो महीयते ॥ २८ ॥
ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां
नैकशिरसां क्रोधवशो नाम गणः कुहकतक्षक-
कालियसुषेणादिप्रथाना महाभोगवन्तः
पतत्विराजाधिपतेः पुरुषवाहादनवरतमुद्विजमानाः
स्वकलत्रापत्यसुहृत्कुटुम्बसङ्गेन क्वचित्प्रमत्ता
विहरन्ति ॥ २९ ॥
ततोऽधस्ताद्रसातले दैतेया दानवाः पणयो
नामनिवातकवचाः कालेया हिरण्यपुरवासिन इति
विबुधप्रत्यनीका उत्पत्त्या महौजसो महासाहसिनो
भगवतः सकललोकानुभावस्य हरेरेव तेजसा
प्रतिहतबलावलेपा बिलेशया इव वसन्ति
ये वै सरमयेन्द्रदूत्या
वाग्भिर्मन्त्रवर्णाभिरिन्द्राद् बिभ्यति ॥ ३० ॥
ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखाः
शङ्खकुलिकमहाशङ्खश्वेतधनञ्जय-
धृतराष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो
महाभोगिनो महामर्षा निवसन्ति येषामु ह वै
पञ्चसत्कदशशतसहस्रशीर्षाणां फणासु विरचिता
महामणयो रोचिष्णवः पातालविवरतिमिरनिकरं
स्वरोचिषा विधमन्ति ॥ ३१ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे राह्वादिस्थितिबिलस्वर्गमर्यादानिरूपणं नाम चतुर्विशोऽध्यायः ॥ २४ ॥


हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP