श्रीमद्भागवत महापुराण
पञ्चमः स्कन्धः - चतुर्थोऽध्यायः
ऋषभदेवस्य राज्यशासनम् -
[ Right click to 'save audio as' for downloading Audio ]
श्रीशुक उवाच
अथ ह तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं
साम्योपशमवैराग्यैश्वर्यमहाविभूतिभिरनुदिनमेध -
मानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवता-
श्चावनितलसमवनायातितरां जगुश्चः ॥ १ ॥
तस्य हवा इत्थं वर्ष्मणा वरीयसा बृहच्छ्लोकेन
चौजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां च
पिता ऋषभ इतीदं नाम चकार ॥ २ ॥
तस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष
तदवधार्य भगवानृषभदेवो योगेश्वरः प्रहस्यात्म -
योगमायया स्ववर्षमजनाभं नामाभ्यवर्षत् ॥ ३ ॥
नाभिस्तु यथाभिलषितं सुप्रजस्त्वम-
वरुध्यातिप्रमोदभरविह्वलो गद्गदाक्षरया गिरा
स्वैरं गहीतनरलोकसधर्मं भगवन्तं पुराणपुरुषं
मायाविलसितमतिर्वत्स तातेति सानुराग-
मुपलालयन् परा निर्वृतिमुपगतः ॥ ४ ॥
विदितानुरागमापौरप्रकृति जनपदो राजा
नाभिरात्मजं समयसेतुरक्षायामभिषिच्य
ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां
प्रसन्ननिपुणेन तपसा समाधियोगेन नरनारायणाख्यं
भगवन्तं वासुदेवमुपासीनः कालेन
तन्महिमानमवाप ॥ ५ ॥
यस्य ह पाण्डवेयश्लोकावुदाहरन्ति-
को नु तत्कर्म राजर्षेर्नाभेरन्वाचरेत्पुमान् ।
अपत्यतामगाद्यस्य हरिः शुद्धेन कर्मणा ॥ ६ ॥
ब्रह्मण्योऽन्यः कुतो नाभेर्विप्रा मङ्गलपूजिताः ।
यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा ॥ ७ ॥
अथ ह भगवानृषभदेवः स्ववर्षं कर्मक्षेत्रमनु-
मन्यमानः प्रदर्शितगुरुकुलवासो लब्धवरैर्गुरुभि-
रनुज्ञातो गृहमेधिनां धर्माननुशिक्षमाणो
जयन्त्यामिन्द्रदत्तायामुभयलक्षणं कर्मसमाम्नाया-
म्नातमभियुञ्जन्नात्मजानामात्मसमानानां शतं
जनयामास ॥ ८ ॥
येषां खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण
आसीद्येनेदं वर्षं भारतमिति व्यपदिशन्ति ॥ ९ ॥
तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः
केतुर्भद्रसेन इन्द्रस्पृग्विदर्भः कीकट इति नव
नवतिप्रधानाः ॥ १० ॥
कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ ११ ॥
इति भागवतधर्मदर्शना नव महाभागवताः
तेषांसुचरितं भगवन्महिमोपबृंहितवसुदेवनारद-
संवादमुपशमायनमुपरिष्टाद्वर्णयिष्यामः ॥ १२ ॥
यवीयांस एकाशीतिर्जायन्तेयाः पितुरादेशकरा
महाशालीना महाश्रोत्रिया यज्ञशीलाः
कर्मविशुद्धा ब्राह्मणा बभूवुः ॥ १३ ॥
भगवानृषभसंज्ञ आत्मतन्त्रः स्वयं नित्य-
निवृत्तानर्थपरम्परः केवलानन्दानुभव ईश्वर एव
विपरीतवत्कर्माण्यारभमाणः कालेनानुगतं
धर्ममाचरणेनोपशिक्षयन्नतद्विदां सम उपशान्तो
मैत्रः कारुणिको धर्मार्थयशःप्रजानन्दामृतावरोधेन
गृहेषु लोकं नियमयत् ॥ १४ ॥
यद्यच्छीर्षण्याचरितं तत्तदनुवर्तते लोकः ॥ १५ ॥
यद्यपि स्वविदितं सकलधर्मं ब्राह्मं गुह्यं
ब्राह्मणैर्दर्शितमार्गेण सामादिभिरुपायैर्जनता-
मनुशशास ॥ १६ ॥
द्रव्यदेशकालवयः श्रद्धर्त्विग्विधोद्देशो-
पचितैः सर्वैरपि क्रतुभिर्यथोपदेशं शतकृत्व
इयाज ॥ १७ ॥
भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न
कश्चन पुरुषो वाञ्छत्यविद्यमानमिवात्मनो-
ऽन्यस्मात्कथञ्चन किमपि कर्हिचिदवेक्षते
भर्तर्यनुसवन विजृम्भितस्नेहातिशयमन्तरेण ॥ १८ ॥
स कदाचिदटमानो भगवानृषभो ब्रह्यावर्तगतो
ब्रह्मर्षिप्रवरसभायां प्रजानां निशामयन्तीना-
मात्मजानवहितात्मनः प्रश्रयप्रणयभरसुयन्त्रिता-
नप्युपशिक्षयन्नितिहोवाच ॥ १९ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां संहितायां पञ्चमस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
GO TOP
|