अग्निपुराणम्

त्रिंशोऽध्यायः

सर्वतोभद्रमण्डलादिविधिकथनम् -


नारद उवाच -
मध्ये पद्मे यजेद्‌ब्रह्म साङ्‌गं पूर्वेब्जनाभकम् ।
आग्नेयेब्जे च प्रकृतिं याम्येब्जे पुरुषं यजेत् ॥ १ ॥
पुरुषाद्दक्षिणे च वह्निं नैर्ऋते वारुणेऽनिलम् ।
आदित्यमैन्दवे पद्मे ऋग्यजुश्चैशपद्मके ॥ २ ॥
इन्द्रादींश्च द्वितीयायां पद्मे षोडशके तथा ।
सामाथर्वाणमाकाशं वायुं तेजस्तथा जलम् ॥ ३ ॥
पृथिवीञ्च मनश्चैव श्रोत्रं त्वक्‌चक्षुरर्चयेत् ।
रसनाञ्च तथा घ्राणं भूर्भुवश्चैव षोडशम् ॥ ४ ॥
महर्जनस्तपः सत्यं तथाग्निष्टोममेव च ।
अत्यग्निष्टोमकं चोक्थं षोडशीं वाजपेयकम् ॥ ५ ॥
अतिरात्रञ्च सम्पूज्य तथाप्तोर्याममर्चयेत् ।
मनो बुद्धिमहङ्‌कारं शब्दं स्पर्शञ्च रूपकम् ॥ ६ ॥
रसं गन्धञ्च पद्मेषु चतुर्विंशतिषु क्रमात् ।
जीवं मनोधिपञ्चाहं प्रकृतिं शब्दमात्रकम् ॥ ७ ॥
वासुदेवादिमूर्तीञ्च तथा चैव दशत्मकम् ।
मनः श्रोत्रं त्वचं प्रार्च्य चक्षुश्च रसनं तथा ॥ ८ ॥
घ्राणं वाक्पाणिपादञ्च द्वात्रिंशद्वारिजेष्विमान् ।
चतुर्थावरणे पूज्याः साङ्‌गाः सपरिवारकाः ॥ ९ ॥
पायूपस्थौ च सम्पूज्य मासानां द्वादशाधिपान् ।
पुरुषोत्तमादिषड्‌विंशान् बाह्यावरणके यजेत् ॥ १० ॥
चक्राब्जे तेषु सम्पूज्या मासानां पतयः क्रमात् ।
अष्टौ प्रकृतयः षड् वा पञ्चाथ चतुरोऽपरे ॥ ११ ॥
रजः पातं ततः कुर्याल्लिखिते मण्डले शृणु ।
कर्णिका पीतवर्णा स्याद्‌रेखाः सर्वाः सिताः समाः ॥ १२ ॥
द्विहस्तेऽङ्‌गुष्ठमात्राः स्युर्हस्ते चार्धसमाः सिताः ।
पद्मं शुक्लेन सन्धींस्तु कृष्णेन श्यामतोऽथवा ॥ १३ ॥
केशरा रक्तपीताः स्युः कोणान् रक्तेन पूरयेत् ।
भूषयेद्योगपीठन्तु यथेष्टं सार्ववर्णिकैः ॥ १४ ॥
लतावितानपत्राद्यैर्वीथिकामुपशोभयेत् ।
पीठद्वारे तु शुक्लेन शोभा रक्तेन पीततः ॥ १५ ॥
उपशोभाञ्च नीलेन कोणशङ्ख्यांश्च वै सितान् ।
भद्रके पूरणं प्रोक्तमेवमन्येषु पूरणम् ॥ १६ ॥
त्रिकोणं सितरक्तेन कृष्णेन च विभूषयेत् ।
द्विकोणं रक्तपीताभ्यां नाभिं कृष्णेन चक्रके ॥ १७ ॥
अरकान् पीतरक्ताभिः श्यामान् नेमिन्तु रक्ततः ।
