श्रीमद्भागवत महापुराण
पञ्चमः स्कन्धः - एकविंशोऽध्यायः
ज्योतिश्चक्रसूर्यरथमण्डलवर्णनम् -
[ Right click to 'save audio as' for downloading Audio ]
श्रीशुक उवाच
एतावानेव भूवलयस्य संनिवेशः प्रमाण-
लक्षणतो व्याख्यातः ॥ १ ॥
एतेन हि दिवो मण्डलमानं तद्विद उपदिशन्ति
यथा द्विदलयोर्निष्पावादीनां ते अन्तरेणान्तरिक्षं
तदुभयसन्धितम् ॥ २ ॥
यन्मध्यगतो भगवांस्तपताम्पतिस्तपन
आतपेन त्रिलोकीं प्रतपत्यवभासयत्यात्मभासा
स एष उदगयनदक्षिणायनवैषुवतसंज्ञाभिर्मान्द्य-
शैघ्र्य समानाभिर्गतिभिरारोहणावरोहणसमान-
स्थानेषु यथासवनमभिपद्यमानो मकरादिषु
राशिष्वहोरात्राणि दीर्घह्रस्वसमानानि विधत्ते ॥ ३ ॥
यदा मेषतुलयोर्वर्तते तदाहोरात्राणि समानानि
भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति
तदाहान्येव वर्धन्ते ह्रसति च मासि मास्येकैका
घटिकारात्रिषु ॥ ४ ॥
यदा वृक्षिकादिषु पञ्चसु वर्तते तदाहोरात्राणि
विपर्ययाणि भवन्ति ॥ ५ ॥
यावद्दक्षिणायनमहानि वर्धन्ते यावदुदगयनं
रात्रयः ॥ ६ ॥
एवं नव कोटय एकपञ्चाशल्लक्षाणि
योजनानां मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति
तस्मिन्नैन्द्रीं पुरीं पूर्वस्मान्मेरोर्देवधानीं नाम दक्षिणतो
याम्यां संयमनीं नाम पश्चाद्वारुणीं निम्लोचनीं
नाम उत्तरतः सौम्यां विभावरीं नाम
तासूदयमध्याह्नास्तमयनिशीथानीति भूतानां
प्रवृत्तिनिवृत्तिनिमित्तानि समयविशेषेण
मेरोश्चतुर्दिशम् ॥ ७ ॥
तत्रत्यानां दिवसमध्यङ्गत एव सदा-
ऽऽदित्यस्तपति सव्येनाचलं दक्षिणेन करोति ॥ ८ ॥
यत्रोदेति तस्य ह समानसूत्रनिपाते निम्लोचति
यत्र क्वचन स्यन्देनाभितपति तस्य हैष
समानसूत्रनिपाते प्रस्वापयति तत्र गतं न पश्यन्ति
ये तं समनुपश्येरन् ॥ ९ ॥
यदाचैन्द्र्याः पुर्याः प्रचलते पञ्चदशघटिकाभि-
र्याम्यां सपादकोटिद्वयं योजनानां सार्थद्वादश-
लक्षाणि साधिकानि चोपयाति ॥ १० ॥
एवं ततो वारुणीं सौम्यामैन्द्रीं च पुनस्तथान्ये
च ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्चक्रे
समभ्युद्यन्ति सह वा निम्लोचन्ति ॥ ११ ॥
एवं मुहूर्तेन चतुस्रिंशल्लक्षयोजना-
न्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ चतसृषु
परिवर्तते पुरीषु ॥ १२ ॥
यस्यैकं चक्रं द्वादशारं षण्नेमि त्रिणाभि
संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर्भूर्धनि
कृतो मानसोत्तरे कृतेतरभागो यत्र प्रोतं
रविरथचक्रं तैलयन्त्रचक्रवद् भ्रमन्मानसोत्तरगिरौ
परिभ्रमति ॥ १३ ॥
तस्मिन्नक्षे कृतमूलो द्वितीयोऽक्षस्तुर्यमानेन
सम्मितस्तैलयन्त्राक्षवद् ध्रुवे कृतोपरिभागः ॥ १४ ॥
रथनीडस्तु षट्त्रिंशल्लक्षयोजनायतस्तत्तुरीय-
भागविशालस्तावान रविरथयुगो यत्र हयाश्छन्दो-
नामानःसप्तारुणयोजिता वहन्ति देवमादित्यम् ॥ १५ ॥
पुरस्तात्सवितुररुणः पश्चाच्च नियुक्तः सौत्ये
कर्मणि किलास्ते ॥ १६ ॥
तथा वालखिल्या ऋषयोऽङ्गुष्ठपर्वमात्राः षष्टिसहस्राणि
पुरतः सूर्यं सूक्तवाकाय नियुक्ताः संस्तुवन्ति ॥ १७ ॥
तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा गामण्यो
यातुधाना देवा इत्येकैकशो गणाः सप्त चतुर्दश
मासि मासि भगवन्तं सूर्यमात्मानं नानानामानं
पृथङ्नानानामानः पृथक्कर्मभिर्द्वन्द्वश उपासते ॥ १८ ॥
लक्षोत्तरं सार्धनवकोटियोजनपरिमण्डलं भूवलयस्य
क्षणेन सगन्मूत्युत्तरं द्विसहस्रयोजनानि स भुङ्क्ते ॥ १९ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ज्योतिश्चक्रसूर्यरथमण्डलवर्णनं नामैकविंशोऽध्यायः ॥ २१ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
GO TOP
|