सितश्यामारुणाः कृष्णाः पीता रेखास्तु बाह्यतः ॥ १८ ॥
शालिपिष्टादि शुक्लं स्याद्‌रक्तं कौसुम्भकादिकम् ।
हरिद्रया च हारिद्रं कृष्णं स्याद्‌दग्धधान्यतः ॥ १९ ॥
शमीपत्रादिकैः श्यामं बीजानां लक्षजाप्यतः ।
चतुर्लक्षैस्तु मन्त्राणां विद्यानां लक्षसाधनम् ॥ २० ॥
अयुतं बुद्धिविद्यानां स्तोत्राणाञ्च सहस्रकम् ।
पूर्वमेवाथ लक्षेण मन्त्रशुद्धिस्तथात्मनः ॥ २१ ॥
तथापरेण लक्षेण मन्त्रः क्षेत्रीकृतो भवेत् ।
पूर्वमेवासमो होमो बीजानां सम्प्रकीर्तितः ॥ २२ ॥
पूर्वसेवा दशांशेन मन्त्रादीनां प्रकीर्तिता ।
पुरश्चर्ये तु मन्त्रे तु मासिकं व्रतमाचरेत् ॥ २३ ॥
भुवि न्यसेद्वामपादं न गृह्णीयात् प्रतिग्रहम् ।
एवं द्वित्रिगुणेनैव मध्यमोत्तमसिद्धयः ॥ २४ ॥
मन्त्रध्यानं प्रवक्ष्यामि येन स्यान्मन्त्रजं फलम् ।
स्थूलं शब्दमयं रूपं विग्रहं बाह्यमिष्यते ॥ २५ ॥
सुक्ष्मां ज्योतिर्मयं रूपं हार्दं चिन्तामयं भवेत् ।
चिन्तया रहितं यत्तु तत् परं परिकीर्तितम् ॥ २६ ॥
वराहसिंहशक्तीनां स्थूलरूपं प्रधानतः ।
चिन्तया रहितं रूपं वासुदेवस्य कीर्तितम् ॥ २७ ॥
इतरेषां स्मृतं रूपं हार्दं चिन्तामयं सदा ।
स्थूलं वैराजमाख्यातं सूक्ष्मं वै लिङ्‌गितं भवेत् ॥ २८ ॥
चिन्तया रहितं रूपमैश्वरं परिकीर्तितम् ।
हृत्पुण्डरीकनिलयं चैतन्यं ज्योतिरव्ययम् ॥ २९ ॥
बीजं बीजात्मकं ध्यायेत् कदम्बकुसुमाकृतिम् ।
कुम्भान्तरगतो दीपो निरुद्धप्रसवो यथा ॥ ३० ॥
संहतः केवलस्तिष्ठेदेवं मन्त्रेश्वरो हृदि ।
अनेकशुषिरे कुम्भे तावन्मात्रा गभस्तयः ॥ ३१ ॥
प्रसरन्ति बहिस्तद्वन्नाडीभिर्बीजरस्मयः ।
अथावभासतो दैवीमात्मीकृत्य तनुं स्थिताः ॥ ३२ ॥
हृदयात् प्रस्थिता नाड्यो दर्शनेन्द्रियगोचराः ।
अग्नीषोमात्मके तासां नाड्यौ नासाग्रसंस्थिते ॥ ३३ ॥
सम्यग्गुह्येन योगेन जित्वा देहसमीरणम् ।
जपध्यानरतो मन्त्री मन्त्रलक्षणमश्नुते ॥ ३४ ॥
संशुद्धभूततन्मात्रः सकामो योगमभ्यसन् ।
अणिमादिमवाप्नोति विरक्तः प्रविलङ्घ्य च ।
देवात्मके भूतमात्रान्मुच्यते चेन्द्रियग्रहात् ॥ ३५ ॥
इति आदिमहापुराणे आग्नेये
सर्वतोभद्रमण्डलादिविधिकथनं नाम त्रिंशोऽध्यायः


GO TOP